संस्कृत सूची|शास्त्रः|तंत्र शास्त्रः|स्वच्छन्दभैरवतन्त्र| पञ्चदशः पटलः स्वच्छन्दभैरवतन्त्र प्रथमः पटलः द्वितीयः पटलः तृतीयः पटलः चतुर्थः पटलः पञ्चमः पटलः षष्ठः पटलः सप्तमः पटलः अष्टमः पटलः नवमः पटलः दशमः पटलः १ दशमः पटलः २ दशमः पटलः ३ दशमः पटलः ४ दशमः पटलः ५ दशमः पटलः ६ दशमः पटलः ७ दशमः पटलः ८ दशमः पटलः ९ दशमः पटलः १० दशमः पटलः ११ दशमः पटलः १२ दशमः पटलः १३ एकादशः पटलः द्वादशः पटलः त्रयोदशः पटलः चतुर्दशः पटलः पञ्चदशः पटलः स्वच्छन्दभैरवतन्त्र - पञ्चदशः पटलः स्वच्छन्दभैरवतन्त्र हे एक असे तंत्र आहे, ज्यापासून प्रत्यक्ष भैरव मदतीला उभे राहतात. Tags : shastratantraतंत्रशास्त्रस्वच्छन्दभैरवतन्त्र पञ्चदशः पटलः Translation - भाषांतर श्रीभैरव उवाचजपध्यानादियुक्तस्य चर्याव्रतधरस्य च ।छुम्मकाः सम्प्रवक्ष्यामि साधकस्य वरानने ॥१॥भैरवस्तु स्मृतो धाम सर्वदस्तु गुरुः स्मृतः ।साधकस्तु गिरिर्ज्ञेयः पुत्रको विमलः स्मृतः ॥२॥समयी कान्तदेहस्तु भगिन्यो बलदर्पिताः ।मद्यं तु हर्षणं ज्ञेयं मुदिता तु सुरा स्मृता ॥३॥मत्य्सा जलचरा ज्ञेया मांसं च बलवर्धनं ।जातं प्ररूढमित्याहुर्मृतं चैव पराङ्मुखं॥ ४॥रक्तं त्वमृतमित्याहुः पद्मनालोऽन्त्रसञ्चयः ।शुक्रं चन्द्रः समाख्यातः स्नायुः सूत्रं प्रकीर्तितं ॥५॥श्मशानं डामरं ज्ञेयं राक्षसस्तु भयङ्करः ।पिशाचो रोमजननः रुहा ज्ञेया रजस्वला ॥६॥रात्रिं वै च्छादिकां विद्धि प्रकाशश्च दिनं भवेथ् ।नयने चञ्चले ज्ञेये जिह्वां संग्राहिकां विदुः ॥७॥करौ धनकरौ ज्ञेयौ पादौ सहचरौ विदुः ।लिङ्गं सन्तोषजननं भगः प्रीतिविवर्धनः ॥८॥शस्त्रं विभागजननं कर्तरी कार्यसाधिका ।दूती संवाहिका ज्ञेया धूपो ह्लादन उच्यते ॥९॥गन्धः सन्तोषजननो राजानो धारकाः स्मृताः ।पशुर्विबोधको ज्ञेयश्चरुकः सार्वकामिकः ॥१०॥अन्नं साधनमित्युक्तं वसा मण्डमिहोच्यते ।दिशां मुखं तु श्रवणं त्वक्च संवेदनी स्मृता ॥११॥घ्राणं सुस्थितमित्युक्तं मुखं तु प्रविचारकं ।पशु प्रचारो विज्ञेयः माता धात्रीति कथ्यते ॥१२॥पितरं सृष्टिकर्तारं भ्रातरं पालकं विदुः ।भगिनी शुभकरी ज्ञेया सखी सर्वार्थसाधिका ॥१३॥मित्रं गुणानां जननं गुणनाशं रिपुं विदुः ।छित्स्फिजौ कीर्तितो देवि दृष्टिश्चक्षुः प्रकीर्तितं॥ १४॥दशनाः खण्डका ज्ञेया आधार उदरं स्मृतं ।हृदयं गुह्यमित्युक्तं कठिनं त्वस्थि विद्धि हि ॥१५॥मेदो वसां विजानीयात्मज्जा पुष्टिकरः स्मृतः ।विष्ठां विदूषिकां विद्धि मूत्रं स्नाव इहोच्यते ॥१६॥कालेयकं तु कुसुमं धूमं धृतिकरं विदुः ।मेलकं चैव सङ्घातः पुत्रः सोद्द्योतकः स्मृतः ॥१७॥दुहिता ह्लादिका ज्ञेया क्षुब्धं वै चलितं विदुः ।दूषको जार इत्युक्तः पीतं वन्दितमेव च ॥१८॥भक्षितं प्राप्तमित्याहुश्छर्दितं विकृतीकृतं ।दूषितं कर्षितं ज्ञेयं सम्मतं समयं विदुः ॥१९॥महल्लो रक्षको ज्ञेयश्छगलस्तु कनिष्ठकः ।विनयो देहकर्म स्यात्साधनं तु जपः स्मृतः ॥२०॥होमितं सिद्धिजननं विभागो रोचकः स्मृतः ।कदम्बं वृन्दमित्याहुर्विरलोऽश्लिष्ट उच्यते ॥२१॥विमलः शिष्य इत्युक्त इच्छा चाज्ञा प्रकीर्तिता ।देवतादर्शनं यत्तत्लब्धं शस्त्रहतं विदुः ॥२२॥निशाचरो बिडालः स्यात्नखिनश्च विदारकाः ।आनीतं सारितं ज्ञेयं रक्षितं पिहितं तथा ॥२३॥शिखां संस्पृशते या तु सा तु शक्तिं विनिर्दिशेथ् ।शिरः प्रदर्शयेद्या तु सा च बिन्दुं विनिर्दिशेथ् ॥२४॥ललाटं दर्शयेद्या तु ईश्वरं सा विनिर्दिशेथ् ।तालुकं दर्शयेद्या तु तया रुद्रः प्रकीर्तितः ॥२५॥जिह्वां प्रदर्शयेद्या तु विद्यां साथ विनिर्दिशेथ् ।सप्त कोटयस्तु मन्त्राणां तस्या ज्ञेयास्तु सुव्रते ॥२६॥घण्टिकां दर्शयेद्या तु तस्यानन्तः प्रदर्शितः ।कण्ठं तु संस्पृशेया सा कालतत्त्वं विनिर्दिशेथ् ॥२७॥हृत्पद्मं दर्शयेद्या तु पुरुषं सा विनिर्दिशेथ् ।नाभिं प्रदर्शयेद्या तु प्रकृतिं सा विनिर्दिशेथ् ॥२८॥तस्याधस्ताद्बुद्धितत्त्वं यदि स्याद्दर्शनं प्रिये ।यदा गुह्यं स्पृशेद्देवि अहंकारोऽधिदैवतं॥२९॥कटिं सन्दर्शयेद्या तु व्योम तत्राधिधैवतं । ऊरुकौ दर्शयेद्देवि पवनं सा विनिर्दिशेथ् ॥३०॥जानुनी दर्शयेद्या तु तया तेजः प्रकीर्तितं ।जङ्घे प्रदर्शयेद्या तु वरुणं सा विनिर्दिशेथ् ॥३१॥शरीरं दर्शयेद्देवि सर्ववेदमयं प्रिये ।पूजाग्निजपयुक्तस्य ध्यानयुक्तस्य मन्त्रिणः ॥३२॥समयाचारयुक्तस्य कालांशकविदः प्रिये ।क्रियोपेतस्य देवेशि योगिन्यस्तु वरप्रदाः ॥३३॥दर्शयन्ति महाध्वानं नानाभोगसमन्वितं ।गिरिराजस्य देवेशि यं गत्वा फलमश्नुते ॥३४॥भैरवेण समाज्ञप्ताः शक्तयस्तु वरानने ।अन्याश्च सिद्धीर्विविधा अधमा मध्यमोत्तमाः ॥३५॥अन्यतन्त्रसमुत्थाश्च साधयन्ति न संशयः ।एवं संक्षेपतः प्रोक्तं मेलकं तु वरानने ॥३६॥सतताभ्यासयोगेन ददते चरुकं स्वकं ।यस्य सम्प्राशनाद्देवि वीरेशसदृशो भवेथ् ॥३७॥तस्माद्ध्यानार्चने होमं जपं च वरवर्णिनि ।कुर्वन्ति भावितात्मानस्ततः सिद्ध्यन्ति मन्त्रिणः ॥३८॥इति स्वच्छन्दतन्त्रे पञ्चदशः पटलः॥ इति स्वच्छन्दतन्त्रे समाप्तः ॥ N/A References : N/A Last Updated : June 16, 2012 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP