TransLiteral Foundation
संस्कृत सूची|संस्कृत साहित्य|पुराण|सौरपुराणं व्यासकृतम् ।|
अध्यायः ३४

सौरपुराणं - अध्यायः ३४

सौरपुराणं व्यासकृतम् ।


अध्यायः ३४
ऋषय ऊचु -
सर्गश्च प्रतिसर्गश्च वंशा मन्वन्तराणि च ।
वंशानुचरितं चैव श्रुतं सर्वमशेषतः ॥१॥
इदानीं श्रोतुमिच्छामश्चरितं त्रिपुरद्विषः ॥२॥
पुराणि त्रीणि भगवान्ददाह स कथं पुरा ।
लीलयैवेषुणैकेन सूत नो वद कौतुकम् ॥३॥
सूत उवाच -
शृणुध्वमृषयः सर्वे चरितं शूलपाणिनः ।
यथेरितं भगवता सूर्येण मनवे पुरा ॥४॥
शृण्वतां सर्वपापग्नं सर्वदुष्टनिवारणम् ।
यत्तत्सर्वापदां हन्तृ श्रोतपीयूषमुत्तमम् ॥५॥
तारको नाम यो दैत्यो निहतः शक्तिषाणिना ।
आसन्सुतास्त्रयस्तस्य त्रैलोक्यैश्वर्यदर्पिताः ॥६॥
विद्युन्माली तारकाक्षः कमलाक्षो महाबलः ।
तेपुस्तपो महाघोरं दानवाः प्रियकाङ्क्षया ॥७॥
यमैश्च नियमैर्युक्ता बभूविरनिलाशनाः ।
प्रीतश्चतुर्मुखस्तेषां प्रददौ वरमुत्तमम् ॥८॥
देवासुराणां सर्वेषामवध्यत्वं द्विजोत्तमाः ।
पुनस्तैरमर्शत्वं याचितः पद्मसंभवः ॥९॥
वरमन्यं दैत्यवर्या वृणीध्वं मनसेप्सितम् ।
दास्यामि तदहं क्षिप्रमिति ब्रह्माऽब्रवीत्पुनः ॥१०॥
अब्रुवंस्ते विचार्यैवं मिथः कमलसंभवम् ।
पुराणि त्रीणि लोकेश रचयित्वा वयं सदा ॥११॥
त्रील्लोकान्विचरिष्यामस्त्वत्तो लब्धवरा विभो ।
ततो वर्षसहस्रे तु समेष्यामः परस्परम ॥१२॥
एकीभावं गमिष्यन्ति पुराणि च सुरोत्तम ।
यदा समेतान्येतानि यो हन्याद्भावंस्तदा ॥१३॥
एकेनैवेषुणा देव स नो मृत्युर्भविष्यति ।
एतमस्त्विति तानुक्त्वा ब्रह्माऽन्तर्धानमाप्तवान् ॥१४॥
तेषां मयस्तु क्रमशश्चक्रे त्रीणि पुराण्यथ ।
पृथिव्यामायसं त्वासीद्राजतं गगनाङ्गणे ॥१५॥
स्वर्गे तु काञ्चनमयमसुराणां पुरं द्विजाः ।
विस्तारायामतस्तेषां योजनानां शतं हवेत् ॥१६॥
आयसं यत्पुरं दिव्यं विद्युन्मालेस्तदाऽभवत् ।
राजतं तारकाक्षस्य कमलाक्षस्य काञ्चनम् ॥१७॥
मयस्य तु गृहं रम्यं पुरेषु त्रिषु विस्तृतम् ।
यत्राऽऽस्ते दानवः श्रीमान्देवदानवपूजितः ॥१८॥
रम्यं पुरत्रयं रेजे त्रैलोक्यमिव चापरम् ।
विमानैः सूर्यसंकाशैः समन्तात्परिशोभितम् ॥१९॥
गजवाजितसमाकीर्णं गोपुराट्टालमण्डितम् ।
सिद्धचारणगन्धर्वैर्दिव्यस्त्रीभिर्विराजितम् ॥२०॥
रहस्यायतनैर्दिव्यैरग्निहोत्रैर्गृहे गृहे ।
वेदाध्ययनसंपन्नैः समन्तादुपशोभितम् ॥२१॥
सर्वाः पतिव्रतास्तत्र दानवानां स्त्रियो द्विजाः ।
महादेवार्चनरतैर्दानवैरुपशोभितम् ॥२२॥
तेषां तपःप्रभावेन शक्राद्यास्तनुतां गताः ।
दृष्ट्वा देवास्तदैश्वर्यं पुराणां द्विजसत्तमाः ॥२३॥
देवास्तत्तेजसा दग्धा विष्णुं गत्वेदमब्रुवन् ।
देवा ऊचु -
देवदेव जगन्नात त्रैलोक्यस्याभयप्रद ॥२४॥
पुरत्रयासुरभयाद्भवांस्त्रातुमिहार्हति ।
एवं सुराणाम वचनं श्रुत्वा दानवमर्दनः ॥२५॥
गोविन्दश्चिन्तयामास किं कार्यमिति चेतसा ।
हन्तव्यास्ते कथं दैत्या महादेवपरायणाः ॥२६॥
हरतेजोग्निनिर्दग्धपापास्तेऽत्र न संशयः ।
त्रैलोक्यमपि यो हत्वा महादेवपरायणः ॥२७॥
कस्तं निहन्ता त्रैलोक्ये विना शंहोरनुग्रहात् ।
शंभुप्रसादलेशेन ख्यातोऽस्मि भुवनत्रये ॥२८॥
ब्रह्मा च देवा दैत्याश्च सिद्धाश्च मुनयस्तथा ।
मनवो राक्षसाः सर्पा गन्धर्वाः पितरश्च ये ॥२९॥
मातरो गुह्यका भूताः पिशाचा मानवास्तथा ।
भगवन्तं महादेवमसंपूज्य जगत्रये ॥३०॥
सिद्धिमिच्छन्ति ये मूढस्ते स्युर्दुःखस्य भाजनम् ।
तस्मात्तमीशमुग्रेण यज्ञेनेष्ट्वा सुरोत्तमम् ॥३१॥
हन्तव्या दानवा नूनमित्युक्त्वा कमलापतिः ।
मेरोरुत्तरतो गत्वा यज्ञेनाथ सदाशिवम् ॥३२॥
इष्ट्वा वै रुद्रभागेण ततो भूता विनिर्गवाः ।
नानायुधकराः सर्वे त्रैलोक्यदहनप्रभाः ॥३३॥
भूतांस्तान्प्रस्थितान्दृष्ट्वा देवो नारायणोऽब्रवीत् ।
गत्वा पुरत्रयं शीर्घ्रं दग्ध्वा हत्वा महासुरान् ॥३४॥
निःशेषानसुरान्क्रुत्वा पुनरागन्तुमर्हथ ।
अथ विष्णोर्वचः श्रुत्वा भूतवृन्दा महाबलाः ॥३५॥
हरिं प्रणम्य प्रययुस्तन्नियोगात्पुरत्रयम् ।
भूता भयंकरा दृप्ता अयुतायुतकोटयः ॥३६॥
पुरत्रयमनप्राप्य बभूवुर्नष्टचेतसः ।
पराजितास्ततो भूता दैत्यैः सन्मार्गवर्तिभिः ॥३७॥
पुनरभ्येत्य शक्राद्या देवं नारायणं विभुम् ।
अब्रुवंस्त्राहि भगवन्निर्जिता हयविह्वलाः ॥३८॥
चिन्तयामास तान्दृष्ट्वा शक्रादीन्विष्णुरव्ययः ।
भविष्यति कथं कार्यं देवानामिति सुव्रताः ॥३९॥
नाभिचारेण नाशोऽस्ति धर्मिष्ठानां महात्मनाम् ।
एते दैत्या महाभागाः सत्यव्रतपरायणाः ॥४०॥
श्रौतस्मार्तक्रियानिष्टा महादेवार्चने रताः ।
मायया मोहयित्वैव निहन्तव्या महासुराः ॥४१॥
हनिष्ये त्रिप्रं सर्वमिति संचिन्त्य चेतसा ।
असृजन्मायिनं शार्ङ्गी स्वात्मदेहान्मुनीश्वराः ॥४२॥
दृष्टप्रत्ययकृच्छास्त्रं ददौ विष्णुः सुविस्तरम् ।
यस्मिञ्शरीरमेवाऽऽत्मा नास्ति पारत्रिक्री गतिः ॥४३॥
संघातश्चेतयत्येव सुराया मदशक्तिवत् ।
अपहृत्य परद्रव्यं कामस्तेनैव सेव्यते ॥४४॥
शास्त्रं तदुपदिश्यैव त्रिपुरं प्रति सुव्रताः ।
प्रेषयामास तं विष्णुः सोऽपि मायी तदा ययौ ॥४५॥
पुरत्रयं प्रविश्याथ दानवा मोहितास्तदा ।
तत्यजुर्वैदिकं कर्म भवे भक्तिं च शाश्वतीम् ॥४६॥
पातिब्रत्यं विहायैव स्वैरिण्यश्च स्त्रियस्तदा ।
नारदोऽपि ययौ तत्र स्वशिष्यैः सहितो मुनिः ॥४७॥
मायारूपं समास्थाय नियोगाच्चक्रिणो द्विजाः ।
स्त्रियो दृष्टफलार्थिनो दैत्या दृष्टफलार्थिनः ॥४८॥
बभूवुरुपदेशेन नारदस्य महात्मनः ।
पाषण्डमार्गभूयिष्ठा संजाता दानवास्तदा ॥४९॥
शिवार्चनपरिभ्रष्टाः संजाता दानवास्तदा ।
एवं स भगवान्विष्णुर्मायारूपधरो विभुः ॥५०॥
अधर्मवहुलं कृत्वा त्रिपुरं मुनिषुंगवाः ।
महादेवमनुप्राप्य शरणं सर्वदेहिनाम् ॥५१॥
तुष्टाव स्तोत्रवर्येण भगवन्तं सनातनम् ।
दण्डवत्प्रणिपत्याऽऽह जले स्थित्वा समाहितः ॥५२॥
नमः सर्वात्मने तुभ्यं शंकरायाऽऽर्तिहारिणे ।
रुद्राय नीलकण्ठाय कद्रुद्राय प्रचेतसे ॥५३॥
गतिस्त्वं सर्वदाऽस्माकं नान्यद्देव्वारिमर्दन ।
त्वमादिस्त्वमनादिस्त्वमनन्तश्चाक्षयः प्रभुः ॥५४॥
प्रकृतिः पुरुषः साक्षाद्द्रष्टा हर्ता जगद्गुरुः ।
त्राता नेता जगत्यस्मिन्द्वजादीन्द्विजवत्सलः ॥५५॥
वरदो वाङ्मगो वाच्यो वाच्यवाचकवर्जितः ।
ध्येयो मुक्त्त्यर्थमीशानो योगिभिर्योगवित्तमैः ॥५६॥
हृत्पुण्डरीकसुषिरे योगिनां संस्थितं सदा ।
वदन्ति सूरयः सन्तं परब्रह्मस्वरूपिणम् ॥५७॥
भवन्तं तत्त्वमित्याहुस्तेजोराशिं परात्परम् ।
परमात्मानमित्याहुरस्मिञ्जगति यद्विभो ॥५८॥
दृष्टं श्रुतं स्थितं सर्वं जायमानं जगद्गुरो ।
अणोरल्पतरं प्राहुर्महतोऽपि महत्तरम् ॥५९॥
सर्वतःपाणिपादान्तं सर्वतोक्षिशिरोमुखम् ।
महादेवमनिर्देश्यं सर्वज्ञं त्वामनामयम् ॥६०॥
विश्वरूपं विरूपाक्षं सदाशिवमनुत्तमम् ।
कोटिभास्करसंकाशं कोटिशीतांशृसंनिभम् ॥६१॥
कोटिकालाग्निसंकाशं षड्विंशात्मकमीश्वरम् ।
प्रवर्तकं जगत्यस्मित्प्रकृतेः प्रपितामहम् ॥६२॥
वदन्ति वरदं देवं सर्वावासं स्वयंभुवम् ।
श्रुतयः श्रुतिसारं त्वां श्रुतिसारविदश्च ये ॥६३॥
अदृष्टमस्वाभिरनेकमूर्ते द्विधा कृतं यद्भवता नु लोके ।
तदेव दैत्यासुरभूसुराश्च देवासुराः स्थावरजङ्गमाश्च ॥६४॥
पाहि नान्या गतिः शंभो विनिहत्यासुरान्क्षणात् ।
मायया मोहिताः सर्वे दैत्यास्ते परमेश्वर ॥६५॥
यथा तरङ्गा शफरीसमूहा युध्यन्ति (?) चान्योन्यमपांनिधौ तु ।
जडाश्रयादेव जडीकृताश्च सुरासुरास्तद्विजये हि सर्वे ॥६६॥
सूत उवाच -
य इमं प्रातरुत्थाय शुचिर्भूत्वा पठेन्नरः ।
शृणुयाद्वा स्तवं पुण्यं सर्वान्कामानवाप्नुयात् ॥६७॥
एवं स्तुतो महादेवो रुद्रजाप्येन चक्रिणा ।
नन्दिदत्तकरः शंभुः स्वयं वचनब्रवीत् ॥६८॥
ईश्वर उवाच -
युष्गत्कार्यं मया ज्ञातं विष्णोर्मायाबलं तथा ।
त्रिपुरे चैव यद्वृत्तमसुराणां सुरोत्तमाः ॥६९॥
सर्वे गतसमाचारा वेदधर्मविनिन्दकाः ।
दानवास्ते यतो जातास्तस्माद्वध्या मया तथा ॥७०॥
एवमुक्त्वा महादेवः सोमः स्कन्देन नन्दिना ।
गणेश्वरैश्च सहितो दिब्यं भवनमाविशत् ॥७१॥
अथ ब्रह्मादयो देवा द्वारमाश्चित्य तुष्टुवुः ।
ततो गणाग्रणीर्नन्दी शूलहस्तो विनिर्गतः ॥७२॥
आज्ञया देवदेवस्य तं दृष्ट्वा देवतागणाः ।
तुष्टुवुर्विविधैः स्तोत्रैरभीष्टार्थप्रदायिनम् ॥७३॥
ववृषुः पुब्पवर्षाणि नन्दिनो मूर्ध्नि खेचराः ।
नियोगाद्वज्रिणः सर्वे नन्दी तुष्टस्तदाऽभवत् ॥७४॥१५९५॥
इति श्रीब्रह्मपुराणोपपुराणे श्रीसौरे सूतशौनकसंवादे विद्युन्मालितारकाक्षकमलाक्षतपआदिकथनं नाम चतुस्त्रिंशोऽध्यायः ॥३४॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-12-05T18:52:19.0170000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

आणभाक-भाष

  • f  A promise confirmed with an oath. 
RANDOM WORD

Did you know?

पूजा उपचार किती व कोणते?
Category : Hindu - Puja Vidhi
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Status

  • Meanings in Dictionary: 644,289
  • Total Pages: 46,537
  • Hindi Pages: 4,555
  • Dictionaries: 44
  • Words in Dictionary: 302,181
  • Marathi Pages: 27,517
  • Tags: 2,685
  • English Pages: 234
  • Sanskrit Pages: 14,230
  • Other Pages: 1

Suggest a word!

Suggest new words or meaning to our dictionary!!

Our Mobile Site

Try our new mobile site!! Perfect for your on the go needs.