संस्कृत सूची|शास्त्रः|तंत्र शास्त्रः|स्वच्छन्दभैरवतन्त्र| दशमः पटलः १० स्वच्छन्दभैरवतन्त्र प्रथमः पटलः द्वितीयः पटलः तृतीयः पटलः चतुर्थः पटलः पञ्चमः पटलः षष्ठः पटलः सप्तमः पटलः अष्टमः पटलः नवमः पटलः दशमः पटलः १ दशमः पटलः २ दशमः पटलः ३ दशमः पटलः ४ दशमः पटलः ५ दशमः पटलः ६ दशमः पटलः ७ दशमः पटलः ८ दशमः पटलः ९ दशमः पटलः १० दशमः पटलः ११ दशमः पटलः १२ दशमः पटलः १३ एकादशः पटलः द्वादशः पटलः त्रयोदशः पटलः चतुर्दशः पटलः पञ्चदशः पटलः स्वच्छन्दभैरवतन्त्र - दशमः पटलः १० स्वच्छन्दभैरवतन्त्र हे एक असे तंत्र आहे, ज्यापासून प्रत्यक्ष भैरव मदतीला उभे राहतात. Tags : shastratantraतंत्रशास्त्रस्वच्छन्दभैरवतन्त्र दशमः पटलः १० Translation - भाषांतर तस्मादापो विनिष्क्रान्ता भवेशेन प्रचोदिताः ।तस्मात्तु मण्डलादूर्ध्वं रूपतन्मात्रमण्डलं ॥९०१॥स्फुरत्सूर्यांशुदीप्ताभं पद्मरागसमप्रभं ।रुद्रः पशुपतिस्तत्र एक एवावतिष्ठते ॥९०२॥तस्मात्तेजो विनिष्क्रान्तं तद्वै पशुपतीच्छया ।तत्तेजः सर्वलोकानां व्यापकं परमेश्वरि ॥९०३॥तस्मात्तु मण्डलादूर्ध्वं स्पर्शतन्मात्रमण्डलं ।सन्ध्यारुणसमच्छायं वायव्यं मण्डलं प्रिये ॥९०४॥वितानाकारसदृशं समन्तात्परिमण्डलं ।तत्रैव मण्डले देवि त्वीशानः संव्यवस्थितः ॥९०५॥तस्माद्वायुर्विनिष्क्रान्त ईशेच्छाप्रेरितः प्रिये ।तस्मात्प्राणादयः पञ्च वायोस्तद्व्यापकः परः ॥९०६॥सप्तधा सप्तधा सोऽपि स एको बहुधा गतः ।तस्मात्तु मण्डलादूर्ध्वं शब्दतन्मात्रमण्डलं ॥९०७॥नीलोत्पलदलश्यामं स्वच्छोदकसमप्रभं ।वितानसदृशाकारं समन्तात्परिमण्डलं ॥९०८॥भीमस्तत्राधिपत्येन एक एवावतिष्ठते ।तस्मान्नभो विनिष्क्रान्तं भीमेच्छाचोदितं महथ् ॥९०९॥व्यापकं सर्वलोकानां परापरगतं प्रिये ।तस्मात्तु मण्डलादूर्ध्वं सूर्यमण्डलमुच्यते ॥९१०॥सहस्रादित्यसंकाशं दीप्यमानं समन्ततः ।वितानवद्रश्मिदीप्तं समन्तात्परिमण्डलं ॥९११॥रुद्रो ह्यधिपतिस्तत्र त्वेक एवावतिष्ठते ।सूर्यास्तस्माद्विनिष्क्रान्ताः कल्पे कल्पे वरानने ॥९१२॥तस्मात्तु मण्डलादूर्ध्वं सोममण्डलमुच्यते ।चन्द्रकोटिसहस्राणां तेजसा तुल्यमण्डलं ॥९१३॥अधिपतिस्तु महादेव एक एवावतिष्ठते ।तस्माच्चन्द्रादिमे चन्द्रा महादेवेन चोदिताः ॥९१४॥असंख्याताः सहस्राणि कल्पे कल्पी विनिर्गताः ।तस्मात्तु मण्डलादूर्ध्वं वेदमण्डलमुच्यते ॥९१५॥चन्द्रकोटिसमच्छायं समन्तात्परिमण्डलं ।वितानवत्स्थितं दिव्यं उग्रेशसमधिष्ठितं ॥९१६॥संरुद्धं वामया तत्तु तस्माद्वै निर्गतानि तु ।यजमानसहस्राणि कल्पे कल्पे स्थितानि हि ॥९१७॥ब्रह्मणस्तपसोग्रेण उग्रेशेन प्रचोदिताथ् ।वेदयज्ञाश्च विविधा ब्रह्मणोऽनन्तवर्त्मनः ॥९१८॥तस्मादेते प्रवर्तन्ते यज्ञा यज्ञफलानि च ।तपोदानादिभिः सार्धं वामशक्त्या नियन्त्रिताः ॥९१९॥इत्येष्टौ तनवस्त्वेताः परा वै संप्रकीर्तिताः ।अपरा ब्रह्मणोऽण्डं वै व्याप्य सर्वं व्यवस्थिताः ॥९२०॥एभ्यः परतरं चापि मण्डलं करणात्मकं ।शुक्लरक्तासितं पीतं हरितं चापि वर्णतः ॥९२१॥पञ्चाधिपास्तु तिष्ठन्ति मण्डले करणात्मके ।कर्मदेवाः प्रवर्तन्ते तस्माद्वै सर्वदेहिनां ॥९२२॥वाक्पाणिपादपायुश्च उपस्थश्चेति पञ्चमः ।एभ्यः प्रकाशकं नाम परतः सूर्यसंनिभं ॥९२३॥तस्माद्वै संप्रवर्तन्ते पञ्च बुद्धीन्द्रियाणि तु ।श्रोत्रं त्वक्चक्षुषी जिह्वा नासिका च यथाक्रमं ॥९२४॥विषयालोचनं वृत्तिः तेजोमण्डलसंस्थिताः ।स्वाक्याधिपतयो नित्यं तेष्वेव प्रतिचोदकाः ॥९२५॥एभ्यः परतरं चास्ति चन्द्रमण्डलसन्निभं ।विस्तारात्परिणाहाच्च सर्वतो रश्मिमण्डलं ॥९२६॥तस्माद्वै संप्रवर्तन्ते पञ्चार्थाः सर्वदेहिनां ।शब्दः स्पर्शस्तथा रूपं रसो गन्धश्च पञ्चमः ॥९२७॥एभ्यः परतरं चापि स्ॐयं सोमस्य मण्डलं ।तस्मान्मनो विनिष्क्रान्तं रश्मिभिर्दर्शपञ्चभिः ॥९२८॥चित्तं चेतो मनश्चेति शब्दाद्यक्षप्रवर्तकं ।तस्याधिपो महातेजाश्चन्द्रमाः स्ॐयतेजसा ॥९२९॥तस्मात्तु मण्डलादूर्ध्वं परतो मण्डलं महथ् ।जपाकुसुमसंकाशं अरुणादित्यसंनिभं ॥९३०॥पूर्ववच्च प्रमाणेन्न समन्तात्परिमण्डलं ।तस्मात्तु मण्डलाद्देवि सन्ध्यारुणसमद्युतिः ॥९३१॥सधूमोऽग्निरिवासौ वै अहंकारः प्रवर्तते ।अन्तःकरणमात्मस्थं येनेदं रंजितं जगथ् ॥९३२॥मत्तद्विप इवान्धस्तु दावाग्निरुपसर्पति ।तस्याधिदेवो रुद्रो वै येनायं प्रेर्यते सदा ॥९३३॥छगलाण्डादयो देवि पूर्वं ते कथिता मया ।अहंकारादथोर्ध्वं तु बुद्ध्यावरणमुच्यते ॥९३४॥सूर्यकोटिसहस्राणां तेजसा तुल्यवर्चसं ।अष्टानां देवयोनीनां अत्रैव भुवनं शृणु ॥९३५॥ककुभं नाम भुवनं सन्ध्यारुणसमप्रभं ।मानसीभिस्तु तत्स्त्रीभिर्मुदिताभिः समाकुलं ॥९३६॥स्थितास्तत्र पिशाचास्तु सन्ध्यारुणसमप्राभाः ।दशकोटिसहस्राणि तेषां तत्र निवासिनां ॥९३७॥स्वनन्दो नाम विक्रान्तः पिशाचेष्वीश्वरो महान् ।सन्ध्यारुणसमच्छायो बन्धूककुसुमाकृतिः ॥९३८॥कुण्डलाभरणोपेतो हारकेयूरभूषितः ।किरीटी चाङ्गदी मौली हेमचीनाम्बरः शुभः ॥९३९॥परिवृतो भूतगणैः प्रभूतैः पार्श्वगैस्तथा ।नानारूपधरैर्दिव्यैर्दिव्याभरणभूषितैः ॥९४०॥दिव्यमाल्यानुलेपैस्तु दिव्यैश्वर्यसमन्वितैः ।परिवृतो महातेजा गणैरिव महागणः ॥९४१॥अतः परं प्रवक्ष्यामि राक्षासं भुवनं महथ् ।कोकिलाकण्ठसदृशं नीलजीमुतसंनिभं ॥९४२॥तस्मिस्तु भुवने दिव्ये दिव्यैश्वर्यसमन्विते ।करालो राक्षसेशो वै जात्यञ्जननिभो महान् ॥९४३॥किरिटी कुण्डली दीप्तः शोभते तु महाद्युतिः ।जात्यञ्जननिभः श्रीमान्दावाग्निरिव पर्वते ॥९४४॥दशकोटिसहस्राणि मुदिता नाम राक्षसाः ।भृङ्गजीमूतवर्णाभा वसन्त्यत्र महाप्रभाः ॥९४५॥अतः परं प्रवक्ष्यामि याक्षं वै भुवनं महथ् ।जाम्बूनदमयं सर्वं दिव्यरत्नसमुज्ज्वलं ॥९४६॥भोगैश्वर्यसमुत्पन्नं समन्तात्परिमण्डलं ।तस्मिंस्तु भुवने भद्रे सुभद्रो नाम यक्षराठ् ॥९४७॥तप्तकाञ्चनवर्णाभो मकुटादिविभूषितः ।शतकोटिसहस्रैस्तु यक्षैरमितविक्रमैः ॥९४८॥तैर्वृतो भ्राजते सर्वैः शर्वः सर्वगणैरिव ।अत ऊर्ध्वं प्रवक्ष्यामि गान्धर्वं भुवनं महथ् ॥९४९॥पीतकौशीतकीप्रख्यं चम्पकैस्तु समच्छवि ।तस्मिंस्तु भुवने दिव्ये सुरूपो नाम वै प्रिये ॥९५०॥गन्धर्वदेवाधिपति गन्धमादनसन्निभः ।तप्तजाम्बूनदनिभस्तरुणादित्यसप्रभः ॥९५१॥दिव्यगन्धानुलिप्ताङ्गो दिव्याभरणभूषितः ।दशकोटिसहस्रैस्तु गन्धर्वैः परिवारितः ॥९५२॥मनः शिलाभङ्गनिभैर्हरितालनिभैस्तथा ।स्वकान्ता नाम गन्धर्वाश्चित्रमाल्यानुलेपनाः ॥९५३॥चित्राम्बरधराः सर्वे चित्राभरणभूषिताः ।तस्मात्परतरं वक्ष्ये स्थानं ऐन्द्रं च पार्वति ॥९५४॥बृहद्भोगमिति ख्यातं तदूर्ध्वं सर्वकामदं ।शङ्खगोक्षीरधवलं शरत्कुन्देन्दुसन्निभं ॥९५५॥तस्मिंस्तु भुवने दिव्ये दिव्याश्चर्यशतैर्युते ।विभूतिर्नाम भगवान्महेन्द्रो भुवनेश्वरः ॥९५६॥चन्द्रमण्डलसङ्काशो मुक्ताहारविभूषितः ।शुक्लाम्बरधरः श्रीमाञ्च्छुक्लमाल्यानुलेपनः ॥९५७॥ज्वलत्किरीटो दीप्ताभ्यां कुण्डलाभ्यामलंकृतः ।हारकेयूरवाञ्छ्वेतः श्वेतोष्णीषविभूषितः ॥९५८॥भूतिजा नाम वै देवा विभूत्या परया युताः ।किरीटिनः कुण्डलिनो दिव्यमाल्यविभूषिताः ॥९५९॥दशकोटिसहस्राणि देवाश्चेन्द्राः प्रकीर्तिताः ।तैरावृतो महातेजा नक्षत्रैरिव चन्द्रमाः ॥९६०॥मनोजं नाम भुवनं शरच्चन्द्रनिभं शुभं ।शुक्लाभ्रकनिभं दीप्तं मुक्ताहारसुवर्चसं ॥९६१॥अमृतो नाम वै तत्र चन्द्रमाः परमः स्थितः ।शुद्धस्फटिकसंकाशः श्रीमाञ्च्छुक्लाम्बरोद्वहः ॥९६२॥कुण्डलैर्दीप्तिसंकाशैर्भूषितस्तु विराजते ।दिव्यगन्धानुलिप्ताङ्गो दिव्याभरणभूषितः ॥९६३॥तत्र वै रश्मयो नाम्ना रश्मिव्यूहसमप्रभाः ।दिव्याः स्ॐयास्तु ते ज्ञेयाः सोमतेजः समुद्भवाः ॥९६४॥दशकोटिसहस्राणि तेषां वै स्ॐयतेजसां ।अत ऊर्ध्वं तु देवेशि प्राजेशां भुवनं महथ् ॥९६५॥तस्मिंस्तु भुवने दिव्ये प्रजेशस्त्वमितद्युतिः ।विश्वरूपो विश्ववर्णो विश्वालंकारभूषितः ॥९६६॥विश्वरूपपरैर्देवैर्विश्वात्मा परिवारितः ।दशकोटिसहस्राणि विश्वानां भूरितेजसां ॥९६७॥परिवार्य महात्मानं शोभने पर्युपासते ।ब्राह्मं चैवमतो ज्ञेयं शङ्खगोक्षीरसन्निभं ॥९६८॥पितामहो यत्र देवः शुक्लपद्मस्थस्ॐयदृक् ।शुक्लाम्बरधरः श्रीमाञ्छुक्लमाल्यानुलेपनः ॥९६९॥शुक्लयज्ञोपवीती च महाहारविभूषितः ।दशकोटिसहस्रैस्तु चन्द्रबिम्बसमप्रभैः ॥९७०॥ब्राह्मैर्देवैः परिवृतः शारदाभ्रैरिवांशुमान् ।पैशाचं राक्षासं याक्षं गान्धर्वं त्वैन्द्रमेव च ॥९७१॥स्ॐयं तथैव प्राजेशं ब्राह्मं वै भुवनं प्रिये ।एतानि सुरयोनीनां स्थानान्येव पुराणि तु ॥९७२॥अवतीर्यात्मजन्मानं ध्यायन्तः संभवन्ति हि ।परमेशनियोगाच्च चोद्यमानाश्च मायया ॥९७३॥नियमिता नियत्या च ब्रह्मणो व्यक्तजन्मनः ।व्यज्यन्ते ते च सर्गादौ नामरूपैरनेकधा ॥९७४॥अंशेनैव वरारोहे न त्यजन्ति निकेतनं ।पुर्यष्टकेन्द्रियैः सार्धं आत्मा मन्त्रैर्विशोधयेथ् ॥९७५॥पञ्चाष्टकं मूर्तयोऽष्टौ बुद्धितत्त्वमनुक्रमाथ् ।विशोध्यैवं प्रयत्नेन क्रोधाष्टकमतः परं ॥९७६॥संवर्तस्त्वेकवीरश्च कृतान्तो जननाशकः ।मृत्युहन्ता च रक्ताक्षो महाक्रोधश्च दुर्जयः ॥९७७॥नीलोत्पलदलाभानि तेषां वै भुवनानि तु ।एकैकस्य परीवारः कोटिर्दशसहस्रकं ॥९७८॥क्रोधेश्वराष्टकादूर्ध्वं स्थितं तेजोष्टकं महथ् ।बलाध्यक्षो गणाध्यक्षस्त्रिदशस्त्रिपुरान्तकः ॥९७९॥सर्वरूपश्च शान्तश्च निमेषोन्मेष एव च ।सहस्रैः पञ्चदशभिः परिवारोऽभिधीयते ॥७८०॥अग्निरुद्राः स्मृता ह्यते तेजसा कृष्णवर्णकाः ।कूर्माकाराणि चित्राणि तेषां वै भुवनानि तु ॥९८१॥अत ऊर्ध्वं समाख्यातं योगाष्टकमनुत्तमं ।अकृतं च कृतं चैव रैभवं ब्राह्ममेव च ॥९८२॥वैष्णवं त्वथ क्ॐआरं ॐअं श्रैकण्ठमेव च ।क्रीडन्ति योगिनस्तत्र भुवनैः स्फटिकप्रभैः ॥९८३॥ततः साक्षाद्भगवती जगन्माता व्यवस्थिता ।उमा त्वमेया विश्वस्य विश्वयोनिः स्वयम्भवा ॥९८४॥तप्तजाम्बूनदनिभा ह्युदयादित्यसप्रभा ।महापीठे मणिमये सिंहाष्टकयुते शुभे ॥९८५॥शतयोजनविस्तीर्णे दिव्यस्रग्धामलालिते ।दिव्यकुण्डलिनी देवी महाहारविभूषिता ॥९८६॥विजयाग्रे महाभागा श्रीरिवोत्तमरूपिणी ।जया च पद्मगर्भाभा सर्वालंकारभूषिता ॥९८७॥नन्दा च पद्मपत्राक्षी हारकेयूरभूषिता ।सर्वाभरणचित्राङ्गी सुनन्दा च मनोहरा ॥९८८॥परिवार्य प्रतीहार्यः सर्वतः समुपस्थिताः ।त्रिंशत्कोटिसहस्राणि त्रिंशत्कोटिशतानि च ॥९८९॥मानस्यो दिव्यनार्यस्तास्तां सदा पर्युपासते ।विमानकोटिरेका च रुद्राणां भूरितेजसां ॥९९०॥ॐआ इति समाख्याताः वैमाना इति तेऽन्यथा ।उपासते तु तां देवीं मातरं तनया इव ॥९९१॥सावतीर्याण्डमध्ये तु मया सार्धं वरानने ।अनुग्रहार्थं लोकानां प्रादुर्भूता सनातनी ॥९९२॥कल्पे पूर्वे जगन्माता जगद्योनिर्द्वितीयके ।तृतीये शाम्भवी नाम चतुर्थे विश्वरूपिणी ॥९९३॥पञ्चमे नन्दिनी नाम षष्ठे चैव गणाम्बिका ।विभूतिः सप्तमे कल्पे सुभूतिश्चाष्टमे तथा ॥९९४॥आनन्दा नवमे कल्पे दशमे वामलोचना ।एकादशे वरारोहा द्वादशे च सुमङ्गला ॥९९५॥कल्पे त्रयोदशे देवि महातनुरुदाहृता ।कल्पे चतुर्दशे चैव अनन्ता नाम कीर्तिता ॥९९६॥भूतमाता पञ्चदशे षोडशे चोत्तमा स्मृता ।सहस्रधारा सप्तदशे सती चाष्टदशे पुरा ॥९९७॥चाक्षुषस्य मनोः कल्पे दक्षस्य दुहिता शुभा ।अवमानाच्च दक्षस्य स्वां तनुं त्वजहाः पुरा ॥९९८॥अमां कलां तु चन्द्रस्य पुनरापूर्य संस्थिता ।पुनर्हिमवताराध्य दुहिता त्वात्मनः कृता ॥९९९॥त्वं देवि साद्भुतं तप्त्वा तपः परमदुश्चरं ।मां भर्तारं पुनः प्राप्य जातास्यङ्गरुहा प्रिये ॥१०००॥ N/A References : N/A Last Updated : June 16, 2012 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP