संस्कृत सूची|शास्त्रः|तंत्र शास्त्रः|स्वच्छन्दभैरवतन्त्र| दशमः पटलः ६ स्वच्छन्दभैरवतन्त्र प्रथमः पटलः द्वितीयः पटलः तृतीयः पटलः चतुर्थः पटलः पञ्चमः पटलः षष्ठः पटलः सप्तमः पटलः अष्टमः पटलः नवमः पटलः दशमः पटलः १ दशमः पटलः २ दशमः पटलः ३ दशमः पटलः ४ दशमः पटलः ५ दशमः पटलः ६ दशमः पटलः ७ दशमः पटलः ८ दशमः पटलः ९ दशमः पटलः १० दशमः पटलः ११ दशमः पटलः १२ दशमः पटलः १३ एकादशः पटलः द्वादशः पटलः त्रयोदशः पटलः चतुर्दशः पटलः पञ्चदशः पटलः स्वच्छन्दभैरवतन्त्र - दशमः पटलः ६ स्वच्छन्दभैरवतन्त्र हे एक असे तंत्र आहे, ज्यापासून प्रत्यक्ष भैरव मदतीला उभे राहतात. Tags : shastratantraतंत्रशास्त्रस्वच्छन्दभैरवतन्त्र दशमः पटलः ६ Translation - भाषांतर ततः सोमस्तु लक्षेण आदित्योपरिसंस्थितः ।आप्याययञ्जगत्सर्वं सुधाधाराप्रवर्षणैः ॥५०१॥चन्द्ररूपेण तपति क्रियाशक्तिः शिवस्य तु ।इन्दूर्ध्वे लक्षमात्रेण स्थितं नक्षत्रमण्डलं ॥५०२॥लक्षद्वयेन तस्योर्ध्वं संस्थितो भूमिनन्दनः ।लक्षद्वयेन तस्योर्ध्वे संस्थितः सोमनन्दनः ॥५०३॥सुराचार्योऽपि तस्योर्ध्वे द्विलक्षेणैव संस्थितः ।तस्योर्ध्वेऽपि द्विलक्षेण तिष्ठते भृगुनन्दनः ॥५०४॥तस्योपरि द्विलक्षेण सौरिः सर्पति लीलया ।लक्षमात्रेण तु ऋषीन्कथयामि समासतः ॥५०५॥अत्रिश्चैव वसिष्ठश्च पुलस्त्यः पुलहः क्रतुः ।भृग्वङ्गिरामरीचिश्च ऋषयः संप्रकीर्तिताः ॥५०६॥यमनियमतोह्येते शापानुग्रहकारकाः ।भीताश्च परपीडायाः शूराः शास्त्रविचारणे ॥५०७॥ज्ञानखड्गोद्यताः सर्वे त्वज्ञानपटलापहाः ।मन्त्रयोगक्रियाचार्या संनद्धा दुरतिक्रमाः ॥५०८॥योगैश्वर्यगुणोपेताः शिवाराधनतत्पराः ।तेभ्यो लक्षाध्रुवो देवि तारकाः स चतुर्दश ॥५०९॥शरीरं घटितं ताभिर्ध्रुवस्य वरवर्णिनि ।ब्रह्मैवापररूपेण ब्रह्मस्थाने नियोजितः ॥५१०॥तस्यज्योतिर्गणो देवि निबद्धोभ्रमते सदा ।निश्चलः स तु विज्ञेयः शिवशक्त्यात्वधिष्ठितः ॥५११॥दशपञ्च च लक्षाणि ध्रुवान्तं भूमिमण्डलाथ् ।वायुस्कन्धान्स्थितांस्त्वत्र कथयामि समासतः ॥५१२॥आमेघाद्भास्करात्सोमान्नक्षत्राद्ग्रहमण्डलाथ् ।ऋषिसप्तकनिर्देशादाध्रुवान्तं च सप्तमः ॥५१३॥आदित्यादिघ्रुवान्तश्च स्वर्लोकः परिकीर्तितः ।अत्र राजा महेन्द्रो वै तिष्ठते सुरपूजितः ॥५१४॥ऋषिदेवैः सगन्धर्वैर्वृतश्चाप्सरसां गणैः ।अग्निहोत्रं क्रतून्वापि कृत्वा ज्ञानविवर्जिताः ॥५१५॥स्वर्लोकं तु नरा यान्ति पुनरायान्ति मानुषं ।स्वर्लोकस्योपरिस्टात्तु द्वे कोटी योजनानि तु ॥५१६॥पञ्चाशीतिश्च लक्षाणि महर्लोको वरानने ।ऋषयश्चैव सिद्धाश्च मार्कण्डाद्या वसन्ति वै ॥५१७॥कोट्यष्टकं महादेवि योजनानां वरानने ।महर्लोकोपरिष्टात्तु जनलोकोव्यवस्थितः ॥५१८॥एकपादोऽथ जह्नुश्च कपिलश्चासुरिस्तथा ।भौतिको वाड्वलिश्चैव जनलोकनिवासिनः ॥५१९॥द्वादशैव तथा कोट्यो जनलोकोर्ध्वतः प्रिये ।तपोलोकः समाख्यात ऋषियोगेश्वराकुलः ॥५२०॥सनकश्चसनन्दश्च सनत्कुमारः सनन्दनः ।शङ्कुश्चैव त्रिशङ्कुश्च तपोलोकनिवासिनः ॥५२१॥पद्माः षट्पञ्चपञ्चाशत्कोट्यो लक्षाणि विंशतिः ।भूर्लोकान्तं समारभ्य यावत्सत्यं वरानने ॥५२२॥इयं संख्या समाख्याता भुवनानां वरानने ।कोट्यः षोडशमानेन तपोलोकोर्ध्वतः प्रिये ॥५२३॥सत्यलोकः समाख्यातो यत्र ब्रह्मा स्वयं स्थितः ।क्रीडते भगवान्देवो वृत आत्मसमैर्द्विजैः ॥५२४॥कर्मज्ञानेन संसिद्धा अद्वैतपरिनिष्ठिताः ।आनन्दपदसंप्राप्ता आनन्दपदमागताः ॥५२५॥ऋग्वेदोमूर्तिमांस्तस्मिन्निन्द्रनीलसमद्युतिः ।दिव्यगन्धविलिप्ताङ्गो दिव्याभरणभूषितः ॥५२६॥संस्थितः पूर्वतस्तस्य दीप्यमानः स्वतेजसा ।उत्तरेण यजुर्वेदः शुद्धस्फटिकसंनिभः ॥५२७॥दिव्यकुण्डलधारी च महाकायोमहाभुजः ।स्थितः पश्चिमदिग्भागे सामवेदः सनातनः ॥५२८॥रक्ताम्बरधरः श्रीमान्पद्मरागसमप्रभः ।स्रग्दामधारकश्चित्रं आलाभूषणभूषितः ॥५२९॥अथर्वाञ्जनवच्छ्यामः स्थितो दक्षिणतस्तथा ।पिङ्गाक्षो लोहितग्रीवो हरिकेशो महातनुः ॥५३०॥षडङ्गानीतिहासाश्च पुराणान्यखिलानि तु ।वेदोपनिषदश्चैव मीमांसारण्यकं तथा ॥५३१॥स्वाहाकारवषट्कारौ रहस्यानि तथैव च ।गायत्री च स्थिता तत्र यत्र देवश्चतुर्मुखः ॥५३२॥भोगस्थानं ब्रह्मणः स्यात्परं ब्रह्म ततो व्रजेथ् ।कोटियोजनमानेन सत्यलोकोर्ध्वतः प्रिये ॥५३३॥ब्रह्मासनमितिख्यातं जपासिन्दूरसप्रभं ।रक्तेन्दीवरमध्यस्थः पद्मरागसमप्रभः ॥५३४॥चतुर्मुखश्चतुर्वेदश्चतुर्युगवशानुगः ।ब्रह्मविद्भिः समाकीर्णो ब्रह्मा मुनिनिषेवितः ॥५३५॥ऐश्वर्याष्टकसंयुक्तः षड्विधसृष्टिकारकः ।धर्मादिफलसंबन्ध- प्रदाता च युगे युगे ॥५३६॥तिर्यङ्नारकिसत्त्वानां दिव्यानां मनुजैः सह ।स्रष्टा च सर्वभूतानां सदेवासुरमानुषे ॥५३७॥कोटिद्वयं तदूर्ध्वे तु योजनानां वरानने ।नीलेन्दीवरसंकाशा इन्द्रनीलसमप्रभा ॥५३८॥ब्रह्मलोकात्परत्वेन विष्णोश्चैव पुरीस्मृता ।सर्वकामसमोपेता सर्वरत्नसमुज्ज्वला ॥५३९॥मरकतस्तम्भसोपाना नीलध्वजसमाकुला ।घण्टावितानविस्तीर्णा चारुचामरशोभिता ॥५४०॥नीलोत्पलदलप्रख्यैः कन्यावृन्दैः समावृता ।कामकार्मुकनिर्घोष- वित्रस्तमृगलोचनैः ॥५४१॥नूपुरारावमुखरैः स्खलद्भिर्मृदुविभ्रमैः ।मनोभवशरायास निपातशतजर्जरैः ॥५४२॥सुघूर्णितमदायास- विलोलधवलेक्षणैः ।संसेव्यते स भगवान्विष्णुः कमललोचनः ॥५४३॥इन्द्रनीलसमाकारो निलोत्पलदलप्रभः ।चतुर्भुजो महाकायः पीनवक्षा गदाधरः ॥५४४॥किरीटीकुण्डलीशङ्खी प्रजापालनतत्परः ।संसेव्यते स भगवान्निकायैरात्मविक्रमैः ॥५४५॥विष्णुभक्ताश्च ये नित्यं ध्यानपूजाजपे रताः ।ते तु गच्छन्ति तत्स्थानं विष्णोरमितविक्रमाः ॥५४६॥सप्तकोट्यस्तदूर्ध्वं वै रुद्रलोको व्यवस्थितः ।शुद्धस्फटिकसंकाशश्चत्वरोद्यानमण्डितः ॥५४७॥सहस्रभूमिकाभिश्च हर्म्यमालाभिरूर्जितः ।विमानैः पुष्पकैर्युक्तो हंसकुन्देन्दुनिर्मलैः ॥५४८॥वनोपवनषण्डैश्च सर्वर्तुकुसुमोज्ज्वलैः ।मारुताःसुखसंस्पर्शा वर्तिकर्पूरगन्धयः ॥५४९॥नदीनदह्रदाकीर्णः पद्मिनीषण्डमण्डितः ।वरेण्यावरदाचैव वरिष्ठा वरवर्णिनी ॥५५०॥वसिष्ठा च वराहा च वरारोहा च सप्तमी ।गङ्गाह्येताः समाख्याता रुद्रलोकवहाः सदा ॥५५१॥लक्षपत्रदलाढ्यैश्च सितपद्मैर्विभूषिताः ।इन्द्रनीलनिभैर्नालैर्योजनायतगन्धिभिः ॥५५२॥स्त्रीसहस्रकदम्बाढ्याः पुष्पप्रकरधूसराः ।शरदिन्दुनिभानार्यो नवनीतसुकोमलाः ॥५५३॥सुभ्रूललाटवदनाः कृशोदर्यो मदालसाः ।अलिपुञ्जनिभैः केशैर्मृगामोदसुगन्धिभिः ॥५५४॥प्रलम्बश्रवणाधाराः पद्मपत्रायतेक्षणाः ।दाडिमीपुष्पसंकाशैरोष्ठैरुत्पलगन्धिभिः ॥५५५॥रम्भानिभाभिर्जङ्घाभिर्बाहुभिर्बिसकोमलैः ।अशोकपल्लवाकारैः पादैः पद्मदलोपमैः ॥५५६॥नखैश्च केतकीप्रख्यैर्दशनैर्मौक्तिकोज्ज्वलैः ।स्वभावसुसुगन्धाढ्यैः प्रस्रवद्भिरिवामृतं ॥५५७॥हारकेयूरकटकैः सीमन्तमणिजालकैः ।काञ्चीडोरैः सुरक्तैश्च कुसुमैर्भूषिताः सदा ॥५५८॥तारकुम्भनिभाकारैरुन्नतैश्च पयोधरैः ।सुवृत्तैः पीनपार्श्वैश्च पीनकण्ठसमाश्रितैः ॥५५९॥गुरुश्रेणीभराक्रान्ता मुक्तावलिविराजिताः ।राजहंसगतिस्पर्धि मत्तमातङ्गविभ्रमाः ॥५६०॥नूपुरारावमुखर- प्रस्खलन्मृदुविक्रमाः ।हास्यलास्यविलासाढ्य- भ्रूभङ्गतरलेक्षणाः ॥५६१॥ह्लादयन्तीव गात्राणि रुद्राणां तन्निवासिनां ।कामग्रहग्रहाविष्टा घूर्णन्त्यो मदविह्वलाः ॥५६२॥%घूर्णन्त्यो?परिष्वजनमात्रेण मोदयन्त्यो गणेश्वरान् ।यद्यप्येवंविधानार्यः निजभर्तृभयातुराः ॥५६३॥वित्रस्तमृगनेत्रास्तु भर्तुरुत्सङ्गमागताः ।अवगूह्य च सर्वाङ्गैरापीय वदनैर्मुखं ॥५६४॥क्रीडन्तिरुद्रभवने रुद्रकन्याः सरुद्रकाः ।रुद्राश्चैवंविधाकारा ज्ञानयोगबलोत्कटाः ॥५६५॥मुकुटैः कुण्डलैश्चित्रैर्महारत्नसमुज्ज्वलैः ।केयूरकटकैर्डोरैः पुष्पवस्त्रविभूषणैः ॥५६६॥मुक्ताफलावलीहारैर्ब्रह्मसूत्रोत्तरीयकैः ।महाकाया महोरस्कास्त्रिनेत्राः शूलपाणयः ॥५६७॥चन्द्रायुतप्रतीकाशाः कर्पूरक्षोदधूसराः ।सुरसिद्धनुताःसर्वे सुप्रसन्न वरप्रदाः ॥५६८॥हरलब्धवरास्तृप्ता दशबाह्विन्दुमौलयः ।न तत्र मृत्युर्न जरा न शोकोऽस्ति वियोगजः ॥५६९॥क्रीडन्तिसार्धंकन्याभिः संसारभयवर्जिताः ।अधिकारक्षये रुद्रा रुद्रकन्यासमावृताः ॥५७०॥श्रीकण्ठस्येच्छया सर्वे शिवंयान्तितनुक्षये ।गत्वा भूयो न जायन्ते कल्पकोटिशतैरपि ॥५७१॥एवंविधैरसंख्यातैर्विमानरथगामिभिः ।महावृषगजारूढैः सिंहवाजिसुवाहनैः ॥५७२॥लक्षायुतसहस्रैस्तु रुद्रकोटिभिरावृतं ।तन्मध्येसर्वतोभद्रं सिंहद्वारैः सुतोरणैः ॥५७३॥स्वच्छमौक्तिकसंकाश- प्राकारशिखरावृतं ।नन्दीश्वरमहाकाल द्वारपालगणैर्वृतं ॥५७४॥किंकिणीजालमुखरैः पताकाध्वजसंकुलैः ।वितानच्छत्रषण्डैश्च मुक्ताहारप्रलम्बितैः ॥५७५॥घण्टाचामरशोभाड्यं दर्पणैश्चोपशोभितं ।कलशैर्द्वारन्यस्तैश्च रत्नपल्लवसंयुतैः ॥५७६॥रचितैश्चित्रशास्त्रज्ञैरत्नचूर्णसमुज्ज्वलैः ।स्वस्तिकैः पत्रवल्याढ्यैश्चित्रितं भुवनाजिरं ॥५७७॥शतसिंहासनाकीर्णं वेदिकारत्नभूषितं ।गोपुराट्टालरथकैर्वीथीभिश्च भ्रमान्त्रकैः ॥५७८॥सर्वरत्नविचित्राढ्यैर्द्वारबद्धैः सुशोभनं ।निर्गमैःसुगवाक्षैश्च विटङ्कैःस्फटिकप्रभैः ॥५७९॥स्तम्भैःसोपानबद्धैश्च वज्रवैडूर्यसप्रभैः ।पूर्णचन्द्रनिभाकारैरण्डैः शिखरमण्डितैः ॥५८०॥मुक्ताफलप्रभाभिश्च भूमिभिश्च सहस्रशः ।नाट्यशालैः सुशोभाढ्यैर्नृत्तगीतरवाकुलैः ॥५८१॥मण्डपैरत्नचित्राढ्यैः सभामण्डलनिर्भरैः ।आसीनैरुद्रवृन्दैश्च रुद्रकन्याकदम्बकैः ॥५८२॥मत्तवारणकै रम्यैश्चन्द्रशालासुशोभनैः ।धूपितं धूपवर्तीभिः कुङ्कुमोदकसेचितं ॥५८३॥चित्रपट्टैस्तु संछन्नं पुष्पप्रकरसंकुलं ।तूर्यशब्दजयध्वान- काहलाकूजितेन च ॥५८४॥वंशवीणामृदङ्गैश्च गोमुखैर्मुखवादनैः ।पणवैस्तालवाद्यैश्च शङ्खभेरीरवेण च ॥५८५॥दुन्दुभीनादशब्देन मुरजस्फालनेन च ।करस्फोटमहाशब्दैः सिंहनादप्रगुञ्जितैः ॥५८६॥गर्जद्भिर्गणवृन्दैश्च मेघस्तनितनिःस्वनैः ।वन्दिनांस्तोत्रशब्देन सामवेदरवेण च ॥५८७॥हुडुङ्काराट्टहासैश्च गेयझंकारयोजितैः ।वृषनन्दितशब्देन गजवाजिरवेण च ॥५८८॥काञ्चीनूपुरशब्देन नदतीव महत्पुरं ।सर्वसंपत्करं श्रीमच्- छङ्करस्य तु मन्दिरं ॥५८९॥अत्रासौभगवान्रुद्रो ब्रह्मविष्ण्विन्द्रपूजितः ।गङ्गायास्नपितोनित्यं दिव्यवस्त्राम्बरच्छदः ॥५९०॥पृथिव्यागन्धलिप्ताङ्गः श्रियापुष्पैः सुपूजितः ।सप्तस्वरप्रमुख्यैश्च सरस्वत्या च संस्तुतः ॥५९१॥पूर्णेन्दुरातपत्रं च स्वयमेव व्यवस्थितः ।गङ्गातूत्तरिकाच्छत्रे सर्वादित्याश्च दीपकाः ॥५९२॥पुष्पदन्तगणेशाद्यैरासनं तस्य संवृतं ।कपिलः कर्कटश्चैव विमर्दः कङ्कटस्तथा ॥५९३॥विक्रमश्चदृढश्चैव निष्कम्पो निष्कलस्तथा ।अष्टौ ते हरयःप्रोक्तास्त्रिनेत्रा भूरिविक्रमाः ॥५९४॥सिंहरूपाःसुतेजस्काः सटाविकटभास्वराः ।शक्तिरूपधरैर्मन्त्रैर्योगैश्वर्यसमन्वितैः ॥५९५॥आसनंविवृतंतैस्तु महोत्साहैर्बलोत्कटैः ।तत्रभद्रासने रुद्रः स्थितश्चन्द्रार्धशेखरः ॥५९६॥सर्वलक्षणसंपूर्णः सर्वाभरणभूषितः ।त्र्यक्षोदशभुजोदेवो जटामुकुटमण्डितः ॥५९७॥पीनवक्षःस्थलोरुश्च पीनस्कन्धो महाभुजः ।बद्धपद्मासनासीनः कर्पूरक्षोदधूसरः ॥५९८॥वरदाभयपाणिश्च सर्वायुधधरस्तथा ।शतपत्राङ्कितैश्चैव हस्तपादैः सुकोमलैः ॥५९९॥चन्द्रबिम्बनखाभाभिरङ्गुलीभिरलंकृतैः ।सुश्लिष्टजानुगुल्फैश्च पादैश्चैव समुन्नतैः ॥६००॥ N/A References : N/A Last Updated : June 16, 2012 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP