TransLiteral Foundation
संस्कृत सूची|संस्कृत साहित्य|पुराण|सौरपुराणं व्यासकृतम् ।|
अध्यायः २४

सौरपुराणं - अध्यायः २४

सौरपुराणं व्यासकृतम् ।


अध्यायः २४
ऋषय ऊचु -
कथं स भगवाञ्शंभुः सर्वस्याऽद्योऽपि सन्विभुः ।
चतुर्मुखल्य पुत्रत्वमगमत्केन हेतुना ॥१॥
दक्षिणाङ्गभवो ब्रह्मा महादेवस्य शूलिनः ।
कथं तत्पद्मयोनित्वं विरञ्चेरिति नो वद ॥२॥
सूत उवाच -
आसीदेकार्णवे घोरे नष्टे वै सचराचरे ।
देवाश्च दानवाश्चै मुनयो मनवस्तथा ॥३॥
निर्विद्यन्ते तदा तस्मिन्सजाते प्रतिसंचरे ।
नारायणो महायोगी शेते तस्मिंस्तमोमये ॥४॥
योगनिद्रां समासाद्य शेषाहिशयने द्विजाः ।
उद्भूतं पङूजं तस्य नाभौ भगवतो हरेः ॥५॥
दिव्यगन्धसमोपेतं शतयोजनविस्तृतम् ।
सस्यैव शयनस्थस्य दिव्यं वर्षशतं मतम् ॥६॥
ब्रह्मा जगाम तं देशं यत्राऽऽस्ते पुरुषोत्तमः ।
समुत्थाप्य च तं बह्मा करेण मधुसूदनम् ॥
मायया मोहितो ब्रह्मा तमुपाच सुरेश्वरम् ॥७॥
अस्मिन्नेकार्णवे घोरे शेते कोऽत्र भवानहो ।
ब्रहीत्युक्तेऽब्रवीद्विष्णुर्ब्रह्माणं तेजसां निधिः ॥८॥
न जानासि कथं मूढ मामन्तर्यामिणं विभूम् ।
सर्वस्याऽऽद्यं सुरश्रेष्ठं जानीहीत्यब्रवीद्विभुः ॥९॥
एवमुक्त्वा पुनश्चक्री जानन्नपि षितामहम् ।
को भवानिति तं प्राह ब्रह्मा हरिमथाब्रवीत् ॥१०॥
अहं वै सर्तभूतानामाद्यः सर्वजगत्पतिः ।
ब्रह्माणं मां परं देवं जानीहि पुरुषर्षभ ॥११॥
चराचरात्मकं विश्वं मयि तिष्ठति सर्वदा ।
मय्येव विलयश्चान्ते पुनरेव न संशयः ॥१२॥
एवं पितामहेनोक्तो भमवान्कमलापतिः ।
प्रविष्टो ब्रह्मणो देहं तत्र लोकान्ददर्श सः ॥१३॥
विस्मितः कमलाकान्तो निर्गतश्च विधेर्मुखात् ।
सहस्रशीर्षा पुरुषः पुनर्ब्रह्माणमब्रवीत् ॥१४॥
विधे त्वमपि मद्देहं प्रविश्याशु विलोकय ।
चराचरात्मकॉंल्लोकान्सदेवासुरमानुषान् ॥१५॥
ततो विरिञ्चिर्भगवानुदरं कमलापतेः ।
प्रविश्य भुवनान्सर्वान्दृष्ट्वाऽभूद्विस्मितो विधिः ॥१६॥
नापश्यन्निर्गद्वारं पिहितानि च चक्रिणा ।
ततोऽसौ नाभिपद्मस्य नालमार्गमविन्दत ॥१७॥
तेन मार्गेण निर्गत्य ब्रह्मा ब्रह्मविदां वरः ।
रेजे पङ्कजमध्यस्थो देवदेवः पितामहः ॥१८॥
तमब्रवद्गिदापाणिब्रह्माणममितद्युतिः ।
लीलार्थमेतत्सकलं पितामह कृतं मया ॥१९॥
न मात्सर्यात्सुरश्रेष्ठ द्वाररोधो मया कृतः ।
त्वमेव जगतो मान्यः सर्वस्याऽऽद्यः पितामहः ॥२०॥
पुत्रत्वे त्वामहं याचे देहि मे कमलासन ।
पद्मयोनिरिति ख्यातिं मत्प्रियार्थं गमिष्यसि ॥२१॥
ततः स्वयंभूर्विश्वादिश्चक्रिणे वरमुत्तमम् ।
दत्त्वा प्रहर्षमगमत्सर्वभूतात्मको विभुः ॥२२॥
ततस्तमब्रवीद्विष्णुं नाऽऽवाभ्यां विद्यते परम् ।
त्वन्मयं मन्मयं सर्वमेका मूर्तिर्द्विधा स्थिता ॥२३॥
एवं निगदितो विष्णुर्ब्रह्मणा परमेष्ठिना ।
विरञ्चेयं प्रतिज्ञा ते निष्फलैव भविष्यति ॥२४॥
किं न पश्यसि विश्वेशं स्वयंज्योतिः सनातनम् ।
सर्वात्मकमुमाकान्तमनादिनिधनं परम् ॥२५॥
गच्छाऽऽवाभ्यां परं देवमधिकं शरणं विधे ।
एवं हरेर्निगदितं श्रुत्वा ब्रह्मा तमब्रवीत् ॥२६॥
आवाभ्यामधिकः कश्चिद्विद्येतेति मुधा हरे ।
भाषसे निद्रयाऽऽविष्टस्त्यज मोहं महामते ॥२७॥
* ( कखगघङचसंज्ञितपुस्तकेषु विष्णुरुवाचेति नास्ति । )
* विष्णुरुवाच -
मैवं विधे यदज्ञात्वा परं भावं महेश्वरे ।
अस्तीति नान्यथाऽहं ते ब्रवीमि कमलासन ॥२८॥
मोहितात्मा न संदेहो मायया परमेष्ठिनः ।
मायी विश्वात्मको रुद्रो मायाशक्तिस्तु शांकरी ॥२९॥
यस्मात्सर्वमिदं ब्रह्मन्विष्णुरुद्रेन्द्रपूर्वकम् ।
महाभूतेन्द्रियैः सर्वैः प्रथमं संप्रसूयते ॥३०॥
सर्वैश्वर्येण संपन्नो नाम्ना सर्वेश्वरः स्वयम् ।
सर्वैर्मुमुक्षुभिर्ध्येयः शंभुराकाशमघ्यगः ॥३१॥
योऽग्रे त्वां विदधे पुत्रं तव वेदांश्च दत्तवान् ।
यत्प्रसादात्त्वया लब्धं प्रजापत्यमिदं पदम् ॥३२॥
एको बहूनां जन्तूनां निष्क्रियाणां च सक्रियाः ।
य एकं बहुधा बीजं करोति स महेश्वरः ॥३३॥
जीवैरेभिरिमाल्लोंकान्सर्वानेको य ईशते ।
य एको भगवान्रुद्रो न द्वितीयोऽस्ति कश्चन ॥३४॥
सदा जनानां हृदये संनिविष्टोऽपि यः परैः ।
अलक्ष्यो लक्षयन्विश्वमधितिष्ठति सर्वदा ॥३५॥
यस्तु कालात्मयुक्तानि कारणान्यपि लीलया ।
अनन्तशक्तिरेकात्मा भगवानधितिष्ठति ॥३६॥
यस्य शंभोः परा शक्तिर्भावगम्या मनोहरा ।
निर्गुणा स्वगुणैरेव निगूढा निष्कला शिवा ॥३७॥
एष देवो महादेवो विज्ञेयः सर्वदा जनैः ।
न तस्य परमं किंचित्पदं समधिगम्यते ॥३८॥
अयमादिरनाद्यन्तः स्वभावादेव निर्मलः ।
अनन्तः परिपूर्णश्च स्वेच्छाधीनश्चराचरः ॥३९॥
उत्तरोत्तरभूतानामुत्तरश्च निरुत्तरः ।
अनन्तमहिमा भूमिरपरिच्छिन्नवैभवः ॥४०॥
अनेन चित्रकृत्येन प्रथमं सृज्यते जगत् ।
अन्तकाले पुनश्चेदमस्मिन्प्रलयमेष्यति ॥४१॥
दृश्यश्च पतितैर्मूढैर्दुर्जनैरपि कुत्सितैः ।
भक्तैरन्तर्बहिश्चापि पूज्यः संभाव्य एव च ॥४२॥
तदीयं त्रिविधं रूपं स्थूलं सूक्ष्मं ततः परम् ।
अस्मदाद्यैः सुरैर्दृश्यं स्थूलं सूक्ष्मं तु योगिभिः ॥४३॥
ततः परं तु यंन्नित्यं ज्ञानमानन्दमव्ययम् ।
तन्निष्ठेस्तत्परैर्भक्तैर्दृश्यते व्रतमास्थितैः ॥४४॥
बहुनाऽत्र किमुक्तेन ब्रह्मन्सर्वेश्वरे शिवे ।
भक्तिरेव सदा कार्या यया युक्तो विमुच्यते ॥४५॥
प्रसादादेव सा भक्तिः प्रसादो भक्तिसंभवः ।
यथेहाङ्कुरतो बीजं बीजतो वा यथाऽङ्कुरः ॥४६॥
तस्य प्रसादलेशेन पशोः पाशपरिक्षयः ।
तस्मात्पशुपतिः शंभुः पशवस्त्वस्मदादयः ॥४७॥
सर्वेषां मुक्तिदः शंभुस्तेषां भावानुरूपतः ।
गर्भस्थो मुच्यते कश्चिज्जायमानस्तथा परः ॥४८॥
बालो वा तरुणो वाऽथ वृद्धो वा मुच्यते परः ।
तिर्यग्योनिगतः कश्चिन्मुच्यते नारकी परः ॥४९॥
अपरस्तूदरप्राप्तो मुच्यते स्वपदक्षयात् ।
कश्चित्क्षीणपदो भूत्वा पुनरावर्त्य मुच्यते ॥५०॥
कश्चिदूर्ध्वगतस्तस्मिन्स्थित्वा स्थित्वा विमुच्यते ।
तस्मान्नैकप्रकारेण नराणां मुक्तिरिष्यते ॥५१॥
ज्ञानभावानुरूपेण प्रसादेनैव निर्वृतिः ।
त्वमेका भगवन्मूर्तिरन्या नारायणी परा ॥५२॥
रौद्री तृतीया कथिता जगत्संहारकारिणी ।
एतासां प्रेरकः शंभुः स्वे स्वे कार्ये चतुर्मुख ॥५३॥
निर्गुणोऽपि गुणाध्यक्षः स्वतन्त्रैश्वर्यविग्रहः ।
तमीश्वरं महादेवं न पश्यसि कथं विधे ॥५४॥
दिव्यं ददामि ते चक्षुर्येन षश्यसि तं शिवम् ।
विष्णोर्भगवतो ब्रह्मा दिव्यं चक्षुरवाप्य तु ॥५५॥
अपश्यत्स महादेव प्रत्यक्षं पुरतः स्थितम् ।
ब्रह्मा लब्ध्वा परं ज्ञानमैश्वरं निर्गुणं परम् ॥५६॥
तमेव शरणं गत्वा संस्तूय विविधैः स्तवैः ।
प्रीतो भूत्वा महादेवश्चतुर्मुखमथाब्रवीत् ॥५७॥
ईश्वर उवाच -
स्तोत्रैर्बहुविधैर्भक्त्या तोषितोऽहं विधे त्वया ।
मुक्तो भविष्यसि क्षिप्रं मत्समश्च न संशयः ॥५८॥
मयैव सृष्टः सुष्ट्यर्थं त्वमेव् च जनार्दनः ।
वरं ददागि ते ब्रह्मन्वरयस्व यथेप्सितम् ॥५९॥
एवं शंभोर्निगदितं श्रुत्वा चैव पितामहः ।
विष्णुं निरीक्ष्य षुरतः स्थितमाह महेश्वरम् ॥६०॥
+ ( ब्रह्मोवाचेति घङचङप्तज्ञि पुस्तकेषु नास्ति । )
+ ब्रह्मोवाच -
भगवन्देवदेश सर्वज्ञ गिरिजापते ।
त्वामेव पुत्रमिच्छागि त्वया वा सदृशं सुतम् ॥६१॥
त्वन्मायामोहितः शंभो न वेद्मि त्वां परं शिवम् ।
नमामि तव पादाब्जं योगिनां भवभेषजम् ॥६२॥
श्रुत्वा विरञ्चेर्वजनं देवदेवः पिनाकधृक ।
ब्रह्माणमब्रवीत्पुत्रं समालोक्याथ चाक्रणम् ॥६३॥
प्रार्थितं यत्त्वया ब्रह्मंस्तत्करिष्यामि पुत्रक ।
अहमंशेन भविता पुत्रस्तव पितामह ॥६४॥
ज्ञानं मद्विषयं क्षिप्रं भविष्यति तवानघ ।
सृज त्वं मत्प्रसादेन चराचरमिदं जगत् ॥६५॥
एष योगीश्वरः शार्ङ्गी ममैवांशो न संशयः ।
साहाय्ये भविता ब्रह्मन्ममाऽऽदेशात्तवानघ ॥६६॥
एवं दत्त्वा वरं शंभुर्ब्रह्मणे द्विजसत्तमाः ।
अथाब्रवीद्धृषीकेशं प्राञ्जल्लिं पुरतः स्थितम् ॥६७॥
वरं वरय दास्यामि तव नारायणाव्यय ।
नाऽऽवाभ्यां विद्यते भेदो मच्छक्तिस्त्वं न संशयः ॥६८॥
त्वन्मयं मन्मयं सर्वभव्यक्तं पुरुषात्मकम् ।
ज्ञानज्ञेयात्मकं विश्वं त्वन्मयं मन्मयं हरे ॥६९॥
ज्ञाताऽहज्ञानरूपस्त्वं मन्ताऽहं त्वं मतिर्हरे ।
प्रकृतिस्त्वं सुरश्रेष्ठ पुरुषोऽहं न संशयः ॥७०॥
त्वं चन्द्रमा अहं सूर्यः शर्वरी त्वमहं दिनम् ।
त्वमेव माया विश्वस्य मायाऽहं परमा विभो ॥७१॥
एवं शंभोर्वचः श्रुत्पा वासुदेवो निरञ्जनः ।
अब्रवीत्परमात्मानं महादेवं द्विजोत्तमाः ॥७२॥
विष्णुरुवाच -
निश्चला त्वयि मे भक्तिर्भवत्वव्यभिचारिणी ।
वरैः किमन्यैर्भगवन्करोमि सुरपूजित ॥७३॥
एवमस्त्वित्यथाऽऽभाष्य समालिङ्ग्य च शार्ङ्गिणम् ।
पालयैतन्ममाऽऽदेशादित्युक्त्वाऽन्तर्हितो हरः ॥७४॥
अभयब्द्रह्मणः पुत्रो यथा देवस्त्रिलोचनः ।
तथा सर्वमशेषेण कथितं मुनिपुंगवाः ॥७५॥१०९५॥
इति श्रीब्रह्मपुराणोपपुराणे श्रीसौरे सूतशौनकसंवादे ब्रह्मपद्मयोनित्वादिकथनं नाम चतुर्विशोऽध्यायः ॥२४॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-12-05T18:44:51.9400000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

अणुरेणू

  • m  An atom. 
RANDOM WORD

Did you know?

अतिथी व अतिथिसत्कार याचे विशेष महत्व काय?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Status

  • Meanings in Dictionary: 644,289
  • Total Pages: 46,537
  • Hindi Pages: 4,555
  • Dictionaries: 44
  • Words in Dictionary: 302,181
  • Marathi Pages: 27,517
  • Tags: 2,685
  • English Pages: 234
  • Sanskrit Pages: 14,230
  • Other Pages: 1

Suggest a word!

Suggest new words or meaning to our dictionary!!

Our Mobile Site

Try our new mobile site!! Perfect for your on the go needs.