TransLiteral Foundation
संस्कृत सूची|संस्कृत साहित्य|पुराण|सौरपुराणं व्यासकृतम् ।|
अध्यायः १०

सौरपुराणं - अध्यायः १०

सौरपुराणं व्यासकृतम् ।


अध्यायः १०
सूत उवाच -
नित्यं नैमित्तिकं काम्यं विमलं च चतुर्विधम् ।
दानं पात्रे प्रदातव्मं नापात्रेऽप्यणुमावकम् ॥१॥
पात्रभूतान्प्रवक्ष्यामि शृणुध्वं मुनिपुङ्गवाः ।
भानुना देवदेवेनं मनवे कथिताश्च ये ॥२॥
न दानादधिकं किंचिद्विद्यते भुवनत्रये ।
दानेन प्रपयते स्वर्गः श्रीर्दानेनैव लभ्यते ॥३॥
दानेन प्राप्गुयात्सौख्यं रूपं कान्तिं यशो बलम् ।
दानेन जयमाप्नोति मुक्तिर्दानेन लभ्यते ॥४॥
दानेन शत्रूञ्जयति व्याधिदानेग नश्यति ।
दानेन लभते विद्यां दानेन युवतीं जनः ॥५॥
धर्मार्थकाममोक्षाणां साधनं परमं रम्रुतम् ।
दानमेव न चैवान्यदिति देवोऽब्रवीद्रविः ॥६॥
तस्माद्दानाय सत्पात्रं विचार्यैव प्रयत्नतः ।
दातव्यमन्यथा सर्वं भस्मनीव हुतं भवेत् ॥७॥
वेदवेदाङ्गतत्त्वज्ञाः शान्ताश्चैव जितेन्द्रियाः ।
श्रौतस्मार्तक्रियानिष्ठाः सत्यनिष्ठाः कुटुम्बिनः ॥८॥
तपस्विनस्तीर्थरता कृतज्ञा मितभाषिणः ।
गुरुशुश्रूषणरता नित्यं स्वाध्यायशीलिनः ॥९॥
महादेवार्चनरता भूतिशासनभूषिताः ।
वैष्णवाः सूर्यभक्ता वा पात्रभूता द्विजोत्तमाः ॥१०॥
एभ्य एव प्रदातव्यमीहेद्दानफलं यदि ।
आपद्यपि न दातव्यमन्येभ्य इति निश्चितम् ॥११॥
यस्तु माहेश्वरो विप्रो जातिमात्रोऽपि यद्यपि ।
उत्तमः सर्वपात्राणां तस्मै दत्तं तदक्षयम् ॥१२॥
शिवभक्तमतिक्रभ्य यच्चान्यस्मै प्रदीयते ।
निष्फलं तद्भवेद्दानं नरकं च प्रपद्यते ॥१३॥
तस्मात्पात्रतमं ज्ञात्वा शिवभक्तमकल्मषम् ।
तस्मै सर्वं प्रदातव्यमक्षयं फलमिच्छता ॥१४॥
दानं फलमनुद्दिश्य सर्वदा यत्प्रदीयते ।
तद्दानं नित्यमित्युक्तं देवदेवेन भानुना ॥१५॥
दानं पापविशुद्ध्यर्थं श्रद्धया यत्प्रदीयते ।
प्रोक्तं नैमित्तिकं दानमृषिभिर्वेदवादिभिः ॥१६॥
पुत्रार्थं वा धनार्थं वा स्वर्गार्थं वाऽन्यतोऽपि वा ।
यद्दानं दयिते भक्त्या काम्यमित्यभिधीयते ॥१७॥
हरस्य प्रीणनार्थं यच्छिवभक्ताय दीयते ।
दानं तद्विमलं प्रोक्तं केवलं मोक्षसाधनम् ॥१८॥
यत्किंचिद्दीयते दानं दरिद्राय विशेषतः ।
दानं तदधिकं प्रोक्तं स्वकुटूम्बाविरोधतः ॥१९॥
स्वल्पामपि महीं यस्तु ददाति श्रद्धयाऽन्वितः ।
स याति ब्रह्मसदनं यत्र देवः स्वयं विराट् ॥२०॥
इक्षुगोधूमतुवरीयवैश्व सहितां महीम् ।
यो ददाति दरिद्राय स याति सवितुः पदम् ॥२१॥
अपि गोचर्ममात्रां यो ददाति श्रद्धयाऽन्वितः ।
शिवभक्ताय शान्ताय सर्वपापैः प्रमुच्यते ॥२२॥
न भूमिदानादधिकं दानमस्तीह भूतले ।
तद्दानं हि दहिद्राय दत्तं भवति चाक्षयम् ॥२३॥
आढ्याय नैव दातव्यं भूमिदानं विशेषतः ।
यो ददाति भयात्स्नेहात्सोऽक्षयं नरकं व्रजेत् ॥२४॥
यैर्दत्ता ब्राह्मणेभ्यश्च ग्रामाः परमधार्मिकैः ।
गृह्णन्ति ये करं तेषु लोभान्धाः पापिनो नृपाः ॥२५॥
नरकेषु विपच्यन्ते यावत्कल्पायुतत्रयम् ।
तदन्ते मक्षिका यूका मत्कुणा मशकास्तथा ॥२६॥
कृमयो जालपादाश्च शूकराः पक्षिणस्तथा ।
श्वानो गोधाः शशाः सेधा गर्दभाश्च पिपीलिकाः ॥२७॥
मूषकाः कृकलासाश्च वृक्षगुल्मादयस्तथा ।
भवन्ति युगासाहस्रं तदन्ते म्लेच्छजातयः ॥२८॥
न तेषां निष्कृतिर्दृष्टा प्रायश्चित्तशतैरपि ।
ब्रह्महा शुद्धिमाप्नोति कालेन मुनिपुङ्गवाः ॥२९॥
द्विजग्रामकरग्राही नैव शुद्धिमवाप्नुयात् ।
तस्मात्परिहरेत्तत्र करं यत्नेन बुद्धिमान् ॥३०॥
विप्रदानकरादानादधिकं नास्ति पातकम् ।
दानानामुत्तमं दानं विद्यादानं विदुर्बुधाः ॥३१॥
तच्च दानं विनीताय वर्णाश्रमरताय च ।
ब्राह्मणायैव शान्ताय शुश्रूपणरताय च ॥३२॥
दत्तं तद्बह्मलोकाय विद्यादानं प्रचक्षते ।
अन्नदानं प्रशंसन्ति विदुषो वेदवादिनः ॥३३॥
अन्नमेव यतः प्राणाः प्राणादानसमं हि तत् ।
तस्मादहरहर्देयमन्नमेव विचक्षणैः ॥३४॥
अपरीक्ष्यैव सर्वेभ्य इति स्वायंभुशासनात् ।
प्रीतो विरञ्चिरन्नेन प्रीतश्च कमलापतिः ॥३५॥
प्रतिश्च भगवाञ्शंभुरन्नेनैव शचीपतिः ।
तस्माद्विशिष्ठं तद्देयमाहुर्वेदविदो बुधाः ॥३६॥
आममन्नं गृहस्थाय नैव पक्कं कदाचन ।
नाध्वगाय निषिद्धं तदिति देवोऽब्रवीद्रविः ॥३७॥
जलदानमपि प्रोक्तमन्नदानेन वै समम् ।
जीवनं सर्वभूतानां जलमेव द्विजोत्तमाः ॥३८॥
तिलदः पुत्रमाप्नोति वासोदः कान्तिमुत्तमाम् ।
दीपदो निर्मलां दृष्टिं यानदः श्रियमुत्तमाम् ॥३९॥
शय्याप्रदश्चापि तथा धान्यदः सौख्यमुत्तमम् ।
अश्विनोर्लोकमाप्नोति सौन्दर्यं घोटकप्रदः ॥४०॥
ब्रह्मदानं महद्दानमिति वेदविदो विदुः ।
तेन दानेन महता सायुज्यं ब्रह्मणः स्मृतम् ॥४१॥
गृहीत्वा वेतनं वेदं योऽध्यापयति मूढधीः ।
अधीते यो हि वा दत्त्वा तावुभौ पापिनौ स्मृतौ ॥४२॥
तयोर्मुखगता वेदा निन्दिताः सर्वकर्मसु ।
सुराभाण्डगतं तोयं यथा भवति निन्दितम् ॥४३॥
गवां ग्रासप्रदानेन मुच्यते सर्वपातकैः ।
यानि भोज्यानि मूलानि फलानि विविधानि च ॥४४॥
शाकानि ब्राह्मणेभ्यश्च दत्त्वाऽत्यन्तं सुखी भवेत् ।
इन्धनानां प्रदानेन जाठराग्निप्रदीपनम् ॥४५॥
परलोकगतानां च च्छत्रदानं सुखप्रदम् ।
रोगिणे रोगशान्त्यर्थमौषधं यः प्रपच्छति ॥४६॥
रोगहीनः स दीर्घायुः सुखी भघति सर्वदा ।
गामलंकृत्य यो दद्यात्सवत्सां च सदक्षिणाम् ॥४७॥
स क्षीरिणीं द्विजेन्द्राय श्रद्धया द्विजपुङ्गवाः ।
प्राप्नोति शाश्वतालोकान्नानाभोगसमन्वितान् ॥४८॥
संख्या नैवास्ति पुण्यानां कपिलायाः प्रदानतः ।
कृष्णाजिनं च महिषी मेषी च दश धेनवः ॥४९॥
ब्रह्मलोकप्रदायिन्यस्तुलापुरुष एव च ।
षोडश ऋतवो ये च दानं तीर्थेषु तत्स्मृतम् ॥५०॥
तदक्षयं भवेxxनं योगिने च विशेषतः ।
अयने विषुवे चैव ग्रहणे चन्द्रसूर्ययोः ॥५१॥
संक्रान्त्यादिषु कालेषु दत्तं भवति चाक्षयम् ।
शिवमुद्दिश्य यद्दत्तं स्वल्पं वा यदि वा बहु ॥५२॥
शिवालये विशेषेण दत्तं भवति चाक्षयम् ।
विशाखर्क्षेण संयुक्ता वैशाखी पूर्णिमा भवेत् ॥५३॥
तस्यां तिथौ तु संपूज्य ब्राह्मणान्सप्त पञ्च वा ।
कृष्णैरेव तिलैर्विद्वान्मधुना वाऽप्युपोपितः ॥५४॥
धर्मराजो यसः साक्षात्प्रीयतामिति शक्तितः ।
दद्याद्वेदार्थविदुषे यदि वा शिवयोगिने ॥५५॥
यावज्जीवं कृतैः पापैः कायिकैर्वाङ्मनोगतैः ।
मुच्यते तत्क्षणादेव धर्मराजप्रसादतः ॥५६॥
कृष्णाजिने तिलान्कृत्वा हिरण्यं मधुसर्पिषी ।
ददाति मस्तु विप्राय सर्वपापैः प्रमुच्यते ॥५७॥
* ( घङचछसंज्ञितपुस्तकेष्वयं श्लोको न विद्यते । )
* गामन्नमुदकुम्भं च वैशाख्यां संप्रयच्छाxx ।
प्रीतये धर्मराजस्य सर्वपापैः प्रमुच्यते ॥५८॥
प्रसिद्धा या शिवतिथिर्माघे कृष्णचतुर्दशी ।
तस्यां तिथौ नरो भक्त्या देवमुद्दिश्य शंकरम् ॥५९॥
ददाति हेम वासो वा फलं धान्यमथापि वा
यत्किंचिद्वेदविदुषे दत्तं भवति चाक्षयम् ॥६०॥
अभयं सर्वभूतेभ्यो दद्याद्दानं परं स्मृतम् ।
न तस्मादधिकं दानं विद्यते च धनैर्विना ॥६१॥
एवं दानफलं प्रोक्तं पुराणेऽस्मिन्पृथक्पृथक् ।
पठेद्यः शृणुयाद्वाऽपि गोदानस्य फलं लभेत् ॥६२॥४३७॥
इति श्रीब्रह्मपुराणोपपुराणे श्रीसौरे सूतशौनकसंवादे दानार्हविप्रादिकथनं नाम दशमोऽध्यायः ॥१०॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-12-05T03:50:09.6100000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

दणदणां

  • क्रि.वि. पायांचें दणदण आपटणें , तोफांचा धडाका , जड धोंडयांचे आघात , कांडण इ० च्या मोठया व दण अशा आवाजासारखा आवाज होऊन . [ ध्व ] दणदणणें - अक्रि . १ दणदण आवाज होणें ; मोठया गर्जनेनें धडाडणें ( गोफा , बंदुका इ० ). २ अंगावर जाऊन क्रोधानें ओरडणें ; ताव झाडणें , जळफळणें . ३ दणदण पाय वाजणें ; हादरणें ( माडीवरुण जलद चालतांना माडी ); दुमदुमणें ; प्रतिध्वनि उत्पन्न होणें ( तोफा , वाद्यें इ० कांच्या धडाक्यानें घर , गुहा इ० मध्यें ). ४ एकाच्या तोंडून दुसर्‍याच्या तोंडी जाणें ; सर्वत्र पसरणें ( स्तुति , निंदा ). ५ ( फोडणी इ० चा ) घमघमात सुटणें ६ . गलबला होणें गलका होणें ( सैन्य , लोकांची गर्दी इ० चा ). ७ धडधड जळणें ( शेकोटी , टेंभा ); प्रकाशणें ; धगधगणें ( सूर्य , ऊन्ह ). दणदणाट - पु . १ दणदण असा मोठा व एकसारखा होणारा आवाज ; दणका ( समारंभ , वाद्यें इ० चा ). २ फोडणी इ० च्या वासाचा घमघमाट तळलेल्या पदार्थाचा उग्र वास ; घमघमाट ३ . माडीवरुण चालतांना अनेक पावलांचा होणारा आवाज . दणदणीत - वि १ थाटामाटाचें ; धामधुमीचें ; दणक्यानें केलेलें ( लग्न , समारंभ ). २ उग्र ; तीव्र ; सर्वत्र पसरलेल्या ( फोडणी वगैरेचा वास ). ३ धडधडा जळणारा . ४ ( दिव्या , टेंभा ). दणदणणे पहा . दणदण्या - वि . दणदणां चालणारा . 
RANDOM WORD

Did you know?

कपिलाषष्ठीचा योग म्हणजे काय?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Status

  • Meanings in Dictionary: 644,289
  • Total Pages: 46,537
  • Hindi Pages: 4,555
  • Dictionaries: 44
  • Words in Dictionary: 302,181
  • Marathi Pages: 27,517
  • Tags: 2,685
  • English Pages: 234
  • Sanskrit Pages: 14,230
  • Other Pages: 1

Suggest a word!

Suggest new words or meaning to our dictionary!!

Our Mobile Site

Try our new mobile site!! Perfect for your on the go needs.