संस्कृत सूची|शास्त्रः|तंत्र शास्त्रः|स्वच्छन्दभैरवतन्त्र| दशमः पटलः २ स्वच्छन्दभैरवतन्त्र प्रथमः पटलः द्वितीयः पटलः तृतीयः पटलः चतुर्थः पटलः पञ्चमः पटलः षष्ठः पटलः सप्तमः पटलः अष्टमः पटलः नवमः पटलः दशमः पटलः १ दशमः पटलः २ दशमः पटलः ३ दशमः पटलः ४ दशमः पटलः ५ दशमः पटलः ६ दशमः पटलः ७ दशमः पटलः ८ दशमः पटलः ९ दशमः पटलः १० दशमः पटलः ११ दशमः पटलः १२ दशमः पटलः १३ एकादशः पटलः द्वादशः पटलः त्रयोदशः पटलः चतुर्दशः पटलः पञ्चदशः पटलः स्वच्छन्दभैरवतन्त्र - दशमः पटलः २ स्वच्छन्दभैरवतन्त्र हे एक असे तंत्र आहे, ज्यापासून प्रत्यक्ष भैरव मदतीला उभे राहतात. Tags : shastratantraतंत्रशास्त्रस्वच्छन्दभैरवतन्त्र दशमः पटलः २ Translation - भाषांतर निर्गमैः सगवाक्षैश्च दिव्यवस्त्रविभूषितैः ।तन्त्रीमुरजवाद्यैश्च गेयतूर्यरवाकुलैः ॥१०१॥नानाभुवनपङ्क्त्योघैः सर्वरत्नसमुज्ज्वलैः ।प्रासादैस्तुङ्गशिखरैश्चन्द्रातपसमप्रभैः ॥१०२॥रथ्यामार्गवरारामैः सदापुष्पफलान्वितैः ।कोकिलारावमधुरैः शिखिषट्पदसेवितैः ॥१०३॥हंसकारण्डवाकीर्णैश्चक्रवाकोपशोभितैः ।सारसारावसंघुष्ट- पद्मिनीषण्डमण्डितैः ॥१०४॥तडागैः स्वच्छतोयाढ्यैर्दीर्घिकाभिर्युतानि तु ।पुरुषैश्च महाकायैर्महाबलपराक्रमैः ॥१०५॥सर्वैश्वर्यस्वरूपाढ्यैः सर्वलक्षणसंयुतैः ।दिव्यवस्त्रैः सुताम्बूलैर्दिव्यगन्धानुलेपनैः ॥१०६॥दिव्याभरणसंयुक्तैर्मुकुटै रत्नमण्डितैः ।शिवाराधनसक्ता ये तत्प्रसादेन साधकाः ॥१०७॥ते विशन्ति महादेवि पातालं सिद्धसेवितं ।रसं रसायनं दिव्यं सिद्धद्रव्यं लभन्ति ते ॥१०८॥क्रीडन्ति चान्ये सततं दिव्यानां योषितां गणैः ।कामिनः कामरूपैस्तु मत्तमातङ्गगामिभिः ॥१०९॥सर्वाभरणसंयुक्तैः कामशास्त्रसुपेशलैः ।दिव्यवस्त्रपरीधानैः स्तनभारसमानतैः ॥११०॥मध्यक्षामैः प्रसन्नास्यैस्तरलायतलोचनैः ।सकिङ्किणीनितम्बैश्च हारकेयूरशोभितैः ॥१११॥सुगन्धिगन्धलिप्ताङ्गैः काञ्चीमेखलमण्डितैः ।एवं ते कथिता देवि पातालान्तरवासिनः ॥११२॥त्रयोऽसुरास्तथा नागा राक्षसाश्च विभागतः ।एकैकत्र च पाताले कथितास्ते वरानने ॥११३॥पातालसप्तके ज्ञेयास्तथान्ये भुवनाधिपाः ।बलोह्यतिबलश्चैव बलवान्बलविक्रमः ॥११४॥सुबलो बलभद्रश्च बलाध्यक्षश्च कीर्तिताः ।एतैः शुद्धैरिमे शुद्धाः सप्तपातालवासिनः ॥११५॥यदूर्ध्वे चैव सौवर्णं पातालं परिकीर्तितं ।तत्र वसत्यसौ देवो हाटकः परमेश्वरः ॥११६॥पुरकोटिसहस्रैस्तु समन्तात्परिवारितः ।सिद्धैरुद्रगणैर्दिव्यैर्भगिनीमातृभिर्वृतः ॥११७॥योगिनीयोगकन्याभी रुद्रैश्चैव सकन्यकैः ।सिद्धद्रव्यसमैर्मन्त्रैश्चिन्तामणिरसायनैः ॥११८॥सिद्धविद्यासमृद्धं वै हाटकेशस्य मन्दिरं ।हठत्प्रवेशयेल्लोकां स्तद्भावगतमानसान् ॥११९॥तेनासौ हाटकः प्रोक्तो देवदेवो महेश्वरः ।तस्योर्ध्वे तु सहस्राणि योजनानां तु विंशतिः ॥१२०॥भूकटाहः समुद्दिष्टः समन्तात्तु वरानने ।अतो भगवती पृथ्वी नानाजनपदाकुला ॥१२१॥तस्या मध्ये महामेरुः सौवर्णश्च वरानने ।तस्याचलस्य विस्तारं ऊर्ध्वाधः कथयामि ते ॥१२२॥योजनानां सहस्राणि चतुरशीतिरुच्छ्रितः ।षोडशैव सहस्राणि अधोभागे प्ररोपितः ॥१२३॥तान्येव मूलविस्तारः द्विगुणो मूर्धविस्तरः ।तस्योर्ध्वे तु सभा दिव्या नाम्ना चैव मनोवती ॥१२४॥चतुर्दशसहस्राणि योजनानां प्रमाणतः ।सर्वरत्नसुशोभाढ्या स्त्रीसहस्रसमन्विता ॥१२५॥सर्वभोगगणोपेता ब्रह्मणस्तु महात्मनः ।सिद्धविद्याधराकीर्णा ऋषिभिः परिवारिता ॥१२६॥तस्या ईशानदिग्भागे ज्योतिष्कं शिखरं स्मृतं ।सूर्यकोटिप्रतीकाशं गणप्रथमसेवितं ॥१२७॥सर्वर्तुकुसुमोपेतं देवगन्धर्वसेवितं ।स्त्रीसहस्रसमाकीर्णं सर्वैश्वर्यसमन्वितं ॥१२८॥तत्रास्ते भगवान्देवस्त्र्यम्बकः परमेश्वरः ।लोकपालैर्वृतोऽसौ हि ब्रह्मविष्ण्विन्द्रनायकः ॥१२९॥ममांशं तं विजानीयाः सुरसिद्धनमस्कृतं ।अधिकारं प्रकुरुते परेच्छासंप्रचोदितः ॥१३०॥सभाया ब्रह्मणोऽधस्तात्सहस्राणि चतुर्दश ।योजनानां परित्यज्य चक्रवाटः समन्ततः ॥१३१॥स्वर्गाष्टकं समुद्दिष्टं तत्र तिष्टन्ति लोकपाः ।पूर्वेणेन्द्रस्य विख्याता पुरी नाम्नामरावती ॥१३२॥तेजोवती तथाग्नेय्यां चित्रभानोः प्रकीर्तिता ।दक्षिणे यमराजस्य नाम्ना संयमनी पुरी ॥१३३॥कृष्णाङ्गारा तु नैऋत्यां राक्षसेशस्य कीर्तिता ।पश्चिमेन जलेशस्य नाम्ना शुद्धवती स्मृता ॥१३४॥वायव्यां तु पुरी वायोर्नाम्ना गन्धवहा प्रिये ।उत्तरेणापि सोमस्य पुरी नाम्ना महोदया ॥१३५॥ऐशान्यामीशराजस्य पुरी नाम्ना यशोवती ।एतासामुत्तरे देवि शृणु षड्विंशतिं पुरीः ॥१३६॥दक्षिणेनामरावत्याः कामवत्यप्सरः पुरी ।सौवर्णी सिद्धसङ्घानां तस्या वै दक्षिणेन तु ॥१३७॥तस्या वै दक्षिणेनान्या पद्मरागोपशोभिता ।आदित्यानां पुरीख्याता नाम्नाचांशुमती शुभा ॥१३८॥साध्यानां राजती दिव्या ख्याता वै कुसुमावती ।वह्नेः पश्चिमदिग्भागे विश्वेषां रेवती पुरी ॥१३९॥तस्यास्तु पश्चिमे देवि दिव्या वै विश्वकर्मणः ।पश्चिमे धर्मराजस्य मातृनन्दा पुरी स्मृता ॥१४०॥क्रीडन्ति मातरस्तत्र मधुपानविघूर्णिताः ।रुद्राणां पश्चिमे तस्या रोहिता नाम काञ्चनी ॥१४१॥तत्र शूलधरा रुद्रा यमस्य परिचारकाः ।तस्याः पश्चिमतो ज्ञेया नाम्ना गुणवती पुरी ॥१४२॥एकादशानां रुद्राणां वज्रप्राकारतोरणा ।निरृतेः पूर्वभागे तु पिङ्गला नाम वै पुरी ॥१४३॥स्वकर्मसंज्ञा देवेशि पिशाचास्तत्र संस्थिताः ।नैरृत्युत्तरसामीप्ये पुरी कृष्णावती स्मृता ॥१४४॥निस्त्रिंशा नाम तत्रैव वसन्ति राक्षसाः सदा ।तस्या अप्युत्तरे भागे पुरी हैमी सुखावती ॥१४५॥मित्रो वसति तत्रैव बहुभृत्यजनावृतः ।तस्या अप्युत्तरे हैमी गान्धर्वी नाम विशृता ॥१४६॥वसन्ति तत्र गन्धर्वा दिव्यकन्यासमावृताः ।दशकोटिसहस्राणि तेषां संख्या प्रकीर्तिता ॥१४७॥भूतानां सिद्धसेना तु वरुणस्य तु दक्षिणे ।हेमसंज्ञा वसूनां तु वरुणस्यापि चोत्तरे ॥१४८॥तस्यास्तूत्तरतो देवि नाम्ना सिद्धवती पुरी ।सर्वविद्याधराणां तु सा पुरी परिकीर्तिता ॥१४९॥वायोर्दक्षिणतो देवि सिद्धा नाम्ना पुरी स्मृता ।वसन्ति किन्नरास्तत्र पुरैर्हेमार्कसप्रभैः ॥१५०॥वायोः पूर्वेण गान्धर्वी हैमी चित्ररथस्य तु ।गन्धर्वराजमुख्यस्य दिव्यगन्धर्वनादिता ॥१५१॥आस्ते भगवती साक्षात्सप्रस्वरविभूषिता ।ग्रामत्रयपरीधाना जातिमेखलमण्डिता ॥१५२॥मूर्च्छनातानचित्राङ्गी नानातालकलोदया ।लक्षणव्यञ्जनोपेता मध्यमेनावगुण्ठिता ॥१५३॥गन्धर्वैर्गीयमाना सा तत्र देवी सरस्वती ।नारदाद्यैश्च ऋषिभिर्नागकिन्नरसेविता ॥१५४॥तस्याःपूर्वेण चित्रा वै तुम्बुरुर्नारदस्य च ।सोमस्य पश्चात्प्रमदा गुह्यकानां पुरी स्मृता ॥१५५॥पूर्वेणैव तु सोमस्य नाम्ना चित्रवती पुरी ।सर्वधातुमयी चित्रा कुबेरस्य महात्मनः ॥१५६॥षड्विंशतिसहस्रैस्तु कोटीनां परिवारितः ।यक्षाणामुत्तमः श्रीमानास्ते भोगैरनुत्तमैः ॥१५७॥तस्या पूर्वे शुभा नाम्ना जाम्बूनदमयी पुरी ।तत्र वै कर्मदेवास्तु देवत्वं कर्मणा गताः ॥१५८॥पश्चिमेनेशराजस्य विष्णोर्वै श्रीमती पुरी ।तत्रास्ते श्रीपतिः श्रीमानतसीपुष्पसन्निभः ॥१५९॥शङ्खचक्रगदापाणिः पीतवासा जनार्दनः ।ईशस्य दक्षिणेभागे नाम्ना पद्मवती पुरी ॥१६०॥महापद्मोपविष्टस्य पद्ममालाधरस्य तु ।पद्मपत्रायताक्षस्य ब्रह्मणः पद्मजन्मनः ॥१६१॥तस्या दक्षिणतो देवि नाम्ना कामसुखावती ।अश्विनौ तत्र देवेशि तथा धन्वन्तरिः स्थितः ॥१६२॥उत्तरेत्वमरावत्या महामेघेति विश्रुता ।विनायकानां सा दिव्या वसतिस्तत्र कल्पिता ॥१६३॥दशकोटिसहस्राणि वीर्यवन्तः शुभास्तथा ।विनायका महादीप्ता अग्निज्वलिततेजसः ॥१६४॥असुराणां वधार्थाय अङ्गुष्ठान्निर्मिता मया ।एवंविधैरधश्चोर्ध्वं मेरुः पुरवरैर्वृतः ॥१६५॥पुर्यश्च याः समाख्याता मेरोश्चैव समन्ततः ।पुरकोटिसहस्रैस्तु सर्वास्ताः संभृताः प्रिये ॥१६६॥सर्वैश्वर्यसुसंपूर्णाः सर्वरत्नसमुज्ज्वलाः ।दिव्यस्त्रीभिः समाकीर्णा दिव्यपुंभिः समाकुलाः ॥१६७॥आनन्दः सततं देवि देवानां च पुरे पुरे ।विमाननगरारामैश्चतुरोद्यानमण्डपैः ॥१६८॥छत्रध्वजपताकाभिर्गजवाजिसमाकुलैः ।द्वन्द्वभीनन्दिशब्दैश्च शङ्खकाहलनिःस्वनैः ॥१६९॥गीतनृत्तैस्तथाकीर्णं देवानां मन्दिरं सदा ।इष्टापूर्तरता देवि ये नरा पुण्यभारते ॥१७०॥त्र्यम्बकं सकृदर्चन्ति मेरुं गच्छन्ति ते नराः ।गङ्गातोयसुसंसिक्ताः क्रीडन्ति सुरसत्तमाः ॥१७१॥कथं गङ्गासमुत्पन्ना सुरसिद्धनमस्कृता ।कथयस्व प्रसादेन समासात्सुरसत्तम ॥१७२॥गङ्गायाश्च समुत्पत्तिं कथयिष्यामि सुव्रते ।जगन्माता महादेवि मम पत्नी पुरा हि सा ॥१७३॥ममनेत्रोदकं चैव करजैश्छादिते मम ।पुनरुद्घाटिते नेत्रे जगन्मातः पुरा त्वया ॥१७४॥मन्नेत्रेभ्योऽस्रवत्तोयं त्वदीयाङ्गुलिभिः प्रिये ।दशधा निःसृता गङ्गा कपालावरणे मम ॥१७५॥सप्तैव संस्थितास्तत्र एका विष्णुपुरे स्थिता ।द्वितीया ब्रह्मलोकोर्ध्वे तृतीया सत्यलोकगा ॥१७६॥स्वर्गे चैवपुनः सा वै संस्थिता सोममण्डले ।सोमाच्चैव विनिः सृत्य पुरकाशे व्यवस्थिता ॥१७७॥ततोऽहं संस्तुतो देवि ब्रह्मविष्णुपुरःसरैः ।गङ्गानदीं महापुण्यां मर्त्यानां हितकाम्यया ॥१७८॥अवतार्य महादेव मर्त्यलोकं विसर्जय ।ततो मया सुरेशानि प्रोक्ता सा त्वपराजिता ॥१७९॥लोकानां तु हितार्थाय आगच्छ सुरसुन्दरि ।आगत्य मम मूर्धानं मेरुमूर्ध्नि पुनर्गता ॥१८०॥तस्मान्निर्गत्य देवेशि चतुर्दिक्षूदधिं गता ।पूर्वे सीता समुद्दिष्टा सुवहा दक्षिणेन तु ॥१८१॥सुनन्दा पश्चिमे भागे भद्रसोमा तथोत्तरे ।मन्दरस्तु महादेवि गन्धमादनसंज्ञकः ॥१८२॥विपुलश्च सुपार्श्वश्च पूर्वाद्या उत्तरान्तकाः ।विष्कम्भाश्च समाख्याताः वर्णांश्चैव निबोध मे ॥१८३॥सितं चैव हरिद्राभं नीलं दाडिमसप्रभं ।प्राग्विष्कम्भसमीपे तु नाम्ना चित्ररथं वनं ॥१८४॥तत्रारुणोदकं नाम तडागं पद्ममण्डितं ।गन्धमादनसामीप्ये नन्दनं तु महावनं ॥१८५॥तस्यमध्येऽम्बुजच्छन्नं मानसं तु सरोवरं ।विपुलस्य समीपे तु वैभ्राजं तु महावनं ॥१८६॥सितोदं तस्य मध्ये तु तडागं विमलोदकं ।वनं पितृवनं नाम स्वपार्श्वस्य समीपतः ॥१८७॥तस्यान्तस्तु महाभद्रं तडागं च मनोरमं ।कल्पद्रुमांश्च चतुरः कथयामि निबोध तान् ॥१८८॥मन्दरेऽथ कदम्बं स्यान्मस्तके तु व्यवस्थितं ।सहस्रयोजनायामं शाखापञ्चशतोच्छ्रितं ॥१८९॥पुष्पैः कुम्भप्रमाणैश्च भ्राजते तत्सुपुष्पितं ।तत्प्रमाणा स्मृता जम्बूर्गन्धमादनमूर्धनि ॥१९०॥तस्याः फलसमूहोत्थो रसो ज्ञेयोऽमृतोपमः ।तेन जम्बूनदी जाता प्रिये वेगवती भृशं ॥१९१॥मेरुं प्रदक्षिणीकृत्य जम्बूमूलं विशेत्स्वकं ।तत्संपर्कात्समुत्पन्नं कनकं देवभूषणं ॥१९२॥तेन जाम्बूनदं लोके ज्ञायते भूषणोत्तमं ।तत्र वृक्षालतागुल्माः पक्षिणः श्वापदादयः ॥१९३॥जाम्बूनदमयाः सर्वे ये चान्ये तत्रवासिनः ।विपुलेऽपि तथाश्वत्थः केतुमाल इति श्रुतः ॥१९४॥तस्येन्द्रेणासुराञ्जित्वा रत्नमाला प्रलम्बिता ।तेनासौ केतुमालेति ख्यातः सिद्धनिषेवितः ॥१९५॥न्यग्रोधश्च सुपार्श्वे तु तत्तुल्यः परिकीर्तितः ।अनेकगुणसंपन्नो मेरुः ख्यातः समासतः ॥१९६॥तत्पार्श्वस्थान्प्रिये देशान्काथयामि समासतः ।मेरुमध्याच्चतुर्दिक्षु लक्षार्धं तु समासतः ॥१९७॥लवणोदधिपर्यन्तं जम्बुद्वीपं समन्ततः ।पर्वतान्तरितास्तत्र नव भागा भवन्ति हि ॥१९८॥दक्षिणे चैव दिग्भागे त्रयो ज्ञेया महीधराः ।निषधो हेमकूटश्च हिमवानिति ते त्रयः ॥१९९॥उत्तरे चापि मेरुस्तु नीलः श्वेतोऽथ शृङ्गवान् ।प्राक्पश्चिमायाता ह्येते षडेव तु महीधराः ॥२००॥ N/A References : N/A Last Updated : June 16, 2012 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP