संस्कृत सूची|शास्त्रः|तंत्र शास्त्रः|स्वच्छन्दभैरवतन्त्र| दशमः पटलः १ स्वच्छन्दभैरवतन्त्र प्रथमः पटलः द्वितीयः पटलः तृतीयः पटलः चतुर्थः पटलः पञ्चमः पटलः षष्ठः पटलः सप्तमः पटलः अष्टमः पटलः नवमः पटलः दशमः पटलः १ दशमः पटलः २ दशमः पटलः ३ दशमः पटलः ४ दशमः पटलः ५ दशमः पटलः ६ दशमः पटलः ७ दशमः पटलः ८ दशमः पटलः ९ दशमः पटलः १० दशमः पटलः ११ दशमः पटलः १२ दशमः पटलः १३ एकादशः पटलः द्वादशः पटलः त्रयोदशः पटलः चतुर्दशः पटलः पञ्चदशः पटलः स्वच्छन्दभैरवतन्त्र - दशमः पटलः १ स्वच्छन्दभैरवतन्त्र हे एक असे तंत्र आहे, ज्यापासून प्रत्यक्ष भैरव मदतीला उभे राहतात. Tags : shastratantraतंत्रशास्त्रस्वच्छन्दभैरवतन्त्र दशमः पटलः १ Translation - भाषांतर अध्वायं तु महादेव सूचितो न तु वर्णितः ।कथयस्व प्रसादेन साधकानां हिताय तं ॥१॥अध्वानं संप्रवक्ष्यामि साधकानां हिताय वै ।अथ कालाग्निरुद्राधः कटाहः संव्यवस्थितः ॥२॥कोटियोजनबाहुल्यः तस्योर्ध्वे भुवनानि तु ।नवनवतिकोट्यश्चाप्यण्डानां तु सहस्रकं ॥३॥कोटीनां सप्ततिर्लक्षाण्ययुतानां सहस्रकं ।अर्बुदान्यथ वृन्दानि खर्वाणि च तथैव च ॥४॥पद्मानि चाप्यसंख्यानीत्येवमादीन्यनेकशः ।तेषां वै नायको ह्यत्र त्वनन्तः परमेश्वरः ॥५॥तेन शुद्धेन शुद्धानि त्वण्डान्यत्रोहकैः सह ।शक्त्याधाराश्रयैरेव द्वात्रिंशत्परिसंख्यया ॥६॥कोटिकोटिपरीवारास्त्वनौपम्यगुणान्विताः ।दिव्याङ्गानौघसंकीर्णा भ्रूभङ्गललितेक्षणैः ॥७॥सूर्यायुतप्रतीकाशास्तोरणाट्टालमण्डिताः ।न तत्र दिःखितः कश्चिन्मुक्त्वा दिःखमनङ्गजं ॥८॥रमन्ते तत्र वै वीरा नारीभिः सह लीलया ।भुवनेषु विचित्रेषु योन्याकारेषु संस्थिताः ॥९॥भुवनान्येवमुक्तानि भुवनान्तरवासिनां ।सर्वाणि शुद्धिमायान्ति तान्यनन्ते विशोधिते ॥१०॥अथोपरिष्टात्कालाग्निः श्रीकण्ठेन निवेशितः ।अधिकारं प्रकुरुते तदाज्ञानुविधायकः ॥११॥अनेकरुद्रकोटीभिरुपेतस्तिष्ठति प्रिये ।अधुना संप्रवक्ष्यामि प्रमाणं शिवनिर्मितं ॥१२॥योजनानां वरारोहे यथा भवति तच्छृणु ।अव्यक्ताद्दशभिर्भागैर्महान्स्थूलो विभाव्यते ॥१३॥द्विपञ्चभागो महतो भूतादिः स्थूल उच्यते ।भूतादेः परिमाणं च भावग्राह्यं न चाक्षुषं ॥१४॥भूतादेर्यद्दशगुणं अणीयो दृश्यते रजः ।जालान्तरगते भानौ परमाणुः स उच्यते ॥१५॥अष्टानां परमाणूनां समवायस्तु यो भवेथ् ।त्रसरेणुः स विख्यातः तत्पद्मरज उच्यते ॥१६॥त्रसरेणवश्च येत्वष्टौ वालाग्रं तु विधीयते ।वालाग्राणि तथात्वष्टौ लिक्षेति परिकीर्तिता ॥१७॥लिक्षाश्चाष्टौ विदुर्यूकां यूकाश्चाष्टौ यवो भवेथ् ।अष्टौ यवा वरारोहे पर्वाङ्गुष्ठमथाङ्गुलं ॥१८॥द्वादशाङ्गुलमानेन वितस्तिस्ताल उच्यते ।तालद्वयं भवेद्धस्तश्चतुर्विंशतिकाङ्गुलः ॥१९॥चतुर्हस्तो धनुर्दण्डो नालिका यूप एव च ।धनुः सहस्रे द्वे पूर्णे क्रोशः समभिधीयते ॥२०॥क्रोशद्वयेन गव्यूतिर्गव्यूती द्वे तु योजनं ।अनेन परिमाणेन योजनानां यशस्विनि ॥२१॥सिंहासनं महादीप्तं सहस्रद्वयविस्तृतं ।सहस्रमुच्छ्रितं तस्य महापीठेषु सुव्रते ॥२२॥तिष्ठते तत्र देवेशः कालो द्वादशलोचनः ।सितरक्तपीतकृष्णश्चतुर्वक्त्रो महाबलः ॥२३॥रक्ताङ्गोऽथ करालश्च पिङ्गभ्रूश्मश्रुलोचनः ।वक्त्रज्वाला जटाज्वाला लोमज्वालाः सुजाज्वलाः ॥२४॥ज्वलन्त्यस्यायुधज्वालाः सुतीव्राः करमध्यगाः ।ज्वलत्पर्वतवद्दीप्तो ज्वलज्ज्वालाभिराजितः ॥२५॥दशबाहुर्महात्मा वै खड्गखेटकधारकः ।शरशार्ङ्गविहस्तश्च पाशाङ्कुशधरस्तथा ॥२६॥कपालखट्वाङ्गधरो वरदाभयपाणिभृथ् ।दशयोजनलक्षाणि शरीरं भाति भास्वरं ॥२७॥कोटियोजनमानेन भुवनं चास्य जाज्वलं ।संभृतं रुद्रकन्याभी रुद्रैर्ज्वलितशूलिभिः ॥२८॥नानारूपविमानैश्च प्रज्वलद्भिः समावृतं ।ज्वालास्तस्य विनिष्क्रान्ताः कोटयो दशचोर्ध्वतः ॥२९॥तस्योपरिष्टाद्देवेशि पञ्चकोट्यो वरानने ।न कश्चिन्नवसत्यत्र धूमोष्मपरिवारितः ॥३०॥अतः परं वरारोहे नरकाः परिकीर्तिताः ।पञ्चाशत्कोटयो देवि कथिताह्यनुपूर्वशः ॥३१॥प्रधानं संप्रवक्ष्यामि शतं तत्र वरानने ।चत्वारिंशत्समोपेतं कथितं नामतः शृणु ॥३२॥अवीची रौरवश्चैव महारौरव एव च ।तामिस्रश्चान्धतामिस्रः संजीवनसुजीवनौ ॥३३॥पद्मश्चैव महापद्मः कालसूत्रस्तथैव च ।सूचीमुखः महाकायः क्षुरधारोऽसिपर्वतः ॥३४॥असिस्तालो द्रुमश्चैव द्रुममस्तक एव च ।द्रुमारामश्च विख्यातः कुम्भीपाकस्तथैव च ॥३५॥अम्बरेषोऽङ्गारराशिः तीक्ष्णतुण्डस्तथैव च ।वज्रतुण्डश्च शकुनिः मीनोदरखरोदरौ ॥३६॥सन्दंशः वज्रकायश्च मेदकश्च वरानने ।उष्ट्रग्रीवो महाकायो वेतालो वडवामुखः ॥३७॥असृक्पूयह्रदश्चैव भ्रमरो मषकस्तथा ।संग्रहश्च कपालश्च तप्तकवच एव च ॥३८॥गजपादो महावक्त्रः कूर्माख्योनकुलस्तथा ।पीडनश्चैवकुम्भीरः क्रकचः शूलमेव च ॥३९॥अनङ्गश्चाङ्गारोद्गारः प्रदीप्तस्त्रिमुखस्तथा ।पञ्चवक्त्रः शतास्यश्च जलौको बिलधूमकः ॥४०॥सुतप्तो जतुपङ्कश्च घोररूपोऽतिदारुणः ।अस्थिभङ्गः पूतिमांसः द्रव्यश्चैव त्वमेध्यकः ॥४१॥उलूकः परशुर्दण्डः काकाख्यश्च तथैव च ।सोच्छ्वासश्च निरुच्छ्वासः वृकास्यश्च तथैव च ॥४२॥अश्वास्यो गोपलादश्च अलोको दहनस्तथा ।श्ववक्त्रोऽथ दवाग्निश्च क्षारकूपस्तथा तमः ॥४३॥अहीनां निचयश्चैव तप्तपाषाण एव च ।विरूपो रूपवांश्चैव चित्री चित्रधरस्तथा ॥४४॥कृष्णपिङ्गलरक्तास्यः महिषो राक्षसस्तथा ।कुब्जः उत्तप्ततैलाख्यः अशनी वृष्टिमुद्गरौ ॥४५॥मुसलः अनातपश्चैव यमलाद्रिस्तथैव च ।क्रिमिकूटः बहुशाखः शल्मलिश्च फडिस्तथा ॥४६॥निगडो लोहरज्जुश्च लोहपञ्जर एव च ।तनुभेदश्चोरगश्च वृश्चिकः काल एव च ॥४७॥वज्रकणः कटाहश्च पट्टः संकुल एव च ।घोरश्चाजगरश्चैव महावैतरणी तथा ॥४८॥गृद्ध्रश्च कुररश्चैव कुक्कुटश्च प्रमर्दकः ।कर्दमः दुर्दुरश्चैव लम्बोष्ठो वज्रनासिकः ॥४९॥चिपिटः खञ्जरीटश्च शवलो नील एव च ।काकः कङ्कुममुखश्चैव शिवारावस्ततः परः ॥५०॥गजनादो महानादः सिंहनादस्तथैव च ।महाग्राहस्तथा नक्रो मूषिकाकीटसागरः ॥५१॥अवाक्शिराः त्रिरावर्तः चक्रपीडनकस्तथा ।त्रपुलेपस्त्रपुकूपः इक्षुयन्त्रः गिरेर्लता ॥५२॥कटङ्कटश्चविख्यातः तप्तवालुक एव च ।एतेऽतिघोरा नरकास्त्रिकोणाः परिकीर्तिताः ॥५३॥असत्कर्मरतानां च प्राणिनां पातनाय तु ।निस्त्रिंशकर्मकर्तॄणां शठानां पापिनां तथा ॥५४॥निर्दयाधमजातीनां परहिंसारतात्मनां ।परदाररतानां च शिवशास्त्रस्य दूषिणां ॥५५॥देवद्रव्यापहर्तॄणां ब्रह्मघ्नपितृघातिनां ।गोघ्नानां च कृतघ्नानां मित्रविस्रम्भघातिनां ॥५६॥सुवर्णभूमिहर्तॄणां शौचाचारनिवर्तिनां ।दयादाक्षिण्यहीनानां पैशुन्यानृतचेतसां ॥५७॥नरकास्तु समाख्यातास्त्वकर्मपथवर्तिनां ।शुभकर्मरता लोका नरके न पतन्ति हि ॥५८॥तत्समासेन वक्ष्यामि यथावदनुपूर्वशः ।सत्यं क्षान्तिरहिंसा च शौचं स्नानमकल्कता ॥५९॥दयालौल्यं च यस्यासौ नरकान्नाधिगच्छति ।शान्तो दान्तः सुहृष्टात्मा त्वनहंकारवान्समः ॥६०॥अद्रोही चानसूयश्च परैश्वर्ये च निःस्पृहः ।अमात्सर्यममानित्वं शिवभक्तिरचापलं ॥१॥जपध्यानरतिः स्थैर्यं कार्पण्यस्य च वर्जनं ।व्रतानि नियमाश्चैव स्वाध्यायश्च त्रिदंध्यता ॥६२॥सर्वत्र श्रद्दधानत्वं आर्जवं ह्रीर्मनस्विता ।तेजः प्रशान्तिः संतोषोऽप्रियवाक्यविवर्जनं ॥३॥समीक्ष्यकारिता नित्यं मनोहंकारनिग्रहः ।अदम्भित्वममायित्वं अकल्को ज्ञानशीलता ॥६४॥पितृदेवार्चने भक्तिर्गोब्राह्मण शरण्यता ।अग्नौ होमो गुरुर्दानं ज्ञानिनां पर्युपासनं ॥५॥एकान्ते च रतिर्ध्यानं आत्मन्येव च तुष्टता ।अव्यापारः परार्थेषु औदासीन्यमनागसः ॥६६॥अक्रोधित्वमनालस्यां एते धर्माः प्रकीर्तिताः ।यस्त्वेतान्भजते भावान्सोऽमृतत्वाय कल्पते ॥६७॥नश्यन्ति पौरुषाः पाशा येऽप्यनन्ताः प्रकीर्तिताः ।शिवाचाररतानां तु धार्मिकाणां हि देहिनां ॥८॥तस्मादेवं तु विज्ञाय मनो धर्मे नियोजयेथ् ।यस्य चित्तमसंभ्रान्तं निर्विकल्पमकल्मषं ॥९॥स याति परमांल्लोकान्नरकांश्च न पश्यति ।यस्य बुद्धिरसंमूढा सर्वभूतेष्वपातकी ॥७०॥अकल्कवान्सत्त्ववान्यो नरकान्स न पश्यति ।जितानि येनेन्द्रियाणि मनो यस्य वशे स्थितं ॥७१॥तज्जयेन जितं सर्वं त्रैलोक्यं सचराचरं ।स्वकार्ये परकार्ये वा यस्य बुद्धिः स्थिरा भवेथ् ॥७२॥एतदेव हि पाण्डित्यं शेषाः पुस्तकवाचकाः ।इत्येष तान्त्रिको न्यायः कथितस्तु समासतः ॥७३॥अतान्त्रिकाणामन्येषां परिसंख्या न विद्यते ।शिवशास्त्ररता ये तु गुरुभक्तिपरायणाः ॥७४॥परतत्त्वविदो ये तु न तेषां दुरितं भवेथ् ।एतेषां नरकाणां तु प्रधानानि निबोध मे ॥७५॥पञ्चत्रिंशत्तु नरकाः चतुर्भेदाः प्रकीर्तिताः ।चत्वारिंशच्छतंह्येतत्समासात्परिकीर्तितं ॥७६॥तैर्विशुद्धैर्विशुद्ध्यन्ति पञ्चाशत्कोटयस्तु ताः ।पञ्चत्रिंशद्यदा वैते द्वात्रिंशद्वा विशोधिताः ॥७७॥चत्वारिंशच्छतं शुद्धं तदेतत्स्याद्वरानने ।त्रिभिः शुद्धैस्तु द्वात्रिंशच्छुद्धा एव भवन्ति हि ॥७८॥तेषां नामानि वक्ष्यामि त्रयाणां वरवर्णिनि ।अवीचिश्चैव विख्यातः कुम्भीपाकश्च दारुणः ॥७९॥महारौरवराजश्च स्थानं तेषां निबोध मे ।अधोमध्योर्ध्वभागेषु संस्थितास्ते यथाक्रमं ॥८०॥व्याप्तिं तेषां प्रवक्ष्यामि यथावदनुपूर्वशः ।नरकैकादशगतं अवीचिं शोधयेत्प्रिये ॥८१॥आत्मना द्वादशं देवि कुम्भीपाकं विशोधयेथ् ।महारौरवसंज्ञं चाप्येवमेव न संशयः ॥८२॥पञ्चत्रिंशत्प्रवक्ष्यामि समासेन वरानने ।अवीचिः क्रिमिनिचयो नदी वैतरणी तथा ॥८३॥लोहश्च शल्मलिश्चैवाप्यसिपर्वत एव च ।सोच्छ्वासश्च निरुच्छ्वासः पूतिमांसः परस्तथा ॥८४॥तप्तत्रपुः क्षारकूपो जतुलेपस्तथैव च ।अन्तर्भूता अवीचौ तु कुम्भीपाकस्य श्रूयतां ॥८५॥अस्थिभङ्गः क्रकचछेदः कूपश्चापि कटङ्कटः ।वसामिश्रोह्ययस्तुण्डस्त्रपुलेपः प्रकीर्तितः ॥८६॥कुम्भीपाकश्च विज्ञेयस्तीक्ष्णासिश्च तथैव च ।तप्रलोहश्च विज्ञेयः क्षुरधारपथस्तथा ॥८७॥अशनिश्च सुतप्तश्च द्वादशैते प्रकीर्तिताः ।एकादशान्तर्विज्ञेयाः कुम्भीपाकस्य दारुणाः ॥८८॥महारौरवराजे च अत ऊर्ध्वं निबोध मे ।कालसूत्रो महापद्मः कुम्भः संजीवनेक्षुकौ ॥८९॥पाशोऽम्बरेषकश्चैव अयःपट्टस्तथैव च ।दण्डयन्त्रस्त्वमेध्यश्च घोररूपस्तथापरः ॥९०॥महारौरव एतेषां उपरिष्टाद्व्यवस्थितः ।अवीचौ कृमिनरकान्कुम्भीपाके सुदारुणान् ॥९१॥महारौरवकेऽमेध्यानन्तर्भूतान्विचिन्तयेथ् ।द्वात्रिंशन्नरकाणां च मानं चैव निबोध मे ॥९२॥नवनवतिर्लक्षाणि एकैकस्योच्छ्रयः स्मृतः ।लक्षमात्रान्तरा ज्ञेया द्वात्रिंशच्चाप्यनुक्रमाथ् ॥९३॥एतेषामुपरिष्टात्तु प्रभुत्वेन वरानने ।योगैश्वर्यगुणोपेतः कूष्माण्डाधिपतिः स्थितः ॥९४॥नवनवतिर्लक्षाणि पुरं तस्य प्रकीर्तितं ।तस्योपरिष्टात्पातालान्कथयामि समासतः ॥९५॥आभासं वरतालं च शर्करं च गभस्तिमथ् ।महातलं च सुतलं रसातलमतः परं ॥९६॥सौवर्णमष्टमं ज्ञेयं सर्वकामसमन्वितं ।आभासाद्यावत्सौवर्णं प्रमाणं कथयामि ते ॥९७॥सहस्रनवकोत्सेधं एकैकं तु पुरोत्तमं ।एकैकस्यान्तरं ज्ञेयं सहस्रपरिसंख्यया ॥९८॥छत्राकाराणि सर्वाणि तेषां वै भुवनानि तु ।सर्वकामैः समेतानि गुणैः सर्वैर्युतानि तु ॥९९॥हेमप्राकारशिखरैश्छत्रध्वजसमाकुलैः ।किङ्किणीजालमुखरैस्तोरणाट्टालमण्डितैः ॥१००॥ N/A References : N/A Last Updated : June 16, 2012 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP