संस्कृत सूची|संस्कृत साहित्य|पुराण|सौरपुराणं व्यासकृतम् ।| अध्यायः १८ सौरपुराणं व्यासकृतम् । अथ सौरपुराणस्थविषयानुक्रमः । अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ सौरपुराणं - अध्यायः १८ सौरपुराणं व्यासकृतम् । Tags : puransanskritsaur puransunपुराणसंस्कृतसूर्यसौर पुराण अध्यायः १८ Translation - भाषांतर सूत उवाच - वदेन्नैवाप्रियं वाक्यं नानृतं न च मर्मभित् ।न हिंस्यात्सर्वभूतानि न वेदनां च कुत्सनम् ॥१॥ईश्वरः सर्वभूतानां साक्षी यः सर्वकर्मणाम् ।स्मरआण्न्मोक्षदः शंभुस्तस्य निन्दां विवर्जयेत् ॥२॥शास्त्रेषु दृश्यते शुद्धिर्महापातकिनामपि ।निन्दकानां महेशस्यं शुद्धिर्न खलु दृश्यते ॥३॥जलं तृणं वा शाकं वा मृदं वा काष्ठमेव वा ।परस्यापहरञ्जन्तुर्नरकं प्रतिपद्यते ॥४॥नित्ययाचर्नको न स्याद्याचितं नैव याचयेत् ॥५॥ग्रहीतव्यानि पुष्पाणि देवार्चनविधौ द्विजैः ।नैकस्मादेव नियतमननुज्ञाय केवलम् ॥६॥तृणं काष्ठं फलं पुष्पं प्रकाशं वै हरेब्दुधः ।धर्मार्थं केवलं विप्रोविप्रो ह्यन्यथा पतितो भवेत् ॥७॥तिलमुद्गयवादीनां मुष्टिर्गाह्या यदि स्थितैः ।क्षुधातैर्नान्यदा विप्रैर्धर्मविद्भिरिति स्थितिः ॥८॥अन्रुतात्पारदार्याच्च तथाऽभक्ष्यस्य भक्षणात् ।अश्रौतधर्मचरआण्त्क्षिप्रं नश्यति वै कुलम् ॥९॥ज्ञानवृद्धस्तपोवुद्धो वयोवृद्ध इति त्रयः ।पूर्वः पूर्वाऽभिवाद्यः स्यात्पूर्वाभावे परः परः ॥१०॥त्रिपुण्ड्रधारी सततं ब्राह्मणः सर्वकर्मसु ।भस्मनैवाग्निहोत्रस्य शिवाग्निजनितेन वा ॥११॥न मूर्खैः सह संवासः पतितैर्न कदाचन ।वेदनिन्दारतैर्नैव न चापीश्वरनिन्दकैः ॥१२॥पैशुन्यं शुष्कवैराणि विवादं वर्जयेत्सदा ।धयन्तीं गां परक्षेत्रे न चाऽऽचक्षीत कस्यचित् ॥१३॥बहुभिर्नः विरोधं च कुर्यान्न कृतिभिरतथा ।तिथिं पक्षस्य न ब्रूयान्नक्षत्राणि न निर्दिशेत् ॥१४॥न पापं पापिनां ब्रूयात्तथाऽपापमपापिनाम् ।सत्येन तुल्यदोषी स्यादसत्येन द्विदोषभाक् ॥१५॥यानि मिथ्याभिशस्तानां पतन्त्यश्रूणि रोदनात् ।तानि पुत्रान्पशून्घ्नन्ति तेषां मिथ्याभिशंसिनाम् ॥१६॥ब्रह्महत्या सुरापानं स्तेयं गुर्वङ्गनागमः ।दृष्टं विरोधनं वृद्धैर्नारित मिथ्याभिशंसिनि ॥१७॥मानं मदं तथा शोकं द्वेषं च परिवर्जयेत् ।* ( रविवार इत्यादि भूतल इत्यन्तं श्लोकद्वयं कखगघजसंज्ञितपुस्तकेषु नास्ति । ) * रविवारे न कुवर्ति भृष्टभरवभक्षणम् ॥१८॥धनकामो जनः सत्यं नात्र कार्या विचारणा ।रविवारे तु लवणं वर्ज्यं भोजनपात्रके ॥१९॥तथा तैलोषमर्दं च धनकामेन भूतले ।न कुर्यात्कस्याचित्पीडां सुतं शिष्यं च ताडयेत् ॥२०॥न नदीषु नदीं ब्रूयात्पर्वतेषु च पर्वतम् ।प्रवासे भोजने चापि न त्यजेत्सहयायिनम् ॥२१॥ शिरोभ्यङ्गावशिष्टेन तैलेनाङ्गं न लेपयेत् ।न सर्पशस्रैः क्रीडते स्वानि खानि न संस्पृशेत् ॥२२॥न संहताभ्यां पाणिभ्यां कण्डूयेदात्मनः शिरः ।न लौकिकेः स्तवैर्देवांस्तोषयेब्दाह्यजैरपि ॥२३॥न दन्तैर्नखरोमाणि च्छिन्द्यात्सुप्तं न बोधयेत् ।न बालातपमासेवेत्प्रेतधूमं विवर्जयेत् ॥२४॥नाशुद्धोऽग्नि परिचरेन्न देवान्कीर्तयेदृषीन् ।न वामहस्तेनोद्धृव्य पिबे त्वत्क्रे वा जलम् ॥२५॥करेणैकेन यद्वारि पीतं तन्मदिरासमम् ।विश्वेश्वरमुमाकान्तं विश्वान्तर्यामिणं विभुम ॥२६॥न ब्रह्माद्यैः समं ब्रूयाच्छक्तिभिर्न च पार्वतीम् ।बूयाद्यदि समं शंभुं ब्रह्मविष्ण्वादिभिः सुरैः ॥२७॥यः कश्चित्तमसाऽऽविष्टः कदाचिन्नैव तं स्पृशेत् ।सर्वस्मादधिकं ब्रूयाद्भगवन्तमुमापतिम् ॥२८॥तथा देवी च गिरिजां द्विजैः श्रेयोर्थिभिः सदा ।परस्त्रियं न भाषेत नायाज्यं यजयेद्द्विजाः ॥२९॥न देवायतनं गच्छेत्कदाचिच्चाप्रदक्षिणम् ।न निन्देद्योगिनः सिद्धान्व्रतिनो नो यतींस्तथा ॥३०॥न चाऽऽक्रामेद्गुरोश्छायां न तथाऽऽज्ञां गुरोः सदा ।वक्ष्यमाणेन विधिना स्नानं कुर्यात्समाहितः ॥३१॥* (अत्र खनित्वा च शलाकयेत्य्रपेक्षितमिति प्रतिभाति । )भूमिं व्याहृतिभिः स्पृष्ट्वाः* खनमानं द्यु चाशया । ? उद्धृताऽसीति संगृह्य गन्धद्वारेति गोमयम् ॥३२॥अपाघमित्यपामार्गं दूर्वां संगृह्य दूर्वया ।जलतीरं समासाद्य शुचौ देशे समाहितः ॥३३॥आदित्या इति संप्रोक्ष्य कूलं तीर्थस्य सुव्रतः ।शुचौदेशे प्रतिष्ठाप्य गायत्र्या प्रोक्षयेत्ततः ॥३४॥भागद्वयं स तां पश्चादेकं दिक्षु विसर्जयेत् ।यत इन्द्रादिमन्त्रैश्च चतुर्भिस्तु यथाक्रमम् ॥३५॥अवगाह्य जले पश्चात्तीरे चैवोपविश्य च ।अवशिष्ठेन भागेन मन्त्रैश्चाऽऽलेपयेत्क्रमात् ॥३६॥अक्षीभ्यामितिमन्त्रेण मुखमालेपयेद्बुधः ।ग्रीवाभ्यामिति च ग्रीवा तल्लिङ्गेन तथा भुजौ ॥३७॥+ ( उक्त्वाऽथ हृदयमित्यादि हिरण्यशृङ्गमित्यन्तं घङचछजसंज्ञितेषु पुस्तकेषु नास्ति । ) शरीरं यज्ञमुक्त्वाऽथ+हृदयं परिलेपयेत् । नाभिमानन्दनन्देति शिष्टं मूर्ध्नि विनिक्षिपेत् ॥३८॥मूर्धानमितिमन्त्रेण तिलदूर्वाक्षतादिकम् ।जपेच्छुद्धमतिः पश्चात्सूक्तं चैवाघमर्षणम् ॥३९॥द्विपदांच जपेद्देवीं सर्वपापप्रणाशनीम् ।इदं तु वारुणं स्नानं मन्त्रस्नानमथोच्यते ॥४०॥आग्नेयं भस्मना स्नानं वायव्यं रजसा गवाम् ।दिव्यमातपवर्षेण तत्तु कार्यमनन्तरम् ॥४१॥आर्द्रेण वाससा चान्यन्मानसं शिवचिन्तनम् ।स्नानानां चैव सर्वेषां मानसं स्नानमुत्तमम् ॥४२॥स्नात्वाऽथाऽऽचभ्य चिधिवत्तर्पयेच्च सुरान्पितॄन् ।पुनराचम्य विधिना मार्जनं च समाचरेत् ॥४३॥दद्याज्जलाञ्जलिं पश्चात्सवित्रे रुद्ररूपिणे ।ततो दर्भासने स्थित्वा गायत्रीं प्रजपेद्द्विजः ॥४४॥त्रैवर्णिकानां सर्वेषां गायत्री परमा गतिः ।यद्गायत्र्याः परं तत्त्वं देवदेवो महेश्वरः ॥४५॥इति ज्ञात्वा जपेद्विद्वान्गायत्र्याः फलमश्रुते ।यो ह्यन्यथा तु मनुते गायत्रीं शिवरूपिणीम् ॥४६॥पच्यते स महाघोरे नरके कल्पसंख्यया ।पादाश्चत्वारो गायत्र्या वेदाश्चत्वार एव ते ॥४७॥विरञ्चिविष्णुरुद्रेशाः पादानां देवताः क्रमात् ।एवं ज्ञात्वा विधानेन गायत्रीं वेदमातरम् ॥४८॥जपेन्माहेश्वरं ज्योतिर्नित्यमेव प्रकाशते ।उपतिष्ठेदथाऽऽदित्यं रुद्ररूपिणमव्ययम् ॥४९॥भक्तैः स्तोत्रैश्च मन्त्रैश्च वेदेतिहाससंभवैः ।पावमानानि सूक्तानि ब्रह्मयज्ञप्रसिद्धये ॥५०॥जपेत्समाहितो भूत्वा रुद्रांश्चैव विशेषतः ।मौनेनाऽऽगत्य भवनं पूजयेच्छिवमव्ययम् ॥५१॥षडक्षरेण मन्त्रेण मानस्तोक्या तथैव च ।षडक्षरात्परो मन्त्रो वेदेषु च चतुर्ष्व्पि ॥५२॥नास्तीत्युवाच भगवान्देवदेवः स्वयं रविः ।पत्रैः पुष्पैः फलैर्वाऽपि दूर्वाभिरुद्रकैरपि ॥५३॥नासंपूज्य महादेव भुञ्जीत ब्राह्मणः सदा ।ब्राह्मणक्षत्त्रियविशां कर्मिणां योगिनामपि ॥५४॥गतिर्विश्वेश्वरो देवो भवो नान्य इति श्रुतिः ।कुर्यात्पञ्चमहायज्ञान्गृहस्थः श्रद्धयाऽन्वितः ॥५५॥पञ्चयज्ञपरित्यागादाश्रमादवहीयते ।देवयज्ञो भूतयज्ञ पितृयज्ञस्तथाऽपरः ॥५६॥मानुषो ब्रह्मयज्ञश्च पञ्च यज्ञाः प्रकीर्तिताः ।कर्तव्यो वैश्वदेवस्तु देवयज‘ज उदीरितः ॥५७॥हृतशेषेण भूतेभ्यो बलिं भूतमखं विदुः ।विप्रं तु भोजयेदेकं पितॄनुद्दिश्य यत्नतः ॥५८॥नित्यश्राद्धं तदुद्दिष्टं पितृयज्ञः प्रचक्षते ।यथाशक्त्यन्नमुद्धृत्य प्रदद्याद्ब्राह्मणाय वै ॥५९॥अतिथिं पूजयेद्भक्त्या शिवभावसमन्वितः ।सोऽतिथिं स्वर्गसोपानमिति देवोऽब्रवीद्रविः ॥६०॥प्रदद्याद्व्रतकारं वा भिक्षां च भवभावतः ।अक्षयं तत्फलं प्राहुर्भवभावो हि दुर्लभः ॥६१॥वेदाभ्यासरतो नित्यं तद्विचाररतो भवेत् ।ब्रह्मयज्ञः समुद्दिष्टो ब्रह्मलोकफलप्रदः ॥६२॥एतान्कृत्वैव सततं भुञ्जीताऽऽश्रमधर्माभिः ।अन्यथा यो हि भुङ्क्तेऽन्नं प्रेत्य शूकरतां व्रजेत् ॥६३॥यदि विश्वेश्वरे स्थाणौ भक्तिरेकैव निश्चला ।किं तैः पञ्चमहायज्ञैरन्यैर्वा विविधैर्मखैः ॥६४॥८३६॥इति श्रीब्रह्मपुराणोपपुराणे श्रीसौरे सूतशौनकसंवादे द्विजधर्म कथनं नामाष्टादशोऽध्यायः ॥१८॥ N/A References : N/A Last Updated : December 05, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP