TransLiteral Foundation
संस्कृत सूची|संस्कृत साहित्य|पुराण|सौरपुराणं व्यासकृतम् ।|
अध्यायः ४०

सौरपुराणं - अध्यायः ४०

सौरपुराणं व्यासकृतम् ।


अध्यायः ४०
ऋषय ऊचु -
सूत भद्रं समाचक्ष्व सेवको यस्य माधवः ।
श्रीमहेशस्य विष्णोश्च तुल्यत्वं ब्रुवते कथम् ॥१॥
ब्रुवन्ति तुल्यतां केचिद्वैपरीत्येन केचन ।
एकत्वं केचिदीशेन केशवस्य वदन्ति हि ॥२॥
अत्र सिद्धान्तमर्यादां ब्रूहि तत्त्वेन सूतज ।
अवाधां येन चास्माकं संशयो विनिवर्तते ॥३॥
सूत उवाच -
शृण्वन्तु ऋषयः सर्वे श्रुतिसिद्धान्तमुत्तमम् ।
महेशान्न परं तत्त्वं सर्ववेदेपु गीयते ॥४॥
वैकुण्ठप्रमृतीनां तु महेशकृपया पुनः ।
महेशल्य च दासोऽयं विष्णुस्तेनानुकम्पितः ॥५॥
श्रुतिस्मृतिपुराणानां सिद्धान्तोऽयं यथार्थतः ।
इन्द्रोपेन्द्रादयः सर्वे महेशस्यैव किंकराः ॥६॥
वेदान्तवेद्यमीशानं पार्वतीरमणः प्रभुम् ।
यो जानाति स वैकुण्ठो दुःखहा सर्वदेहिनाम् ॥७॥
वैकुण्ठं मन्यते सम्यगीशानं स पुरंदरः ।
य इन्द्रं मन्यते सर्वस्यामिनं स ऋषिर्मतः ॥८॥
स्वर्गलोकं समाप्नोति मुन्याज्ञाप्रतिपालकः ।
अद्वैतं शिवमीशानमज्ञात्वा नैव मुच्यते ॥९॥
घोरे कलियुगे प्राप्ते श्रीशंकरपराड्मुखा ।
भविष्यन्ति नरास्तथ्यमिति द्वैपायनोऽब्रवीतं ॥१०॥
रुद्रक्रोधाग्निनिर्दग्धे मन्मथे तस्य भार्यया ।
रत्या विलपिते तस्य सखायो‍ऽप्यतिदुःखिताः ॥११॥
वसन्तादय आगत्य तामूचुः किं विधीयते ।
सर्वलोकेशितुः शंभोवंराका वैरवा(का)रणे ॥१२॥
रतिरुवाच -
मन्येत धातकः स्रर्वेर्लोकेऽपूज्यो भवेदयम् ।
तथा विघ्नः प्रकर्तव्यो येन केनापि हेतुना ॥१३॥
अस्यापकीर्तिर्वक्त्यव्या न चलेद्यदि किंचन ।
तेन मे दुःखशान्तिः स्यात्किचिन्मात्रं न चान्यथा ॥१४॥
वसन्तादय ऊचु -
चतुर्दशसु विद्यासु गीयते चन्द्रशेखरः ।
वेदान्ता यं च गायन्ति मुनयः शंसितव्रताः ॥१५॥
ब्रह्माद्या देवताः सर्वा इन्द्रोपेन्द्रादयस्तथा ।
न्यूनतां तस्य यो ब्रूते कर्मचाण्डाल उच्यते ॥१६॥
तेन तुल्यो यदा विष्णुर्ब्रह्मा वा यदि गद्यते ।
षष्टिवर्षसहस्त्राणि विष्ठायां जायते कृमिः ॥१७॥
तुल्यता यदि नो शक्या न्यूनतायास्तु का कथा ।
मित्रस्याऽऽनृण्यगिच्छामः संकटं प्रतिभाति नः ॥१८॥
सूत उवाच -
विचार्येवं तदा सर्वे महामोहपुरःसराः ।
तपस्तेपूर्महारौद्रं सर्वलोकभयंकरम् ॥१९॥
कदाचिद्भगवान्ब्रह्मा प्रादुरासीद्दयानिधिः ।
मोहो दम्भस्तथा क्रोधो लोभस्ते सेवकाः कलेः ॥२०॥
पञ्चमो हेतुवादश्च मधुना सर्व आश्रिताः ।
तानुवाच ततो ब्रह्मा वृणीध्वं मनसेप्सितम् ॥२१॥
यथा वाणीच भवतां तथाऽहं दातुमुद्यतः ।
मोहाद्या ऊचु -
अस्माकं परगं मित्रं कंदर्पो नाशितः प्रभो ॥२२॥
गहादेवेन तेनामी आनृण्यं कर्तुमुद्यताः ।
भविष्यामो वयं तात रुद्रपूजाभिनिन्दकाः ॥२३॥
यथा न लभते पूजामस्मत्तश्चन्द्रशेखरः ।
ब्रह्मोवाच -
अधुना न भवेदेवं भविष्यत्यथ तच्चिरम् ॥२४॥
भविप्याम इति प्रोक्तं भवत्तो नान्यथा क्कचित् ।
ये भवद्वशगा लोकास्तेभ्यः पूजा न धूर्जटेः ॥२५॥
प्रार्द्यितोऽयं बरो दत्तो यथेष्टं कर्तुमर्हथ ॥२६॥
सूत उवाच -
इत्युक्त्वा तानथो ब्रह्मा तत्रैवान्तरधीयत ।
सर्वे ते मन्त्रयांचक्रुः कलिना सह दुःखिताः ॥२७॥
कलिरुवाच -
भवद्भिरधुना नोक्तं भविष्याम इतीरितम् ।
ततो मत्समये प्रपते सर्वमेव भविप्यति ॥२८॥
अस्मत्त इति यत्प्रोक्तं तेन चास्मद्वशे स्थिताः ।
निन्दाकरा भविष्यन्ति नारमान्यो मन्यते न सः ॥२९॥
लोभमोहादिसंयुक्ताः प्राप्ते च मयि दारुणे ।
हेतुवादं पुररस्कृत्य शिवभक्तिपराड्मुखाः ॥३०॥
सूत उवाच -
ततः कलियुगे प्राप्ते सर्वधर्मविवर्जिते ।
म्लेच्छैर्ब्राह्मणधेनूनां विध्वंसनकरे खरे ॥३१॥
अस्वाध्यायवष्ट्कारे जैनबौद्धादिसंकुले ।
ब्राह्मणे भ्लेच्छमार्गस्थे शूद्रे ब्राह्मणघातिनि ॥३२॥
तदां वसन्तः कर्णाटतिलङ्गादिकदूषकः ।
मधुनामा च विधवाक्षेत्रे विप्राद्भविष्यति ॥३३॥
गोलकः त तु पापिष्ठः पद्मपादुकमीश्वरम् ।
वेदान्तब्याख्यानरतं शिष्यत्वेनाxxयिष्यति ॥३४॥
शास्त्रं पूर्णं ततोऽधीत्य स्थित आह्निकवर्जितः ।
किमग्निहोत्रं को यागो हेतुमेव करिष्यति ॥३५॥
गुरुराकर्ण्य तद्वाक्यं ब्राह्मणो न भवेदयम् ।
इति निश्चित्य तं दुष्टं वक्ष्यति श्रुततद्वचाः ॥३६॥
गुरुरुवाच -
को वर्णस्तव मे ब्रूहि यथार्थं वेददूषक ।
कर्मब्रह्मोद्भवद्वेष्टा नोत्पत्तिर्ब्राह्मणात्तव ॥३७॥
मधुरुवाच -
ब्राह्मणादहमुत्पन्नो ब्राह्मण्यां च न संशयः ।
सत्यं वदामि नो मिथ्या कथं मां पश्यसे गुरो ॥३८॥
गुरुरुवाच -
त्वन्माता केन दत्ता रे कस्य पुत्री कदा कयम् ।
कस्मै दत्ता च विधिना केन तत्ब्रूहि मा चिरम् ॥३९॥
मधुरुवाच -
विधवा जननी नाथ ब्राह्मणेन तपस्विना ।
गभिंणी समभूत्तस्मादयं देहस्ततोऽभवत् ॥४०॥
गुरुरुवाच -
कपटेन यतः शास्त्रं मत्तोऽधीतं दुरात्मना ।
तेन सिद्धान्तमर्यादा कदाचिन्मा स्फुरत्वियम् ॥४१॥
गधुरुवाच -
भविष्यति महाभाग वचनं तव नान्यथा ।
पूर्वपक्षो मम हृदि प्रादूर्भवतु निश्चलः ॥४२॥
गुरुरुवाच -
अन्धता तव सिद्धान्ते पूर्वपक्षे च पाटवम् ।
भवत्वेव परं त्वेकं पापाः शिष्या भवन्तु ते ॥४३॥
मोहात्सिद्धान्तरहिता लोभात्ते नृपसेवकाः ।
क्रोधात्कठिनवक्तारो दxxद्वेषेण सुन्दराः ॥४४॥
हेतुवादेन शास्त्राणि सर्वाणि न विदन्ति ते ।
निरयेष्वेव घोरेषु गमिष्यन्त्यचिराच्चिरम् ॥४५॥
सूत उवाच -
मधुनामा ततः प्राप्य शापं तं दुष्टबुद्धिमान् ।
वादरायणसूत्राणां व्याख्यानं स करिष्यति ॥४६॥
मध्वाचार्यस्ततो भावाद्दाक्षिणात्यो महान्कलौ ।
तच्छिष्याः प्रतिशिष्याश्च नाऽऽर्यावर्ते न चोत्कले ॥४७॥
न गौडे न च गङ्गायास्तीरे गोदावरीतटे ।
नार्बुदारण्यमध्ये च तत्प्रचारो भविष्यति ॥४८॥
यथा यथा कलेर्घोरः प्रचारो हि भविष्यति ।
तथा तथा महाराष्ट्रे हैतुका विरलाः क्कचित् ॥४९॥
ततोऽतिदुष्टसमये महाम्लेच्छैस्तिरस्कृते ।
प्रच्छन्नः कुत्रचित्पापी प्रचारं हि विधास्यति ॥५०॥
पञ्चवर्षस्तु संन्यासी पठित्वा दुष्टबुद्धिमान् ।
शिष्योपशिष्यसंयुक्तो हेतुवादं करिष्यति ॥५१॥
तत्त्वं संसार इत्येव न बाध्यः सत्य एव हि ।
तदत्यतस्तत्त्ववादी मिथ्यावादी स उच्यत ॥५२॥
मिथ्याभूतः प्रपञ्चोऽयं मया निर्मित इष्यते ।
मायावादिन इत्येते वस्तुतस्तत्त्ववदिनः ॥५३॥
सच्छास्रं जैमिनीयं तु कर्मकाण्डप्रवतकम् ।
गौतमीयं तु सच्छास्रभीश्वरप्रतिपादकम् ॥५४॥
पुंस्प्रकृत्योर्विवेकस्य बोधकं कापिलं मतम् ।
तथा वैशेषिकं शास्त्रमीश्वरप्रतिपादकम् ॥५५॥
पातञ्जलं योगशास्त्रं शैव तच्छास्त्रमिष्यते ।
वेदान्तशास्त्रमूर्धन्यमद्वैतं यच्च बोधयेत् ॥५६॥
वेदाः सर्वे षडङ्गास्तु पुराणानीतिहासकः ।
स्मृतिश्चोपुराणानि तथोपस्मृतयः शुभाः ॥५७॥
अन्योन्यं सर्वविद्याना प्रामाण्यमधिकारतः ।
तात्पर्यं च पुमर्थेषु सर्वोण्येवं जगुः किल ॥५८॥
किंचिद्विरोधे सत्येव न विरोधोऽस्ति तत्त्वतः ।
मन्यन्ते श्रीमहेशानं सर्वाण्येव परात्परम् ॥५९॥
पापिष्ठा नैव मन्यन्ते वेदमार्गबहिष्कृताः ।
आचार्यं मधुनामानं वदन्तो विधवासुतम् ॥६०॥
मोहात्सिद्धान्तबाह्यत्वं क्रोधाच्छास्त्रनिषेधनम् ।
प्रच्छन्नोऽसौ महादुष्टश्चार्वाको मधुसंज्ञकः ।
भविष्यति कलौ विप्राः शिवनिन्दाप्रवर्तकः ॥६१॥
लोभेन नृपतेः सेवा दम्भादन्यप्रतारणम् ॥६२॥
गणिकामैथुनं कामाद्धेतुवादेन वादिता ।
भविष्यति कलौ विप्राः षोढेयं तत्त्ववादिता ॥६३॥
पञ्चवर्षं यतिं कृत्वा क्रमेणाऽऽदाय बालकम् ।
माठापत्यं विधास्यन्ति द्रव्यलोभेन नास्तिकाः ॥६४॥
पारम्पर्यं मठस्यैव रक्षिष्यन्त्यभिरागिणः ।
भोगासक्ताश्च पापिष्ठा दासीगमनकारिणः ॥६५॥
नाम्ना संन्यासिनस्तीर्थे यानारूढाः ससेवकाः ।
नरवाहनमारूढाः शिखासूत्रबहिष्कृताः ॥६६॥
तत्पक्षपातिनो मूढा गृहस्थाः शिवनिन्दकाः ।
मिथ्या वैष्णवमानेन ग्रस्ता निरयगामिणः ॥६७॥
वैष्णवा वेषमात्रेण तन्तुमात्रेण वाडवाः ।
वादिनः क्रोधमात्रेण विद्वांसो हेतुवादतः ॥६८॥
पठिष्यन्ति च शास्त्राणि केचिद्दूषणासिद्धय ।
स्वकीयं गोपयिष्यन्ति परकीयेण पxxxः ॥६९॥
सूत उवाच -
महामोहादयः सर्वे रतिमाश्वास्य भामिनीम् ।
प्रोचुश्च श्लक्ष्णया वाचा तद्दुःखबिनिवारकाः ॥७०॥
मोहादय ऊचु -
रते मा कुरु संतापमहं मोहः कलेः सखा ।
क्रोधः पत्युः परो बन्धुर्लोभमोहौ च देवरौ ॥७१॥
प्राप्ते कलियुगे पूर्णे मोहलोभादयो वयम् ।
वसन्तं मधुनामानमवतीर्णं च दक्षिणे ॥७२॥
समाश्रित्य ततो हेतुवादं कुटिलबुद्धयः ।
करिष्यामो यथा शक्यं शिवपूजानिवारणम् ॥७३॥
सूत उवाच -
इति ते रतिमाश्वास्य यथागतमितो गताः ।
इति सर्वं समाख्यातं शिवनिन्दककारणम् ॥७४॥१९७२॥
इति श्रीब्रह्मपुराणोपपुराणे श्रीसौरे सूतशौनकसंवादे महेशविष्णुतुल्यत्वकारणादिकथनं नाम चत्वारिंशोऽध्यायः ॥४०॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-12-05T18:56:26.1270000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

mixochromosome

  • न. Cyt. मिश्रगुणसूत्र 
RANDOM WORD

Did you know?

What is the Sati Practice?
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Status

  • Meanings in Dictionary: 644,289
  • Total Pages: 46,537
  • Hindi Pages: 4,555
  • Dictionaries: 44
  • Words in Dictionary: 302,181
  • Marathi Pages: 27,517
  • Tags: 2,685
  • English Pages: 234
  • Sanskrit Pages: 14,230
  • Other Pages: 1

Suggest a word!

Suggest new words or meaning to our dictionary!!

Our Mobile Site

Try our new mobile site!! Perfect for your on the go needs.