संस्कृत सूची|संस्कृत साहित्य|पुराण|सौरपुराणं व्यासकृतम् ।| अध्यायः ३६ सौरपुराणं व्यासकृतम् । अथ सौरपुराणस्थविषयानुक्रमः । अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ सौरपुराणं - अध्यायः ३६ सौरपुराणं व्यासकृतम् । Tags : puransanskritsaur puransunपुराणसंस्कृतसूर्यसौर पुराण अध्यायः ३६ Translation - भाषांतर ऋषय ऊचु - गाणपत्यं कथं लब्धमीश्वरादुपमन्युना ।क्षीरोदधिः कथं लब्धो ह्येतदाख्यातुमर्हिसि ॥१॥सूत उवाच - * ( कस्रपुस्तकयोर्मध्य एव श्लोको न दृश्यते । ) * उपमन्युरिति ख्यातो योऽसौ धौम्याग्रजो मुनिः ।महादेवाल्लब्धवरो द्वितीय एव षण्मुखः ॥२॥क्रीडमानो महाभागः कदाचिन्मातुलाश्रमे ।तस्यैव च गृहे पीतं क्षीरं तेनोपमन्युना ॥३॥अब्रवीन्मातरं बालः पुनरेत्य स्वमाश्रमम् ।मातर्ममाद्य तद्देहि क्षीरं स्वादुतरं ततः ॥४॥तन्माता दुःखिता भूत्वा पुत्रमालिङ्ग्य सादरम् ।बीजान्यथ समादाय पिष्ट्वा सा कलभाषिणी ॥५॥पुत्राय प्रददौ क्षीरं सामपूर्वं च कृतिमम् ।मात्रा दत्तं ततः पीत्वा पयः स मुनिपृंगवाः ॥६॥मातः षयस्त्वया दत्तं नैतदित्यब्रवीद्वचः ।अश्रुपूर्णैक्षणं दृष्ट्वा पुत्रं माता सुदुःखिता ॥७॥नेत्रे संमार्ज्य हस्ताभ्यां पुत्रं प्रतीदमब्रवीत् ।वने निवसतां पुत्र दरिद्राणां विशेषतः ॥८॥यत्त्वया याच्यते क्षीरं तत्सदा दुर्लभं हि नः ।भुक्तिश्च शिवकारुण्याल्लभ्यते नान्यथा सुत ॥९॥सूत उवाच - एवं मातुर्वचः श्रुत्वा बालोऽपि मुनिपुंगवाः ।मातरं प्राह कल्याणीं विनयेन तषस्विनीम् ॥१०॥उपमन्युरुवाच - मातः शोकं त्यज क्षिप्रं यद्यस्ति भगवाञ्शिवः ।क्कचिदप्यानयाभ्याशु क्षीराब्धिं तव संनिधौ ॥११॥एवमुक्त्वाऽथ तां नत्वा मातरं मुनिबालकः ।जगाम स तपस्तप्तुं मातुराज्ञाप्रणोदितः ॥१२॥उपमन्धुस्तपस्तेपे गत्वा तु हिमपर्वतम् ।भूत्वाऽनिलाशनो विप्रा वहून्यब्दशतानि सः ॥१३॥तस्योपमन्योस्तपसा प्रदीप्तं भुवनत्रयम् ।दृष्ट्वा तदीदृशं देवा विष्णुं गत्वेदमब्रुवन् ॥१४॥* ( कस्रगसंज्ञितपुस्तकेष्वेव पदद्वयमिदं दृष्टम् । ) * देवा ऊचु - देवदेव जगन्नाथ पुराण पुरुषोत्तम् ।त्रैलोक्यं दहृतो वह्णेरस्मांस्त्रातुमिहार्हसि ॥१५॥श्रुत्वा तदीरितं विष्णुः संचिन्त्य मनसा तदा ।जगाम शंकरं द्रष्टुं मन्दरं पर्वतोत्तमम् ॥१६॥महादेवं प्रणम्याथ दृष्ट्वा त्रिष्णुः कृताञ्जलिः ।अब्रवीद्भगवान्कश्चिद्बालको हिमवद्गिरौ ॥१७॥उपमन्युरिति ख्यातः क्षीरार्थं तपसि स्थितः ।तपोग्निस्तस्य भगवन्दन्दहीति जगत्त्रयम् ॥१८॥अथ देवो महादेवः परमात्मा शिवः स्वयम् ।इन्द्ररूपं समास्थाय जगाम हिमवद्गिरिम् ॥१९॥ऐरावतं समारुह्य देवसंघैः समावृतः ।वामेन शच्या सहितो मुनेस्तस्य तपोवनम् ॥२०॥शक्ररूपधरः शंभुः प्रीत्या भृत्वाऽथ सुव्रताः ।वरं ब्रूहीत्युवाचेदमुपमन्युं महामुनिम् ॥२१॥इतीरितं वचस्तस्य श्रुत्वा वज्रधरस्य सः ।ततः प्रहसितः प्राह शिवेऽर्पितमनाः स्वयम् ॥२२॥भक्तिं शूलिन्यहं याचे शिवादेव न चान्यथा ।अलमन्यैर्वरैः शक्र तरङ्गैरिव चञ्चलैः ॥२३॥निमिषं निमिषार्धं वा मुहूर्तं क्षणमेव वा ।न ह्यलब्धप्रसादस्य भक्तिर्भवति शंकरे ॥२४॥त्वत्पदं तुच्छवद्भाति ब्रह्मत्वं चापि वृत्तहन् ।भक्तिरेव विरूपाक्षे भवत्विति मतिर्मम ॥२५॥तस्मिन्महेश्वरे शक्र भक्तिश्चेद्यदि लभ्यते ।ब्रह्मत्वमपि मे भाति पलालमिव नान्यथा ॥२६॥एवं मुनेर्निगदिंत श्रुत्वा कुपितवत्प्रभुः ।तमब्रवीच्छचीनाथो न मां वेत्सि कथं मुने ॥२७॥मत्परो मन्नमस्कारी मत्पूजनपरो भव ।मयि प्रसन्ने जगति दुर्लभं किमिहास्ति ते ॥२८॥किं तेन पार्वतीशेन निर्गुणेन महात्मना । क्रियते मुनिशार्दूल तस्मान्मत्तो वरं वृणु ॥२९॥एवं शक्रस्य वचनं श्रुत्वा मुनिवराग्रणीः ।उपमन्युरभूत्क्रुद्धश्चिन्तयानस्तदा द्विजाः ॥३०॥अहो कश्चिदिहाऽऽयातः पापात्मा राक्षसाधमः ।शक्ररूपं समास्थाय मत्तपोविघ्नहेतवे ॥३१॥तस्मादसौ निहन्तव्यः शिवनिन्दाकरो यतः ।तन्निन्दाश्रवणात्पापादधिकं तदुपेक्षणात् ॥३२॥शिवनिन्दाकरं दृष्ट्वा घातयित्वा प्रयत्नतः ।हत्वाऽऽत्मानं पुनर्यस्तु स याति परमां गतिम् ॥३३॥इति शास्त्रं समुद्दिश्य शक्रं हन्तुं समुद्यतः ।अब्रवीत्सुरराजानमुपमन्युर्मुनीश्वराः ॥३४॥क्षीरार्थं यत्तपस्तावदास्तामत्र शचीपते ।त्वां निहत्याऽऽत्मनो देहं दहिष्ये (?) योगवह्निना ॥३५॥एवमुक्त्वा समादाय भस्मनो मुष्टिमादरात् ।अथर्वास्त्रेण तज्जप्त्वा शक्रं दग्धुं मुमोच सः ॥३६॥वह्निधारणयाऽऽत्मानं दग्धुं समुपचक्त्रमे ।ध्यायन्विश्वेश्वरं देवं परमात्मानमव्ययम् ॥३७॥एवं व्यवसिते तस्मिन्पिनाकी नीललोहितः ।सौम्यधारणयाऽऽग्नेयीं वारयामास शंकरः ॥३८॥शैलादिनाऽन्यथा तत्र संहृतां चातिभीषणाम् ।अथ विश्वाधिपो रुद्रो भक्तिं ज्ञात्वा दृढां मुनेः ॥३९॥आत्मानं दर्शयामास कोटिसूर्यसमप्रभम् ।पञ्चवक्त्रं दशभुजं बालेन्दुकृतशेखरम् ॥४०॥द्वीपिचर्मपरीधानं त्रिपञ्चनयनं विभुम् ।तं दृष्ट्वा कृतकृत्योऽभूदुपमन्युर्महामुनिः ॥४१॥स्तोत्रैर्नानाविधैर्दिव्यैस्तुष्टाव परमेश्वरम् ।तस्मै प्रसन्नो भगवान्दत्तवान्क्षीरसागरम् ॥४२॥गाणपत्यं च दुष्प्रापं ब्रह्माद्यैरपि सुव्रताः ।यद्दत्तं देवदेवेन नाभूत्तत्राऽऽदरो मुनेः ॥४३॥भक्तिमेव विरूपाक्षे पुनः पुनरयाचत ।एवं दत्त्वा वरं तस्मै महादेवः सहोमया ॥४४॥स्तूयमानः सुरगणैस्तत्रैवान्तरधीयत ॥४५॥यः पठेदिदमाख्यानमुषमन्योर्महात्मनः ।सर्वपापविनिर्मुक्तो ब्रह्मलोकं स गच्छति ॥४६॥१६९१॥इति श्रीब्रह्मपुराणोपपुराणे श्रीसौरे सूतशौनकसंवादे उपमन्यूपाख्यान कथनं नाम षट्त्रिंशोऽध्यायः ॥३६॥ N/A References : N/A Last Updated : December 05, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP