संस्कृत सूची|शास्त्रः|तंत्र शास्त्रः|स्वच्छन्दभैरवतन्त्र| प्रथमः पटलः स्वच्छन्दभैरवतन्त्र प्रथमः पटलः द्वितीयः पटलः तृतीयः पटलः चतुर्थः पटलः पञ्चमः पटलः षष्ठः पटलः सप्तमः पटलः अष्टमः पटलः नवमः पटलः दशमः पटलः १ दशमः पटलः २ दशमः पटलः ३ दशमः पटलः ४ दशमः पटलः ५ दशमः पटलः ६ दशमः पटलः ७ दशमः पटलः ८ दशमः पटलः ९ दशमः पटलः १० दशमः पटलः ११ दशमः पटलः १२ दशमः पटलः १३ एकादशः पटलः द्वादशः पटलः त्रयोदशः पटलः चतुर्दशः पटलः पञ्चदशः पटलः स्वच्छन्दभैरवतन्त्र - प्रथमः पटलः स्वच्छन्दभैरवतन्त्र हे एक असे तंत्र आहे, ज्यापासून प्रत्यक्ष भैरव मदतीला उभे राहतात. Tags : shastratantraतंत्रशास्त्रस्वच्छन्दभैरवतन्त्र प्रथमः पटलः Translation - भाषांतर कैलासशिखरासीनं भैरवं विगतामयं ।चण्डनन्दिमहाकाल- गणेशवृषभृङ्गिभिः ॥१॥कुमारेन्द्रयमादित्य- ब्रह्मविष्णुपुरःसरैः ।स्तूयमानं महेशानं गणमातृनिषेवितं ॥२॥सृष्टिसंहारकर्तारं विलयस्थितकारकं ।अनुग्रहकरं देवं प्रणतार्तिविनाशनं ॥३॥मुदितं भैरवं दृष्ट्वा देवी वचनमब्रवीथ् ।श्रीदेव्युवाचयत्त्वया कथितं मह्यं स्वच्छन्दं परमेश्वर ॥४॥शतकोटिप्रविस्तीर्णं भेदानन्त्यविसर्पितं ।चतुष्पीठं महातन्त्र चतुष्टयफलोदयं ॥५॥न शक्नुवन्ति मनुजा अल्पवीर्यपराक्रमाः ।अल्पायुषोऽल्पवित्ताश्च अल्पसत्त्वाश्च शंकर ॥६॥तदर्थं संग्रहं तस्य स्वल्पशास्त्रार्थविस्तरं ।भुक्तिमुक्तिप्रदातारं कथयस्व प्रसादतः ॥७॥कीदृशं वै गुरुं विद्यात्साधकं च महेश्वर ।भयाभयप्रदातारं शिष्यं भूमिं च कीदृशीं ॥८॥मन्त्रांश्चैव समासेन कालं चैव समासतः ।यजनं हवनं चैव अधिवासं रजांसि च ॥९॥पञ्चगव्यं चरुं चैव दन्तकाष्ठं च मण्डलं ।दीक्षा चाध्वाभिषेकौ च समयान्साधनानि च ॥१०॥कलिमासाद्य सिध्यन्ति तथा ब्रूहि महेश्वर ।श्रीभैरव उवाचसाधु साधु महाभागे यत्त्वया परिचोदितं ॥११॥अनुग्रहाय मर्त्यानां साम्प्रतं कथयामि ते ।आदौ तावत्परीक्षेत आचार्यं शुभलक्षणं ॥१२॥आर्यदेशसमुत्पन्नं सर्वावयवभूषितं ।शिवशास्त्रविधानज्ञं ज्ञानज्ञेयविशारदं ॥१३॥देवकर्मरतं शान्तं सत्यवादिदृढव्रतं ।सत्त्ववद्वीर्यसम्पन्नं दयादाक्षिण्यसंयुतं ॥१४॥त्यागिनं दम्भनिर्मुक्तं शिवशास्त्रेषु भावितं ।ईदृशं तु गुरुं प्राप्य सिद्धिमुक्ती न दूरतः ॥१५॥क्रोधनश्चपलः क्षुद्रो दयादाक्षिण्यवर्जितः ।केकरो दन्तुरः काणः पापिष्ठः शास्त्रवर्जितः ॥१६॥अतिदीर्घस्तथा ह्रस्वः कृशः स्थूलः क्षयान्वितः ।तार्किको दम्भसंयुक्तः सत्यशौचविवर्जितः ॥१७॥अन्यशास्त्ररतो यस्तु नासौ मुक्तिफलप्रदः ।शिष्यो दयान्वितो धीरो दम्भमायाविवर्जितः ॥१८॥देवाग्निगुरुभक्तश्च शास्त्रभक्तो दृढव्रतः ।गुरुशुश्रूषणपरः सुशान्तेन्द्रियसंयुतः ॥१९॥ईदृशो वै भवेच्छिष्.यः सोऽत्रानुग्रहभाजनं ।मायान्वितः शठः क्रूरो निःसत्यः कलहप्रियः ॥२०॥कामी च लोभसम्पन्नः शिवभक्तिविवर्जितः ।दूषको गुरुशास्त्राणां दीक्षितोऽपि न मुक्तिभाक् ॥२१॥सन्तापं क्रोधने विन्द्याच्चपले चपलाः श्रियः ।मन्त्रसिद्धिं हरेत्क्षुद्र आचार्यस्तु वरानने ॥२२॥दयाहीनेन दौर्भाग्यं अदक्षे दस्युपीडनं ।केकरेण भवेद्व्याधिर्दन्तुरः कलिकारकः ॥२३॥काणो विद्वेषजननः खल्वाटश्चार्थनाशनः ।शास्त्रहीने न सिद्धिः स्याद्दीक्षादौ वीरवन्दिते ॥२४॥दीर्घे राजभयं ज्ञेयं ह्रस्वः पुत्रविनाशनः ।कृशः क्षयकरो ज्ञेयः स्थूल उत्पातकारकः ॥२५॥क्षयान्वितेन मृत्युः स्यात्तार्किके वधबन्धनं ।दाम्भिकः पापजनको वेदितव्यो वरानने ॥२६॥मन्तास्तस्य न सिद्ध्यन्ति यः सत्यादिविवर्जितः ।सर्वे ते न शुभा देवि इह लोके परत्र च ॥२७॥सितरक्तपीतकृष्णां भूमिं प्लवविशोधितां ।विशल्यां लक्षणैर्युक्तां सर्वकामार्थसाधिकां ॥२८॥सुगन्धिगन्धसंयुक्तां पुष्पप्रकरलालितां ।सुधूपामोदबहलां वितानोपरिशोभितं ॥२९॥आचार्यस्तु शुचिर्भूत्वा चन्दनागुरुचर्चितः ।सुधूपितः प्रसन्नात्मा खटिकाकरसंयुतः ॥३०॥प्राङ्मुखोदङ्मुखो वापि एकचित्तः समाहितः ।मातृकां प्रस्तरेत्तत्र आदिक्षान्तामनुक्रमाथ् ॥३१॥आदिः षोडशभेदेन साक्षाद्वै भैरवः स्मृतः ।कवर्गश्चटवर्गौ च तपयाः शस्तथैव च ॥३२॥संहारेण समोपेतौ योनिर्वै भैरवी स्मृता ।मातृकाभैरवं देवं अवर्गेण प्रपूजयेथ् ॥३३॥भैरवी कादिना पूज्या मातृवर्गैः प्रपूजयेथ् ।अवर्गे तु महालक्ष्मीः कवर्गे कमलोद्भवा ॥३४॥चवर्गे तु महेशानी टवर्गे तु कुमारिका ।नारायणी तवर्गे तु वाराही तु पवर्गिका ॥३५॥ऐन्द्री चैव यवर्गस्था चामुण्डा तु शवर्गिका ।एताः सप्त महामातृः सप्तलोकव्यवस्थिताः ॥३६॥सर्वान्कामानवाप्नोति देव्येवं भैरवोऽब्रवीथ् ।अन्तेऽस्य उद्धरेन्मन्त्रान्यथाक्रमनियोगतः ॥३७॥त्रयोदशं बिन्दुयुतं अनन्तासनमुत्तमं ।अनेन योजयेत्सर्वं सोमसूर्याग्निमध्यगं ॥३८॥ब्रह्मविष्णुमहेशानं शवान्तं परिकल्पयेथ् ।मूर्तिं हंसाक्षरेणैव बिन्दुभिन्नेन कल्पयेथ् ॥३९॥अर्धचन्द्रकृताटोपां स्वस्वनां तुहिनप्रभां ।तदूर्ध्वे सकलं देवं स्वच्छन्दं परिकल्पयेथ् ॥४०॥ओंकारमुच्चरेत्पूर्वं अघोरेभ्यो अनन्तरं ।थ घोरेभ्यो समालिख्य ततोऽन्यत्तु समालिखेथ् ॥४१॥घोरघोरतरेभ्यश्च सर्वतः शर्व उच्चरेथ् ।सर्वेभ्यः पदमन्यच्च नमस्ते रुद्र एव च ॥४२॥रूपेभ्यश्च समालिख्य नमस्कारावसानकं ।मन्त्रराजः समाख्यातः अघोरः सुरपूजितः ॥४३॥सकृदुच्चारितो देवि नाशयेत्सर्वकिल्बिषं ।जन्मकोटीसहस्रैस्तु भ्रमद्भिः समुपार्जितं॥ ४४॥स्मरणान्नाशयेद्देवि तमः सूर्योदये यथा ।यकारादिवकारान्ताः संहारेण समायुताः ॥४५॥बिन्दुमस्तकसम्भिन्ना भैरवस्य मुखानि च ।ब्रह्मभङ्ग्या नियोज्यानि मूर्धादिचरणावधि ॥४६॥पुनश्चोर्ध्वं मुखं कल्प्यं प्राग्दक्षिणमथोत्तरं ।अपरं कल्पयित्वा तु कलाभेदेन विन्यसेथ् ॥४७॥पूर्वं च दक्षिणं चैव उत्तरं पश्चिमं तथा ।ऊर्ध्वमूर्ध्ना तु संयुक्तं क्षकारं त्वीशरूपिणं॥ ४८॥एवं वक्त्रं चतुर्धा तु वक्त्रेष्वेव नियोजयेथ् ।पञ्चमं यद्भवेद्वक्त्रं क्षकारेणैव निर्दिशेथ् ॥४९॥हृदि ग्रीवांसपृष्ठे तु नाभौ च जठरे तथा ।पृष्ठे चोरसि विन्यसेदघोरेण यथाक्रमं ॥५०॥गुह्ये तथा गुदे चैव तथोर्वोर्जानुनोरपि ।जङ्घयोश्च स्फिजोः कट्यां पार्श्वयोरुभयोरपि ॥५१॥विन्यसेच्चैव वामेन शरीरे तु यथाक्रमं ।पादौ हस्तौ तथा नासां शिरश्चैव भुजावथ ॥५२॥सद्येन कल्पयेद्देवि सर्वमेतद्यथाक्रमं ।तासां नामानि वक्ष्यामि यथावदनुपूर्वशः ॥५३॥तारा सुतारा तरणी तारयन्ती सुतारणी ।ईशानस्य कला पञ्च निरञ्जनपदानुगा ॥५४॥निवृत्तिश्च प्रतिष्ठा च विद्या शान्तिस्तथैव च ।पुरुषस्य कला ह्येताश्चतस्रः परिकीर्तिताः ॥५५॥तमा मोहा क्षुधा निद्रा मृत्युर्माया भया जरा ।अघोरस्य कला ह्येता अष्टौ वै वरवर्णिनि ॥५६॥रजा रक्षा रतिः पाल्या काम्या तृष्णा मतिः क्रिया ।ऋद्धिर्माया च रात्रिश्च भ्रामिणी मोहनी तथा ॥५७॥मनोन्मनी कला ह्येता वामदेवे त्रयोदश ।सिद्धिरृद्धिर्द्युतिर्लक्ष्मीर्मेधा कान्तिः सुधा स्थितिः ॥५८॥सद्योजातकलास्त्वेवं अष्टौ सम्परिकीर्तिताः ।पुनश्च साधको देवि सर्वाङ्गेषु यथाक्रमं ॥५९॥नवतत्त्वं त्रितत्त्वं च ध्रुवेण परिकल्पयेथ् ।विद्याङ्गानि पुनर्न्यस्य तेषां मन्त्रान्शृणु प्रिये ॥६०॥अघोरेभ्यो समालिख्य थ घोरेभ्यो द्वितीयकं ।घोरघोरतरेभ्यश्च तृतीयं परिकल्पयेथ् ॥६१॥सर्वतः शर्व सर्वेभ्यो चतुर्थं परिकल्पयेथ् ।नमस्ते रुद्ररूपेभ्यः पञ्चमं च विधानतः ॥६२॥ओंकारमुच्चरेत्पूर्वं जुं सश्च तदनन्तरं ।नेत्रत्रयं प्रकल्पेत विद्यादेहस्य भामिनि ॥६३॥विद्याङ्गानि विजानीयात्नामानि च निबोध मे ।सर्वात्मा तु ब्रह्मशिरो ज्वालिनी पिङ्गलं तथा ॥६४॥दुर्भेद्यं पाशुपत्यं च ज्योतीरूपं तथैव च ।क्रिया ज्ञानं तथैवेच्छा तासां मन्त्रान्निबोध मे ॥६५॥चतुर्थस्वरसंयुक्तं हान्तं बिन्दुविभूषितं ।क्रियाशक्तिः समाख्याता सर्वसृष्टिप्रकाशिका ॥६६॥शकारस्य तृतीयं तु षष्ठयुक्तं सबिन्दुकं ।ज्ञानशक्तिः स्मृता ह्येषा प्रबोधजननी शुभा ॥६७॥क्षादिं द्विस्वरसम्भिन्नं त्रिपञ्चेन तु मूर्छितं ।इच्छाशक्तिः समाख्याता भैरवस्यामितात्मिका ॥६८॥हंसाख्यो बिन्दुसंयुक्तः षष्ठस्वरविभेदितः ।बालेन्दुनादशक्त्यन्तः स्वच्छन्दो निष्कलः स्मृतः ॥६९॥अस्योच्चरणमात्रेण ये युक्ताः सर्वपातकैः ।शुद्धस्फटिकसंकाशाः पदं गच्छन्त्यनामयं ॥७०॥सान्तं दीर्घस्वरैः षड्भिर्भिन्नजातिविभेदितं ।हृच्छिरश्च शिखा वर्म लोचनास्त्रं प्रकल्पयेथ् ॥७१॥ओंकारो दीपनस्तेषां अन्ते जातिं प्रकल्पयेथ् ।नमः स्वाहा तथा वौषतुं वषट्फट्क्रमेण तु ॥७२॥एष भैरवराजस्तु सर्वकामार्थसाधकः ।हर ईम अकारश्च ङादिरोस्वरसंयुतः ॥७३॥यान्त एकारसंयुक्तः षादिर्लान्तविभेदितः ।लादिस्त्रिस्वरसम्भिन्नो हंसो बिन्दुसमायुक्तः ॥७४॥षष्ठस्वरसमोपेतः फट्कारान्तविकल्पितः ।अघोरेश्वरीति विख्याता स्वच्छन्दोत्सङ्गगामिनी ॥७५॥भैरवाङ्गसमोपेता वक्त्रपञ्चकसंयुता ।हान्तो यादिर्यकारान्तो रादिः षष्ठकलान्वितः ॥७६॥बिन्दुनादसमायोगात्कपालेशः प्रकीर्तितः ।सान्तो बिन्दुरधो ह्यग्निः षष्ठयुक्तस्तु कीर्तितः ॥७७॥शिखिवाहनसंज्ञस्तु ज्ञातव्योऽसौ वरानने ।संहारः षष्ठसंयुक्तः षडन्तेन समन्वितः ॥७८॥क्रोधराजः समाख्यातः - - - - - - - - ।- - - - - - - - तथान्यं कथयामि ते ।ञादिः षष्ठस्वरोपेतस्त्रिपदेन समायुतः ॥७९॥बिन्दुमस्तकसम्भिन्नो विकरालो वरानने ।सान्तः शाद्येन संयुक्तः षष्ठस्वरयुतोऽप्यधः ॥८०॥चतुर्दशस्वराक्रान्तो बिन्दुनादान्तभूषितः ।मन्मथः कथितो ह्येष सुरसिद्धनमस्कृतः ॥८१॥येनेदं तु निजं सर्वं जगत्स्थावरजङ्गमं ।हररादिसमायुक्तः ऊकाराधः सबिन्दुकः ॥८२॥मेघनादेश्वरो ह्येष भैरवः सम्प्रकीर्तितः ।क्षसान्तर्बिन्दुसंयुक्तः पञ्चमेन विभेदितः ॥८३॥सोमेश्वरः समाख्यातो जन्ममृत्युविनाशनः ।क्षादिर्यान्तसमोपेतो हान्तेनाधोनियोजितः ॥८४॥भान्तो वादिर्लकारान्तो राद्योऽधो रुद्रयोजितः ।बिन्द्वर्धेन्दुसमायुक्तो नादशक्तिसमन्वितः ॥८५॥विद्याराजः समाख्यातो महापातकनाशनः ।भैरवाष्टकमेतद्धि परिवारः प्रकीर्तितः ॥८६॥लोकपालांस्तथोद्धृत्य स्वनामप्रणवादिकान् ।नमस्कारावमानांश्च सास्त्रान्सम्परिकल्पयेथ् ॥८७॥इति स्वच्छन्दतन्त्रे मन्त्रोद्धारप्रकाशनं नाम प्रथमः पटलः N/A References : N/A Last Updated : June 16, 2012 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP