संस्कृत सूची|शास्त्रः|तंत्र शास्त्रः|स्वच्छन्दभैरवतन्त्र| दशमः पटलः १३ स्वच्छन्दभैरवतन्त्र प्रथमः पटलः द्वितीयः पटलः तृतीयः पटलः चतुर्थः पटलः पञ्चमः पटलः षष्ठः पटलः सप्तमः पटलः अष्टमः पटलः नवमः पटलः दशमः पटलः १ दशमः पटलः २ दशमः पटलः ३ दशमः पटलः ४ दशमः पटलः ५ दशमः पटलः ६ दशमः पटलः ७ दशमः पटलः ८ दशमः पटलः ९ दशमः पटलः १० दशमः पटलः ११ दशमः पटलः १२ दशमः पटलः १३ एकादशः पटलः द्वादशः पटलः त्रयोदशः पटलः चतुर्दशः पटलः पञ्चदशः पटलः स्वच्छन्दभैरवतन्त्र - दशमः पटलः १३ स्वच्छन्दभैरवतन्त्र हे एक असे तंत्र आहे, ज्यापासून प्रत्यक्ष भैरव मदतीला उभे राहतात. Tags : shastratantraतंत्रशास्त्रस्वच्छन्दभैरवतन्त्र दशमः पटलः १३ Translation - भाषांतर भुक्तिमुक्तिप्रदाता च साधकानां क्रियावतां ।कोटयः सप्तमन्त्राणां आसने तस्य संस्थिताः ॥१२०१॥आसनं लक्षपत्राढ्यं चन्द्रकोट्ययुतप्रभं ।वामाद्यैर्विभुपूर्वैश्च पञ्चवक्त्रैस्त्रिलोचनैः ॥१२०२॥ताराद्यैः शक्तिभेदैश्च प्राग्दिशः परिवारितं ।ज्ञानशक्तिः क्रियाशक्तिर्वामे दक्षिणतः स्थिते ॥१२०३॥इच्छाशक्तिः परादेवि यया सर्वमधिष्ठितं ।उत्पत्तिस्थितिसंहारांस्तिरोभावमनुग्रहं ॥१२०४॥यया करोति देवेशः सर्वदा सर्वमध्वनि ।तस्योत्सङ्गगता सा तु नित्यं चैवात्मवर्तिनी ॥१२०५॥सा चेच्छा देवदेवस्य शिवस्य परमात्मनः ।स एवापररूपेण पञ्चमन्त्रमहातनुः ॥१२०६॥इच्छारूपधरः श्रीमान्देवदेवः सदाशिवः ।शक्तयस्तस्य याः प्रोक्ताः तथा वै मन्त्रनायकाः ॥१२०७॥एकैकं परितो देवि पद्मैरर्बुदकोटिभिः ।तथा खर्वनिखर्वैश्च प्रतिरूपैर्महाबलैः ॥१२०८॥विद्यारूपैः स्वरूपाढैरप्रमेयगुणान्वितैः ।सर्वलक्षणसंपन्नैः सर्वाभरणभूषितैः ॥१२०९॥हास्यलास्यविलासाढ्यैर्भ्रूक्षेपोन्मदविभ्रमैः ।चन्द्रकोटिशतप्रख्यैः प्रस्रवद्भिरिवामृतं ॥१२१०॥ताभिः सार्धं सदा रुद्राः प्रकीडन्तीच्छया प्रभोः ।पुरवरैः सर्वतोभद्रैश्चन्द्रकोटिसमप्रभैः ॥१२११॥मायाधर्मविनिर्मुक्ता निर्मला विगतज्वराः ।अधिकारं प्रकुर्वन्ति सर्वज्ञामोघशक्तयः ॥१२१२॥अधिकारक्षये शान्ता जायन्ते सर्वगाः शिवाः ।परप्रेर्याः पुनर्भूयो न भवन्ति कदाचन ॥१२१३॥सुशिवावरणं ख्यातं मन्त्रगर्भं वरानने ।बिन्द्वावरणमूर्ध्वेऽतश्चन्द्रकोटिसमप्रभं ॥१२१४॥तत्र पद्मं महादीप्तं दशकोटिसमन्वितं ।तत्र पद्मे स्थितो देवः शान्त्यतीतो महाद्युतिः ॥१२१५॥पञ्चवक्त्रो विशालाक्षो दशबाहुस्त्रीलोचनः ।तडित्सहस्रपुञ्जाभः स्फुरन्माणिक्यमण्डितः ॥१२१६॥निवृत्तिश्च प्रतिष्ठा च विद्या शान्तिस्तथैव च ।परिवारः स्मृतस्तस्य शान्त्यतीतस्य सुव्रते ॥१२१७॥तस्य वामे तु दिग्भागे शान्त्यतीता व्यवस्थिता ।पञ्चवक्त्राः स्मृताः सर्वा दशबाह्विन्दुशेखराः ॥१२१८॥बिन्दुतत्त्वं समाख्यातं पुरकोट्यर्बुदैर्वृतं ।अर्धचन्द्रस्तदूर्ध्वे तु तदूर्ध्वे तु निरोधिका ॥१२१९॥एते द्वे तु महास्थाने पञ्चपञ्चकलान्विते ।ज्योत्स्ना ज्योत्स्नावती कान्तिः सुप्रभा विमला शिवा ॥१२२०॥अर्धचन्द्रे स्थिताह्येता निरोधिन्यां शृणु प्रिये ।रुन्धनी रोधनी रौद्री ज्ञानबोधा तमोपहा ॥१२२१॥अर्धमात्रः स्मृतो बिन्दुः स्वरूपश्च चतुष्कलः ।तस्याप्यर्धमर्धचन्द्रस्त्वष्टांशश्च निरोधिका ॥१२२२॥निरोधयति देवान्सा ब्रह्माद्यांस्तु वरानने ।निरोधिनीति विख्याता तां भित्त्वा तु वरानने ॥१२२३॥सादाख्यपरभावेन पञ्चमन्त्रकहातनुः ।तस्योर्ध्वे तु स्मृतो नादः स किञ्जल्करजः प्रभः ॥१२२४॥महद्भिः पुरुषैर्व्याप्तः सूर्यकोट्ययुतप्रभैः ।तेषां वै नायिका वक्स्ये भुवने पञ्चसङ्ख्यया ॥१२२५॥इन्धिका दीपिका चैव रोचिका मोचिका तथा ।ऊर्ध्वगा तु समाख्याता कलात्वेषा तु पञ्चमी ॥१२२६॥तस्मिन्पद्मं सुविस्तीर्णं ऊर्ध्वगेशः स्थितः प्रभुः ।चन्द्रार्बुदप्रतीकाशः पञ्चवक्त्रस्त्रिलोचनः ॥१२२७॥चन्द्रार्धशेखरः शान्तो दशबाहुर्महातनुः ।इन्धिकादिवृतो देवः शूलपाणिर्जटाधरः ॥१२२८॥ऊर्ध्वगा तु कला तस्य नित्यमुत्सङ्गगामिनी ।ततः सुषुम्णाभुवनं सुषुम्णा तत्र संस्थिता ॥१२२९॥सुषुम्णेशः स्थितस्तत्र चन्द्रकोट्ययुतप्रभः ।दशबाहुस्त्रिनेत्रश्च श्वेतपद्मोपरिस्थितः ॥१२३०॥शशाङ्कशेखरः श्रीमान्पञ्चवक्त्रो महातनुः ।इडा च पिङ्गला चैव वामदक्षिणतः स्थिते ॥१२३१॥सुषुम्णा तु वरारोहे तुषारकणधूसरा ।श्वेतपद्मकरा देवी पद्ममालाविभूषिता ॥१२३२॥पञ्चवक्त्रा सुशोभाढ्या त्रिनेत्रा शूलधारिणी ।तस्योत्सङ्गगता देवी ध्यातव्या साधकादिभिः ॥१२३३॥ग्रथितस्तु तया सर्वस्त्वध्वायमध ऊर्ध्वगः ।नाड्याधारस्तु नादो वै भित्त्वा सर्वमिदं जगथ् ॥१२३४॥अधःशक्त्या विनिर्गतय यावद्ब्रह्माणमूर्ध्वतः ।नाड्या ब्रह्मबिले लीनस्त्वव्यक्तध्वनिरक्षरः ॥१२३५॥नदते सर्वभूतेषु शिवशक्त्या त्वधिष्ठितः ।एवं ज्ञात्वा वरारोहे शोधयेत्तं शिवाध्वरे ॥१२३६॥ततो ब्रह्मबिलं ज्ञेयं रुद्रकोट्यर्बुदान्वितं ।तत्र ब्रह्मा परो ज्ञेयः शशाङ्कशतसप्रब्भः ॥१२३७॥दशबाहुस्त्रिनेत्रश्च पञ्चवक्त्रेन्दुशेखरः ।त्रिशूलपाणिर्भगवाञ्जटामुकुटमण्डितः ॥१२३८॥ब्रह्माणि तु परा शक्तिर्या सा मोक्षपथे स्थिता ।द्वारं या मोक्षमार्गस्य रोधयित्वा व्यवस्थिता ॥१२३९॥मोक्षमार्गप्रदात्री च ब्रह्मोत्सङ्गे च संस्थिता ।तां भित्त्वात्र वरारोहे गन्तव्यमूर्ध्वतः प्रिये ॥१२४०॥अत ऊर्ध्वं स्थिता शक्तिः प्रसुप्तभुजगाकृतिः ।आधारो भुवनानां सा तां प्रवक्ष्यामि सुव्रते ॥१२४१॥सूक्ष्मा चैव सुसूक्ष्मा च तथा चान्यामृतामिता ।व्यापिनी मध्यतो ज्ञेया शेषाः पूर्वादितः क्रमाथ् ॥१२४२॥पञ्चवक्त्रास्त्रिनेत्राश्च सुतेजस्का महाबलाः ।शक्तितत्त्वं समाख्यातं शिवतत्त्वं शृणु प्रिये ॥१२४३॥पुरश्रेष्ठैरनेकैस्तु समन्तात्परिवारितं ।हेमप्राकाररचितं रत्नमाणिक्यमण्डितं ॥१२४४॥अशेषभोगसम्पन्नं सर्वकामगुणोदयं ।भुवनानि प्रवक्ष्यामि तत्रैव संस्थितानि तु ॥१२४५॥व्यापकं व्योमरूपं च अनन्तानाथनाश्रितं ।कारणानां पञ्चकं च शिवतत्त्वे व्यवस्थितं ॥१२४६॥तत्र पद्मं सुविस्थीर्णं अनन्तानन्तसम्भवं ।तस्य पद्मस्य मध्यस्थो देवश्चायमनाश्रितः ॥१२४७॥पञ्चवक्त्रधरः शान्तः सर्वज्ञः परमेश्वरः ।दशबाहुर्महादीप्तः सृष्टिसंहारकारकः ॥१२४८॥सर्वानुग्रहकर्ता च प्रणतार्तिविनाशनः ।भुक्तिमुक्तिप्रदाता च सूर्यकोट्यर्बुदप्रभः ॥१२४९॥स्फुरन्मुकुटमाणिक्यः समन्तादुपशोभितः ।दिव्याम्बरधरो देवो दिव्यगन्धानुलेपनः ॥१२५०॥पद्मासनोन्नतोरस्कः शशाङ्ककृतशेखरः ।आबद्धमणिपर्यङ्कश्चामरोत्क्षेपवीजितः ॥१२५१॥रुद्रकोट्यर्बुदानीकैः समन्तादुपशोभितः ।व्यापिनी व्योमरूपा चा- नन्तानाथात्वनाश्रिता ॥१२५२॥पञ्चवक्त्रा महावीर्या दशबाह्विन्दुशेखराः ।त्रिनेत्राः शूलहस्ताश्च कारणैश्च समन्विताः ॥१२५३॥पूर्वाद्युत्तरपर्यन्ता एताश्चैव व्यवस्थिताः ।अनाश्रितो मध्यगस्तु संस्थितः प्रभुरव्ययः ॥१२५४॥अनाश्रितकला देवी तस्योत्सङ्गे च संस्थिता ।एवं वै शिवतत्त्वं तु कथितं तव सुन्दरि ॥१२५५॥शोधयित्वा ततश्चोर्ध्वं शक्तिश्चैव परा स्मृता ।समना नाम सा ज्ञेया मनश्चोर्ध्वं न जायते ॥१२५६॥परिपाट्या स्थितानां तु पृथिव्यादिशिवावधौ ।सर्वेषां कारणानां च कर्तृभूता व्यवस्थिता ॥१२५७॥बिभर्त्यण्डान्यनेकानि शिवेन समधिष्ठिता ।तत्रारुढस्तु कुरुते शिवः परमकारणं ॥१२५८॥सृष्टिस्थितिसमाहारं तिरोभावमनुग्रहं ।हेतुकर्ता महेशानः सर्वकारणकारणं ॥१२५९॥समना नाम या शक्तिः सा तस्य करणं स्मृतं ।तयाधितिष्ठेद्देवेशो ह्यधःकारणपञ्चकं ॥१२६०॥अनाश्रितस्य देवस्य कारणं सेयमाश्रिता ।स वै प्रेरयते भूयस्त्वनाथं तु जगत्पतिं ॥१२६१॥अनाथश्चाप्यनन्तेशं अनन्तो व्योमरूपिणं ।व्योमव्यापी महादेवो व्यापिनं बोधयेत्प्रभुं ॥१२६२॥व्यापिनी करणं तस्य कर्ता वै व्याप्यसौ प्रभुः ।कर्मरूपा स्थिता माया यदधः शक्तिकुण्डली ॥१२६३॥नादबिन्द्वात्मकं कार्यं इत्यादिजगदुद्भवः ।यत्सदाशिवपर्यन्तं पार्थिवाद्यं च सुव्रते ॥१२६४॥तत्सर्वं प्राकृतं ज्ञेयं विनाशोत्पत्तिसंयुतं ।या सा शक्तिः पुरा प्रोक्ता समना त्वध्वमूर्धनि ॥१२६५॥स्फुरत्सूर्यसहस्राभ- किरणानन्तभास्वरा ।ध्यात्वा चैतां समावाह्य स्थापयेत्तु विधानविथ् ॥१२६६॥उपचारं ततः कृत्वा वागीश्यावाहनं तथा ।स्थापनं पूजनं चैव पशोर्यागं तथैव च ॥१२६७॥गर्भधारित्वजनने अधिकारं तथैव च ।योगं भोगं लयं चैव निष्कृतिं तदनन्तरं ॥१२६८॥भुवनाधिपहोमं च भुवनाधिपवासिनां ।भुवनानां यथायोगं होमं कृत्वा वरानने ॥१२६९॥त्रितत्त्वं शधयेच्चातोऽवयवांश्च यथाक्रमं ।विश्लेषपाशच्छेदौ च कृत्वा पूर्णां तु पातयेथ् ॥१२७०॥प्रायश्चित्तं ततो हुत्वा कर्तरीमभिमन्त्रयेथ् ।शिखां च्छित्वा समर्प्यैतां शिशुं संस्नापयेद्गुरुः ॥१२७१॥आचार्यः प्रयतो भूत्वा सकलीकरणादिकं ।स्रुचोऽग्रे तु शिखां कृत्वा हुत्वा स्नायादनन्तरं ॥१२७२॥सकलीकरणं कृत्वा आचार्यस्तु वरानने ।शिशोरपि विधिं कृत्वा शिवकुम्भं समर्चयेथ् ॥१२७३॥भैरवं मध्यदेशस्थं भैरवाग्निं समर्चयेथ् ।पूर्णां सम्पूर्य विधिवद्वाममन्त्रमनुस्मरन् ॥१२७४॥पूर्वोक्तलक्षणेनैव प्रोच्चरेत्तं प्रयत्नतः ।हेयाध्वानमधः कुर्वन्नेचयेत्तं वरानने ॥१२७५॥यावत्सा समना शक्तिः तदूर्ध्वे चोन्मना स्मृता ।नात्र कालः कलाश्चारो न तत्त्वं न च देवताः ॥१२७६॥सुनिर्वाणं परं शुद्धं गुरुवक्त्रं तदुच्यते ।तदतीतं वरारोहे परं तत्त्वमनामयं ॥१२७७॥गुरुवक्त्रप्रयोगेण तस्मिन्योज्येत शाश्वते ।निष्कम्पे कारणातीते विरजे निर्मले शुभे ॥१२७८॥सर्वज्ञे परमे तत्त्वे व्योमातीते ह्यतीन्द्रिये ।इत्यध्वा चैष वै प्रोक्तः समासेन मयानघे ॥१२७९॥ज्ञात्वा चैवं महादेवि प्रयाति परमं पदं ।देहे देवे च शिष्ये च कलशे ह्यग्निमध्यतः ।एवं ज्ञात्वा वरारोहे मुच्यते मोचयत्यपि ॥१२८०॥इति स्वच्छन्दतन्त्रे दशमः पटलः समाप्तः N/A References : N/A Last Updated : June 16, 2012 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP