TransLiteral Foundation
संस्कृत सूची|संस्कृत साहित्य|पुराण|सौरपुराणं व्यासकृतम् ।|
अध्यायः ३५

सौरपुराणं - अध्यायः ३५

सौरपुराणं व्यासकृतम् ।


अध्यायः ३५
सूत उवाच -
अथ नन्दीश्वरः प्राह ब्रह्मादीन्परया मुदा ।
ससारथिं रथं शंभोः सशरं कर्तुमर्हथ ॥१॥
रथा रूढो महादेवस्त्रिपुरं संहरिष्यति ।
अथ देवाधिदेवस्य निर्मितो विश्वकर्मणा ॥२॥
रथः परमशोभाढ्यः सर्वदेवमयः शिवः ।
सूर्यचन्द्रौ स्मृतौ चक्रे अरयः शशिनः कलाः ॥३॥
सूक्ष्मारा द्वादशाऽऽदित्या नेम्यः षडृतवः स्मृताः ।
अन्तरिक्षमभूत्तस्य पुष्करं मुनिपुंगवाः ॥४॥
मन्दरश्चाभवन्नीहं कूवरं कथयामि वः ।
उदयाद्रिस्तथाऽस्ताद्रिरधिष्ठानमथोच्यते ॥५॥
मेरुः केसरशैलश्च वेगः संवत्सरः स्मृतः ।
अयने मेखले प्रोक्ते चक्रयोर्मुनिपुंगवाः ॥६॥
मुहूर्ता वन्धुराः शस्ता रथस्य द्विजसत्तमाः ।
घोणा काष्ठाश्र विज्ञेया अक्षदण्डः क्षणा द्विजाः ॥७॥
कुथा निमेषाः कथिताः कलाश्चैव लवाः स्नृताः ।
द्यौर्वरूथमभूत्तस्य स्वर्गमोक्षावुभौ ध्वजौ ॥८॥
दण्डौ च कर्मवैराग्ये मखा दण्डाश्रयाः स्गृताः ।
संभयो दक्षिणास्तस्य युगाक्षौ शृणुत द्विजाः ॥९॥
अर्थकामौ द्विजश्रेष्ठा ईषादण्डस्तथोच्यते ।
अव्यक्तमिति यत्प्रोक्तं बुद्धिस्तस्यैव विड्वलः ॥१०॥
अहंकारो भवेत्कोणो भूतानि बलमुत्तमम् ।
भूषणानीन्द्रियाणि स्युरर्धं च गतिरुत्तमा ॥११॥
वेदास्तस्ध हयाः प्रोक्तरः षडङ्गानि च भूषणम् ।
धर्मशास्त्रानि मीमांसा पुराणं न्याय एव च ॥१२॥
बाणाश्रयाक्षयाश्चैव(?) मन्त्रा घण्टा इवेरिताः ।
रथंतरं च च्छन्दांसि दिशः पादा रथस्य ताः ॥१३॥
सरितां पतयस्तस्य रथकम्बलिकाः स्मृताः ।
गङ्गद्याः सरितः शुभ्राः सर्वाभरणभूषिताः ॥१४॥
सर्वां स्त्रीरूपधारिण्यश्चामराग्रकराः शुभाः ।
सप्ताऽऽवहाद्याः सोपानाः सारथिर्भगवानजः ॥१५॥
प्रतोदः प्रणवस्तस्य शैलेन्द्रः कार्मुकं तथा ।
ज्या भुजंगाधिपः श्रीमान्धण्टा वै भारती स्मृता ॥१६॥
इषुस्तस्याभवद्विष्णुर्यमः शल्यं द्विजोत्तमाः ।
शरस्य तैक्ष्ण्यं कालाग्निरेवं देवमयो रथः ॥१७॥
अथाऽऽरुरोह भगवान्दिव्यं रथमनुत्तमम् ।
स्तूयमनो महादेवो मुनिसंघैर्मुनीश्वराः ॥१८॥
स्वकार्यविघ्नकर्तारं देवं दृष्ट्वा विनायकम् ।
संपूज्य भक्ष्यभोज्यैश्च फलैश्च विविधैः शुभैः ॥१९॥
उण्डेरमोर्देकैश्चैव पुष्पैर्दीपर्मैनोहरेः ।
एवं संपूज्य भगवान्पुरं दुग्धुं जगाम ह ॥२०॥
शंभोरग्रे ययुर्देवास्तेषामग्रे गणेश्वराः ।
तेषामग्रेसरो नन्दी सर्वलोकनमस्कृतः ॥२१॥
विमानं कोटिसूर्याभमारुह्य मुनिपुंगवाः ।
दैत्यान्प्रहर्तुं शैलादिस्त्वरेण प्रययौ तदा ॥२२॥
समन्तात्प्रययुर्देवाः सायुधाश्च सवाहनाः ।
लोकपालास्तथा सिद्धा गन्धर्वाप्सरसां गणाः ॥२३॥
मुनयः शंसितात्मानो मतरो लोकमातरः ।
समन्ताद्देवदेवस्य कृताञ्जलिपुटा ययुः ॥२४॥
पुष्पवर्षाणि ववृषुः खेचराश्चारणास्तथा ।
भृङ्गी पुरत्रयं हन्तुं लक्षकोटीगणैर्वृतः ॥२५॥
जगाम शङ्कुकर्णश्च गोकर्णश्च महाबलः ।
कुन्द्रदन्तो महाकालो डिण्डी मुण्डी गणेश्वरः ॥२६॥
शतजिव्हः सहस्राक्षो वीरभद्रो महावलः ।
शिवाख्यो विशिखश्चैव तथा पञ्चशिखो महान् ॥२७॥
शतास्यष्टङ्कहस्तश्च पिशाचीशः पिनाकधृक् ।
एते चान्ये च वहवो गणानां लक्षकोटयः ॥
समन्तात्परिवार्येशं त्रिपुरं हन्तुमुद्यताः ॥२८॥
अथ विरञ्चिमुरारिविभावसुप्रभृतिभिर्नतपादसरोरुहः ।
सह तदा हि जगाम तयाऽम्बया सकललोकहिताय पुरत्रयम् ॥२९॥
दग्धुं समर्थो मनता क्षणेन चराचरं सर्वभिदं त्रिशूली ।
किं त्वत्र दुग्धं त्रिपुरं पिनाकी स्वयं गतस्तत्र गणैश्च सार्धम् ॥३०॥
रथेन किं चेषुवरेण तस्य गणैश्च शंभोस्त्रिपुरं दिधक्षतः ।
पुरत्रयं दग्धुमलुप्तशक्तेः किमेतदित्याहुरजेन्द्रमुख्याः ॥३१॥
मन्ये च नूनं भगवान्पिनाकी लीलार्थमेतत्सकलं प्रहर्तुम् ।
व्यवस्थितश्चेति तथाऽन्यथा चेदाडम्बरेणास्य फलं किमेतत् ॥३२॥
अथ पाणौ समादाय धनुर्देवो महेश्वरः ।
शरं संधाय वेगेन त्रिपुरं समचिन्तयत् ॥३३॥
तस्मिन्काले पुष्ययोगे पुराण्येकत्वमाययुः ।
तद्वा समभवद्विप्रा देवानां तुमुलो महान् ॥३४॥
देवाश्च मुनयः सर्वे तुष्टुवुः परमेश्वरम् ।
ननृतुर्यक्षगन्धर्वाश्चारणाः सिद्धकिंनराः ॥३५॥
अथाब्रवीन्महादेवं ब्रह्मा लोकपितामहः ।
पुष्ययोगस्त्वनुप्राप्तो भगवन्पार्वतीपते ॥३६॥
पुराणीमानि देवेश पृथग्भावं न यान्ति वै ।
योगेऽस्मिन्नेव भगवंस्त्रिपुरं दग्धुमर्हासि ॥३७॥
देवाश्च दैत्या देवेश समास्तव महेश्वर ।
धर्मात्मानः सुरा यस्मात्पापात्मानोऽसुरास्तथा ॥३८॥
तस्माल्लीलां विहायैव भगवन्विश्वपूजित ।
त्रैलोक्यस्य हितार्थाय त्रिपुरं दग्धमर्हसि ॥३९॥
अथावैक्षत देवेशः पुरत्रयमवज्ञया ।
भस्मसादभवद्विप्राः प्रभावात्परमेष्टिनः ॥४०॥
अथाब्रुवन्नुपेन्द्राद्या भगवन्तमुमापतिम् ।
कृताञ्जलिपुटाः सर्वे स्तुवन्तोऽस्य रथे स्थिताः ॥४१॥
दग्धं यद्यापि देवेश त्रिपुरं वीक्षणात्प्रभो ।
देवानां कार्यसिद्ध्यर्थं शरं मोक्तुमिहार्हसि ॥४२॥
अथ ज्यां धनुषो मृज्य ? प्रहसन्भगनेत्रहा ।
मुमोच बाणं वेगेन त्रिपुरं भस्मसादभूत् ॥४३॥
ये तत्रेशाननिरता दैत्याः क्षपितकल्मषाः ।
शिवलोकं गताः सर्वे शिवस्यानुग्रहाद्द्विजाः ॥४४॥
विरञ्चिप्रमुखा देवा मुनयः सिद्धकिंनराः ।
वबन्दिरे महादेवं दण्डवाप्रणिपत्य ते ॥४५॥
सूत उवाच -
एवं विश्वेश्वरो देवो भगवान्पार्वतीपतिः ।
ब्रह्मादिभ्यो वरं दत्त्वा मन्दरं प्रययौ शिवः ॥४६॥
ततो देवाः प्रमुदिताः स्वं स्वं धाम ययुर्द्विजाः ।
निर्वैराः स्वस्थमनश शिवस्यानुग्रहात्स्थिताः ॥४७॥
एवं संक्षेपतः प्रोक्तं दग्धं भगवता यथा ।
त्रिपुरं मुनिशार्दूलाः पुण्याख्यानमनुत्तमम् ॥४८॥
यः पठेदिदमाख्यानं महादेवस्य संनिधौ ।
सर्वपापविनिर्मुक्तः शिवलोके महीयते ॥४९॥
लक्ष्मीं विद्यां यशः पुत्रान्दारांश्च लभते नरः ।
अन्यांश्च प्राप्नुयात्कामाञ्श्रद्धया मुनिपुंगवाः ॥५०॥१६४५॥
इति श्रीब्रह्मपुराणोपपुराणे श्रीसौरे सूतशौनकसंवादे शिवरथत्रिपुरदाहकथनं नाम पञ्चत्रिंशोऽध्यायः ॥३५॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-12-05T18:52:59.9870000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

इतउपर

  • क्रि.वि. यापुढें ; आतांपासून ; येथून पुढें ; इत : पर . [ सं . इत :+ उपरि . ] 
  • क्रि.वि. आतापासून , इतउत्तर , इत : पर , यानंतर , यापुढे . 
RANDOM WORD

Did you know?

कोणता शब्द योग्य आहे ? नखाला जिव्हारी लागणे की जिव्हाळी लागणे?
Category : Dictionary
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Status

  • Meanings in Dictionary: 644,289
  • Total Pages: 46,537
  • Hindi Pages: 4,555
  • Dictionaries: 44
  • Words in Dictionary: 302,181
  • Marathi Pages: 27,517
  • Tags: 2,685
  • English Pages: 234
  • Sanskrit Pages: 14,230
  • Other Pages: 1

Suggest a word!

Suggest new words or meaning to our dictionary!!

Our Mobile Site

Try our new mobile site!! Perfect for your on the go needs.