संस्कृत सूची|शास्त्रः|तंत्र शास्त्रः|स्वच्छन्दभैरवतन्त्र| दशमः पटलः ३ स्वच्छन्दभैरवतन्त्र प्रथमः पटलः द्वितीयः पटलः तृतीयः पटलः चतुर्थः पटलः पञ्चमः पटलः षष्ठः पटलः सप्तमः पटलः अष्टमः पटलः नवमः पटलः दशमः पटलः १ दशमः पटलः २ दशमः पटलः ३ दशमः पटलः ४ दशमः पटलः ५ दशमः पटलः ६ दशमः पटलः ७ दशमः पटलः ८ दशमः पटलः ९ दशमः पटलः १० दशमः पटलः ११ दशमः पटलः १२ दशमः पटलः १३ एकादशः पटलः द्वादशः पटलः त्रयोदशः पटलः चतुर्दशः पटलः पञ्चदशः पटलः स्वच्छन्दभैरवतन्त्र - दशमः पटलः ३ स्वच्छन्दभैरवतन्त्र हे एक असे तंत्र आहे, ज्यापासून प्रत्यक्ष भैरव मदतीला उभे राहतात. Tags : shastratantraतंत्रशास्त्रस्वच्छन्दभैरवतन्त्र दशमः पटलः ३ Translation - भाषांतर नीलश्च निषधश्चैव लक्षयामौ प्रकीर्तितौ ।श्वेतश्च हेमकूटश्च सहस्रनवतिः स्मृतौ ॥२०१॥हिमवान्शृङ्गवांश्चैव सहस्राशीतिरेव तु ।लवणोदधिपर्यन्ताः सहस्रद्वयविस्तृताः ॥२०२॥कैलासयुक्तो हिमवांस्त्रिशृङ्गश्च सजारुधिः ।शृङ्गवांश्चन्द्रकनिभः सितः श्वेतो विराजते ॥२०३॥नीलरत्नमयो नीलो निषधः पद्मरागभः ।सौवर्णो हेमकूटश्च हिमाभो हिमवानिति ॥२०४॥पूर्वेण माल्यवान्मेरोः पर्वतस्तु विराजते ।चतुस्त्रिंशत्सहस्राणि योजनानां सुरेश्वरि ॥२०५॥याम्योत्तरायतो भाति सहस्रं तस्य विस्तृतिः ।तथैवापरदिग्भागे तत्तुल्यो गन्धमादनः ॥२०६॥नीलश्च निषधश्चैव माल्यवान्गन्धमादनः ।चत्वारिंशत्सहस्राणि योजनानां समुच्छ्रिताः ॥२०७॥चतुर्दिक्षु गतौ मेरोर्द्वौ द्वौ सीमान्तपर्वतौ ।जठरो हेमकूटस्तु पूर्वभागे व्यवस्थितौ ॥२०८॥कैलासो हिमवांश्चैव दक्षभागे व्यवस्थितौ ।निषधः पारियात्रश्च अपरेण महीधरौ ॥२०९॥जारुधिः शृङ्गवांश्चैव उत्तरेण व्यवस्थितौ ।मेरोः समन्ततो रम्यं इलावृतमुदाहृतं ॥२१०॥अधस्ताच्चक्रवाटस्य नवसाहस्रविस्तृतं ।योजनानां चतुर्दिक्षु चतुरश्रं समन्ततः ॥२११॥नातपो भानुजस्तत्र न च सोमस्य रश्मयः ।प्रभवन्ति हि लोकानां मेरोर्भासा प्रभासितं ॥२१२॥प्रत्यग्राम्बुजपत्राभा जनाश्चातीव कोमलाः ।जम्बूरसफलाहारा जरामृत्युविवर्जिताः ॥२१३॥त्रयोदशाब्दसाहस्रं तेषामायुः प्रकीर्तितं ।देवगन्धर्वसिद्धाश्च ऋषयोऽथ विनायकाः ॥२१४॥गणमातृभगिन्यश्च वेताला राक्षसादयः ।एवमाद्यैरसंख्यातैर्वृतं चैतदिलावृतं ॥२१५॥गन्धमादनवारुण्यां समुद्रस्य च पूर्वतः ।केतुमालमिति ख्यातं वर्षं सर्वगुणोत्तमं ॥२१६॥नीलोत्पलदलश्यामा जनास्तत्र सुशोभनाः ।पनसस्य रसं पीत्वा जीवन्त्ययुतमेव च ॥२१७॥जयन्तो वर्धमानश्च अशोको हरिपर्वतः ।विशालः कम्बलः कृष्णस्तत्र सप्त कुलाद्रयः ॥२१८॥माल्यवत्पूर्वभागेन समुद्रस्यापरेण तु ।वर्षं भद्राश्वसंज्ञं च तत्रापि त्वयुतायुषः ॥२१९॥जनाश्चन्द्रप्रतीकाशाः कालाम्रफलभोजनाः ।कौरञ्जः श्वेतपर्णश्च नीलो मालाग्रकस्तथा ॥२२०॥पद्मश्चैव समाख्यातास्तत्र पञ्च कुलाद्रयः ।द्वात्रिंशत्तु सहस्राणि पूर्वपश्चायते स्मृते ॥२२१॥चतुस्त्रिंशत्सहस्राणि दक्षिणोदक्समायते ।वर्षे द्वे तु समाख्याते कुरुवर्षनिवासिनः ॥२२२॥कुरवोनामलोकास्ते कुरुवृक्षफलाशिनः ।त्रयोदशसहराणि जीवन्ति स्थिरयौवनाः ॥२२३॥युग्मं युग्मं प्रसूयन्ते वियोगभयवर्जिताः ।श्यामापुष्पनिभाः स्निग्धाः सुरूपाः पुरुषाः स्त्रियः ॥२२४॥सर्वरत्नमयी भूमिर्हिमवालुकया चिता ।नवयोजनसाहस्रं धन्वाकारं प्रकीर्तितं ॥२२५॥सूर्यकान्तेन्दुकान्तौ च द्वौ तत्र कुलपर्वतौ ।कल्पवृक्षः कुरुर्नाम तत्रैव कुसुमोज्ज्वलः ॥२२६॥तस्य नाम्ना तु तज्ज्ञेयं कुरुवर्षं सुशोभनं ।तस्यचोत्तरदिग्भागे प्रविश्य लवणोदधिं ॥२२७॥पञ्चयोजनसाहस्रं चन्द्रद्वीपं प्रकीर्तितं ।तथा वायव्यदिग्भागे प्रविश्य लवणोदधिं ॥२२८॥योजनानां सहस्राणि चत्वार्येव वरानने ।दशयोजनसाहस्रं द्वीपं भद्रं प्रकीर्तितं ॥२२९॥भद्राकारमिति ज्ञेयं सर्वकामफलप्रदं ।अयुतायुषो जनास्तत्र दिव्यामृतफलाशिनः ॥२३०॥चन्द्राख्येऽप्ययुतं चायुर्जीवन्ति फलभोजिनः ।श्वेतशृङ्गवतोश्चैव मध्ये ज्ञेयं हिरण्मयं ॥२३१॥लकुचस्य फलं प्राश्य जनास्तत्रेन्दुसन्निभाः ।जीवन्त्यब्दसहस्राणि मानेनार्धत्रयोदश ॥२३२॥नीलस्योत्तरदिग्भागे तथा श्वेतस्य दक्षिणे ।रम्यकं नाम वर्षं तु न्यग्रोधफलभोजनाः ॥२३३॥नीलोत्पलदलश्यामा जरारोगविवर्जिताः ।द्वादशाब्दसहस्राणि तेषामायुः प्रकीर्तितं ॥२३४॥नवसाहस्रविस्तारं रम्यकं च हिरण्मयं ।हेमकूटस्य स्ॐयेन दक्षिणे निषधस्य तु ॥२३५॥हरिवर्षं समाख्यातं रौप्याभास्तत्र जन्तवः ।द्वादशैव सहस्राणि जीवन्तीक्षुरसाशिनः ॥२३६॥अतीव शोभनं तच्च नवसाहस्रविस्तृतं ।हेमकूटस्य याम्येन हिमवतस्त्वथोत्तरे ॥२३७॥वर्षं किंपुरुषं नाम तत्रहेमनिभा जनाः ।नववर्षसहस्राणि जीवन्ति प्लक्षभोजनाः ॥२३८॥नवैव तु सहस्राणि विस्तारस्तत्र कीरितः ।याम्ये हिमाचलेन्द्रस्य उत्तरे लवणोदधेः ॥२३९॥भारतं नाम वर्षं तु तत्र चाल्पं सुखं स्मृतं ।जना रोगभयत्रस्ता दुःखिता मन्दसंपदः ॥२४०॥सुरूपा मन्दरूपाश्च सुभगा दुर्भगाः परे ।भोगिनो मन्दभोगाश्च तथान्येऽत्यन्तदुःखिताः ॥२४१॥गौराः श्यामास्तथा कृष्णा बभ्रवः श्वेतपिङ्गलाः ।वर्णजातिप्रभेदेन नानाकर्मानुरूपतः ॥२४२॥चतुर्वर्णा अन्त्यजाश्च जायन्ते भारताह्वये ।स्वदेशभाषायुक्तानि द्वीपद्वीपान्तराणि च ॥२४३॥पण्डिताश्च तथा मूर्खाः शिल्पविज्ञानिनस्तथा ।योगिनो ज्ञानिनश्चैव धर्मिष्ठाः पापिनोऽपरे ॥२४४॥याचकाश्चापि जायन्ते दातारश्चापरे जनाः ।प्रेष्या दासाश्च बहवो मानवाः सततं प्रिये ॥२४५॥गुणस्त्वेकः स्थितस्तत्र शुभाशुभफलार्जनं ।नष्टासु विद्यते काचिद्युगत्रयमयी स्थितिः ॥२४६॥चतुर्युगवती ज्ञेया भारताख्ये वरानने ।तत्रैव यत्कृतं कर्म शुभं वा यदि वाशुभं ॥२४७॥वसन्ति तेन लोकाश्च शिवाद्यवीचिमध्यगाः ।महाकालस्तथैकाम्रं एवमादि वरानने ॥२४८॥तीर्थानां कोटिरुद्दिष्टा महापुण्यफलोदया ।गङ्गादीनां नदीनां च तत्र पञ्च शतानि च ॥२४९॥नवयोजनसाहस्रं धन्वाकारं निबोध तं ।नव भेदाः स्मृतास्तत्र सागरान्तरिताः प्रिये ॥२५०॥एकैकस्य तु द्वीपस्य सहस्रं परिकीर्तितं ।शतानि पञ्च विज्ञेयं स्थलं पञ्च जलं तथा ॥२५१॥परस्परमगम्यास्ते तेषां नामानि मे शृणु ।इन्द्रद्वीपं कशेरुं च ताम्रवर्णं गभस्तिमथ् ॥२५२॥नागद्वीपं च स्ॐयं च गान्धर्वं वारुणं तथा ।द्वीपं कुमारिकाख्यं च नवमं परिकीर्तितं ॥२५३॥बिन्दुसरः प्रभृत्येव कुमार्याह्वं प्रकीर्तितं ।योजनानां सहस्रं तु नानावर्णाश्रमान्वितं ॥२५४॥ये पूर्वोक्ता गुणा लोके भारते वरवर्णिनि ।ते तत्रैव स्थिता लोके कुमारीसंज्ञके प्रिये ॥२५५॥भूधराः सप्त विज्ञेयास्तत्रैव तु सुशोभनाः ।महेन्द्रो मलयः सह्यः शक्तिमानृक्षपर्वतः ॥२५६॥विन्ध्यश्च पारियात्रश्च भान्त्येते कुलपर्वताः ।दक्षसागरमध्यस्थान्युपद्वीपानि षट्प्रिये ॥२५७॥अङ्गद्वीपं यवाख्यं च मलयं शङ्खसंज्ञकं ।कुमुदं च वराहं च इत्येवं परिकीर्तितं ॥२५८॥कथितो मलयद्वीपे मलयो नाम पर्वतः ।तस्यपादे त्रिकूटो वै लङ्का तस्योपरिस्थिता ॥२५९॥चामीकरमयी शुभ्रा चत्वारोद्यानमण्डिता ।चित्रप्राकाररचिता वज्रवैडूर्यमण्डिता ॥२६०॥अनन्तविभवास्तत्र राक्षसा देवकन्यकाः ।रमन्ते कन्यकासक्ता महाबलपराक्रमाः ॥२६१॥अगस्त्यशिखरं तत्र मलये भूधरोत्तमे ।तत्राश्रमो महापुण्य आगस्त्यः स्फाटिकप्रभः ॥२६२॥तत्रान्योन्यविरुद्धास्तु सत्त्वाः क्रीडन्त्यशङ्किताः ।न तत्र जायते मारी नाकालः संप्रवर्तते ॥२६३॥न जरा न च शोकश्च नोपसर्गभयं क्वचिथ् ।न वदत्यनृतं कश्चिद्रागद्वेषौ न कुत्रचिथ् ॥२६४॥अगस्त्यस्य प्रभावेण त्वज्ञानं दूरतो गतं ।तत्र वै ऋषयो वीरा ज्ञानयोगकृताश्रमाः ॥२६५॥जपाध्ययन होमादि पूजास्तुतिपरायणाः ।त्र्यम्बकस्य महादेवि नित्यमाराधने रताः ॥२६६॥अगस्त्यसहिताः सर्वे मोक्षाभ्युदयवादिनः ।तिष्ठन्ति भावितात्मानः शापानुग्रहकारिणः ॥२६७॥लक्षयोजनविस्तीर्णं जम्बुद्वीपं समन्ततः ।लक्षयोजनविस्तीर्णं लवणाम्भः स्थितं बहिः ॥२६८॥त्रिगुणं परिणाहेन स्थितं वै मण्डलाकृति ।वृत्रारिभयसंत्रस्ताः प्रविष्टास्तत्र पर्वताः ॥२६९॥द्वादशैव महावीर्यास्तान्ब्रवीमि समासतः ।वृषभो दुन्दुभिर्धूम्रः प्रविष्टाः पूर्वभागतः ॥२७०॥चन्द्रः कङ्कस्तथा द्रोणः प्रविष्टा उत्तरेण तु ।अशोकोऽथ वराहश्च नन्दनश्च तृतीयकः ॥२७१॥अपरेण नगास्तत्र प्रविष्टा लवणोदधिं ।चक्रो मैनाकसंज्ञश्च तृतीयस्तु बलाहकः ॥२७२॥दक्षिणेन वरारोहे प्रविष्टाश्चैव भूधराः ।चक्रमैनाकयोर्मध्ये तिष्ठेद्वे वडवामुखः ॥२७३॥जम्बूद्वीपं समाख्यातं प्रभवस्त्वधुनोच्यते ।स्वायंभुवो मनुर्नाम तस्य पुत्रः प्रियव्रतः ॥२७४॥तस्याथ दश पुत्रा वै जाता वीर्यबलोत्कटाः ।अग्नीध्रश्चाग्निबाहुश्च मेधा मेधातिथिर्वपुः ॥२७५॥ज्योतिष्मान्द्युतिमान्हव्यः सवनः सत्र एव च ।मेधाः सत्रोऽग्निबाहुश्च एते प्रव्रजितास्त्रयः ॥२७६॥सप्तद्वीपेषु ये शेषा अभिषिक्ता महाबलाः ।जम्बुद्वीपे तथाग्नीध्राः तस्य पुत्रा नव स्मृताः ॥२७७॥नाभिः किंपुरुषश्चैव हरिश्चैव इलावृतः ।भद्राश्वः केतुमालश्च रम्यकश्च हिरण्मयः ॥२७८॥नवमस्तु कुरुर्नाम नववर्षाधिपाः स्मृताः ।अग्नीध्रतस्तु जाता वै शूराश्चातिबलोत्कटाः ॥२७९॥तेषां नामाङ्कितानीह नववर्षाणि पार्वति ।नाभेः पुत्रो महावीर्यो वृषभो धर्मतत्परः ॥२८०॥तस्यापि हि सुतो ज्ञेयो भरतस्तु प्रतापवान् ।तन्नम्नैव तु विज्ञेयं भारतं वर्षमुत्तमं ॥२८१॥तस्याप्यष्टौ पुनः पुत्रा जाता कन्यापरा प्रिये ।भारते त्वष्टद्वीपेऽत्र अष्टौ पुत्रा निवेशिताः ॥२८२॥नवमस्तु कुमार्याह्वः कुमार्याः प्रतिपादितः ।तेषां नाम्ना तु ते द्वीपा भरतेन प्रकीर्तिताः ॥२८३॥जम्बुद्वीपं च शाकं च कुशं क्रौञ्चं च शाल्मलिं ।गोमेदं पुष्करं चैव सप्त द्वीपानि पार्वति ॥२८४॥अधुना संप्रवक्ष्यामि समुद्रांस्तव सुव्रते ।क्षारः क्षीरं दधि घृतं तथा इक्षुरसोऽपि च ॥२८५॥मदिरोदश्च स्वादूदः समुद्राः सप्त कीर्तिताः ।जम्बुद्वीपं स्मृतं लक्षं योजनानां प्रमाणतः ॥२८६॥परिमण्डलतो ज्ञेयः क्षारोदस्तत्समो बहिः ।एवं द्विगुणवृद्ध्यात्र समुद्रा द्वीपसंस्थिताः ॥२८७॥अग्नीध्रश्च समाख्यातो जम्बुद्वीपे वरानने ।शाके मेधातिथिर्नाम वपुष्मान्कुशसंज्ञके ॥२८८॥राजा क्रौञ्चेऽथ ज्योतिष्मान्शाल्मलौ द्युतिमान्स्मृतः ।गोमेदे हव्यनामा तु सवनः पुष्करे तथा ॥२८९॥त्रेतायुगसमः कालः शाकगोमेदवासिनां ।तथा वर्णाश्रमाचारा ज्ञेयास्तत्र निवासिनां ॥२९०॥मेधातिथेः सप्त पुत्राः शाकद्वीपेऽभिषेचिताः ।शान्तोऽभयस्त्वशिशिरः सुखदो नन्दकः शिवः ॥२९१॥क्षेमकश्च ध्रुवश्चेति वर्षनाम्ना तु तेऽङ्किताः ।वर्षाणि सप्त ख्यातानि पर्वतांश्च निबोध मे ॥२९२॥गोमेदश्चन्द्रसंज्ञश्च नारदो दुन्दुभिस्तथा ।सोमक ऋषभश्चैव वैभ्राजश्च कुलाद्रयः ॥२९३॥सुकृता चानसूया च सुमुखी च तृतीयका ।विपाशा त्रिदिवा कुम्भी तथा चामृतनालिका ॥२९४॥एता एव महानद्यो गिरिष्वेतेषु निर्गताः ।पूर्वादारभ्य निष्क्रान्ताः प्रविष्टाः क्षीरसागरं ॥२९५॥शाकद्वीपे तु ये लोकाः क्षीराहाराः फलाशिनः ।चन्द्रकान्तसमाः सर्वे सुरूपाः प्रियदर्शनाः ॥२९६॥क्रीडन्ति दिव्यनारीभिः सर्वैश्वर्यसमन्विताः ।कुशे वपुष्मता पूर्वं सप्त पुत्रा निवेशिताः ॥२९७॥श्वेतलोहितजीमूता हरितो वैद्युतस्तथा ।मानसः सुव्रतश्चेति वर्षनाम्नैव चाङ्किताः ॥२९८॥कुमुदश्चोर्वदश्चैव वाराहो द्रोणकङ्कतौ ।महिषः कुसुमश्चैव सप्त सीमन्तपर्वताः ॥२९९॥श्वेततोया तथा कृष्णा चन्द्रा शुक्ला च लोचनी ।वीवृता च विवृन्दा च सप्तैतास्तु सरिद्वराः ॥३००॥ N/A References : N/A Last Updated : June 16, 2012 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP