संस्कृत सूची|शास्त्रः|तंत्र शास्त्रः|स्वच्छन्दभैरवतन्त्र| दशमः पटलः ४ स्वच्छन्दभैरवतन्त्र प्रथमः पटलः द्वितीयः पटलः तृतीयः पटलः चतुर्थः पटलः पञ्चमः पटलः षष्ठः पटलः सप्तमः पटलः अष्टमः पटलः नवमः पटलः दशमः पटलः १ दशमः पटलः २ दशमः पटलः ३ दशमः पटलः ४ दशमः पटलः ५ दशमः पटलः ६ दशमः पटलः ७ दशमः पटलः ८ दशमः पटलः ९ दशमः पटलः १० दशमः पटलः ११ दशमः पटलः १२ दशमः पटलः १३ एकादशः पटलः द्वादशः पटलः त्रयोदशः पटलः चतुर्दशः पटलः पञ्चदशः पटलः स्वच्छन्दभैरवतन्त्र - दशमः पटलः ४ स्वच्छन्दभैरवतन्त्र हे एक असे तंत्र आहे, ज्यापासून प्रत्यक्ष भैरव मदतीला उभे राहतात. Tags : shastratantraतंत्रशास्त्रस्वच्छन्दभैरवतन्त्र दशमः पटलः ४ Translation - भाषांतर दध्युदकं प्रविष्टास्ता निम्नगाः पावनोदकाः ।जनास्तु सुखिनस्तत्र दध्नामृतफलाशिनः ॥३०१॥दिव्यभोगरताः सर्वे क्रीडन्त्येते सयोषितः ।ज्योतिष्मता सप्त पुत्राः क्रौञ्चद्वीपे निवेशिताः ॥३०२॥उद्भिज्जश्च समाख्यातो वेणुर्मण्डल एव च ।रथकारश्च लवणो धृतिमान्सुप्रभाकरः ॥३०३॥कपिलश्चेति राजानो वर्षनाम्ना च तेऽङ्किताः ।वैद्रुमो हेमनाभश्च द्युतिमान्पुष्पदन्तकः ॥३०४॥कुशलो हरिमर्दश्च सप्तैते तु कुलाद्रयः ।मही धाता शिवापापा पवित्रा संततद्युतिः ॥३०५॥दम्भा चेति समाख्याताः सप्तैताः सरितः स्रुताः ।घृतोदं प्रविशन्त्येताः सर्वाः पापहराः प्रिये ॥३०६॥जनास्तद्वासिनः सर्वे सुरूपास्तेजसोत्कटाः ।घृतामृतफलाहाराः सुतृप्ताः स्मरपीडिताः ॥३०७॥क्रीडन्ति वनितायुक्ताः पद्मपत्रायतेक्षणाः ।सप्त द्युतिमता पुत्राः शाल्मलावभिषेचिताः ॥३०८॥मनोनुगस्तथोष्णश्च पावनो ह्यन्धकारकः ।मुनिर्दुन्दुभिनामा च कुशलश्चेति ते स्मृताः ॥३०९॥वर्षनामानि तेषां वै सप्तानां सप्त तु क्रमाथ् ।क्रौञ्चोऽथ वामनश्चैवाप्यन्धकारो दिवाकृतिः ॥३१०॥द्विबिन्दुः पुण्डरीकश्च दुन्दुभिश्च कुलाद्रयः ।पौण्डरी कौशिकी गौरी सिद्धा चैव कुमुद्वती ॥३११॥सन्ध्या रात्री च विख्याता समासात्परिकीर्तिताः ।नद्यस्ताः शैलनिष्क्रान्ता गच्छन्तीक्षुरसार्णवं ॥३१२॥पिबन्तीक्षुरसं तत्र ये जनास्तन्निवासिनः ।दिव्यकान्तियुताः शान्ताः सुरूपाः प्रियवादिनः ॥३१३॥नानानारीसमाकीर्णाः सर्वकामसुखोदयाः ।हव्यराजः सुतान्सप्त गोमोदे चाभ्यषेचयथ् ॥३१४॥जलदश्च कुमारश्च सुकुमारो मरीचकः ।कुमुदश्चोन्नतश्चैव महाभद्र इति स्मृताः ॥३१५॥तेषां नाम्ना च वर्षाणि अङ्कितानि स्वमानतः ।उदयः केसरश्चैव जठरोऽथ सुरैवतः ॥३१६॥श्यामोऽम्बिकेयो मेरुश्च शैलाः सीमन्तगास्त्विमे ।गभस्ती सुकुमारी च कुमारी नालिनी तथा ॥३१७॥वेणुका चाप्यथेक्षू च धेनुकेति सरिद्वराः ।मदिरोदं वहन्त्येताः पुण्याः पुण्यजलोद्वहाः ॥३१८॥अमृतोपमानि स्वादूनि फलान्यत्र वरानने ।भक्षयन्ति च तल्लोकाः पिबन्ति मदिरामृतं ॥३१९॥सर्वकामसमृद्धाश्च सुरूपा व्याधिवर्जिताः ।नानायुवतिवृन्दैश्च रूपयौवनगर्वितैः ॥३२०॥मदालसैः पानमत्तैरमन्ते सततं प्रिये ।अतश्च पुष्कराख्ये च सवनस्तत्र नायकः ॥३२१॥द्वौ पुत्रौ तेन विख्यातौ पुष्कराख्ये निवेशितौ ।पर्वतो वलयाकारो मानसोत्तरसंज्ञितः ॥३२२॥पञ्चाशदुच्छ्रयस्तस्य विस्तारः पञ्चविंशतिः ।योजनानां वरारोहे सर्वरत्नसमन्वितः ॥३२३॥धातकी मध्यमे राजा महवीतो बहिर्नृपः ।ईर्ष्यया रागतृष्णाभिरीतिभिश्च विवर्जिताः ॥३२४॥सर्वे ते सुखिनस्तत्र तस्मिन्वर्षद्वये जनाः ।चक्राकारस्तु बोद्धव्यो मानसस्तु वरानने ॥३२५॥चतुर्णां लोकपालानां पुरीस्त्वत्र ब्रवीमि ते ।हरेर्वस्वेकसाराख्या याम्या संयमिनी पुरी ॥३२६॥सुखाह्वा वारुणी चैव सोमस्य तु विभावरी ।पुष्करद्वीपगुणितः स्वादूदोऽन्ते व्यवस्थितः ॥३२७॥पञ्चाशत्तु सहस्राणि त्रिपञ्चाशत्तथैव च ।योजनानां तु लक्षाणि कोटिद्वितयमेव च ॥३२८॥मेर्वर्धाद्यावत्स्वादूदं प्रमाणं परिकीर्तितं ।ततो हेममयी भूमिर्दशकोट्यो वरानने ॥३२९॥देवानां क्रीडनार्थाय लोकालोकस्त्वतः परं ।पर्वतो वलयाकारो योजनायुतविस्तृतः ॥३३०॥लक्षमात्रसमुत्सेधो योजनानां वरानने ।सर्वरत्नसमोपेतो हेमवर्णः प्रकीर्तितः ॥३३१॥तस्यान्तर्भासयेद्भानुर्न बहिः सुरसुन्दरि ।लोकपालाः स्थितास्तत्र रुद्राश्चामोघशक्तयः ॥३३२॥विरुजो वसुधामा च शंखपात्कर्दमस्तथा ।हिरण्यरोमा पर्जन्यः केतुमान्भाजनस्तथा ॥३३३॥जाम्बूनदमये शुभ्रे सिद्धामरनिवेशने ।पूर्वादारभ्य क्रमशो यावदीशानगोचरः ॥३३४॥लोकपालाः स्थितास्ते वै पालयन्त इमाः प्रजाः ।अस्य मध्ये वरारोहे योनयस्तु चतुर्दश ॥३३५॥चेष्टन्ते विविधाकाराः स्वकर्मपरिरञ्जिताः ।लोकालोकोपरिष्टात्तु सवितुर्दक्षिणायनं ॥३३६॥तथोत्तरायणं तत्र उत्तरेण प्रकीर्तितं ।अर्धरात्रोऽमरावत्यां अस्तमेति यमस्य च ॥३३७॥मध्याह्नश्चैव वारुण्यां स्ॐये सूर्योदयः स्मृतः ।यदैव चामरावत्यां उदयस्तस्य दृश्यते ॥३३८॥तदास्तमेति वारुण्यां इत्यादित्यगतागतं ।सुवीथी उत्तरे तस्य अजवीथी च दक्षिणे ॥३३९॥पितृदेवपथोह्येष कथितस्तु मया तव ।अस्य बाह्ये तमो घोरं दुःप्रेक्ष्यं जीववर्जितं ॥३४०॥पञ्चत्रिंशत्स्मृताः कोट्यो लक्षाणेकोनविंशतिः ।चत्वारिंशत्सहस्राणि योजनानां वरानने ॥३४१॥सप्तसागरमानं तु गर्भोदस्तत्समः स्मृतः ।ब्रह्मणोऽण्डकटाहेन युक्ता वै मेरुमध्यतः ॥३४२॥पञ्चाशत्कोटयो ज्ञेया दशदिक्षु समन्ततः ।एवमेतच्छतं ज्ञेयं कोटीनां पार्थिवं महथ् ॥३४३॥अत ऊर्ध्वं प्रवक्ष्यामि प्रमाणं वरवर्णिनि ।अथ वात्र महादेवि परिपाट्या समन्ततः ॥३४४॥दीक्षाकाले तु संस्काराः क्रमं तेषां निबोध मे ।शक्तिं तत्त्वं च भुवनं योनिं चैव निवेशयेथ् ॥३४५॥तेषां गन्धोपचारं तु कृत्वा चैव यथाक्रमं ।अनन्तं चैव कालाग्निं नरकांश्च यथाक्रमं ॥३४६॥पातालानि ततश्चोर्ध्वे शोधयेदनुपूर्वशः ।उपस्थानं ततः कुर्याद्भुवर्लोकस्य वरानने ॥३४७॥ततो वागीश्वरी देवी संपूज्य कुसुमादिभिः ।ततः पशुस्तु संप्रोक्ष्य स्ताड्यो विश्लेष्य एव च ॥३४८॥छेदनं च तथाकर्षो ग्रहणं योजनं ततः ।गर्भधारित्वजनने अधिकारं तथैव च ॥३४९॥योगं भोगं लयं चैव ततो योनिविशोधनं ।चतुर्दश समासेन कथयाम्यनुपूर्वशः ॥३५०॥पैशाचं राक्षसं याक्षं गान्धर्वंत्वैन्द्रमेव च ।स्ॐयं तथा च प्राजेशं ब्राह्मं चैवाष्टमं विदुः ॥३५१॥संहारक्रमयोगेन शोधनीयाः शिवाध्वरे ।पशुपक्षिमृगाश्चैव तथान्ये च सरीसृपाः ॥३५२॥स्थावरं पञ्चमं चैव षष्ठं मानुषयोनिकं ।देवयोनिसमायुक्तं प्रोक्तं संसारमण्डलं ॥३५३॥चतुर्दशविधं चैव भूर्लोके तु विशोधयेथ् ।आत्मा संसरतिह्यत्र मायाद्यवनिगोचरे ॥३५४॥संसारः प्रोच्यते तस्मात्पर्यटेत्स यतस्ततः ।सुखं दुःखं तथा मोहं भुङ्क्ते चैवाध्वमध्यगः ॥३५५॥बन्धत्रयसमायुक्तो वामशक्त्यात्वधिष्ठितः ।ईश्वरेण निमित्तेन सृष्टिसंहारवर्त्मनि ॥३५६॥पुनः पुनश्चाध्वमध्ये युज्यते स शुभाशुभैः ।अध्वमध्ये तु ये पाशा ज्ञेयाश्चानन्तकोटयः ॥३५७॥प्रधानगुणभेदेन यावच्चानाश्रितं पदं ।तस्मादेवं विजानीयातध्वा बन्धस्य कारणं ॥३५८॥चतुर्दशविधं यच्च प्रोक्तं संसारमण्डलं ।तस्य भेदाह्यनन्ताश्च भिद्यन्ते कर्मभेदतः ॥३५९॥कर्मवल्ल्योह्यनन्ताश्च कर्मेशानादिकारकाः ।आत्मना बध्यतेह्यात्मा मुञ्चेन्नात्मानमात्मना ॥३६०॥कोशकारो यथा कीट आत्मानं वेष्टयेद्दृढं ।नचोद्वेष्टयितुं शक्त आत्मानं स पुनर्यथा ॥३६१॥तथा संसारिणः सर्वे बद्धाः स्वैरेव बन्धनैः ।न च मोचयितुं शक्ताः पशवः पाशबन्धनाः ॥३६२॥स्वयमेव स्वमात्मानं यावद्वै नेक्षते शिवः ।शिवशक्तिनिपातात्तु मुच्यन्ते पाशबन्धनाथ् ॥३६३॥अन्यथा नैव जानन्ति स्वरूपं यत्सुनिर्मलं ।यत्तत्स्वाभिजनं शुद्धं अनौपम्यमनामयं ॥३६४॥मोहिता मलमोहेन बद्धाः कर्मकलादिना ।निगूढास्तत्र तिष्ठन्ति काष्ठे वह्निर्यथा तथा ॥३६५॥उद्धृतस्तु यथा वह्निर्मन्थकस्य वशात्स्फुटं ।स्वस्वरूपं प्रपश्येत भास्वरं यत्सुनिर्मलं ॥३६६॥अन्येषामपि जन्तूनां तिमिराक्रान्तचक्षुषां ।प्रकाशयति वस्तूनि हत्वा वै रश्मिभिस्तमः ॥३६७॥तथात्मा तु विजानाति यत्स्वरूपमनादिमथ् ।मन्थकस्य वशाद्देवि नान्यथा तु कथंचन ॥३६८॥मन्थकस्त्विह देवेशि स्वयमेव सदाशिवः ।आचार्यतनुमास्थाय सदा चानुग्रहे स्थितः ॥३६९॥मन्त्रा मन्थनवज्ज्ञेया अध्वा चात्रारणिर्यथा ।वागीशी योनिसंस्थाना धूमो ज्ञेयो मलादिवथ् ॥३७०॥आत्मा वै वह्निवज्ञेयो बोधकस्तु परः शिवः ।उद्बोधितो यथा वह्निर्निर्मलोऽतीव भास्वरः ॥३७१॥न भूयः प्रविशेत्काष्ठं तथात्माध्वन उद्धृतः ।मलकर्मकलाद्यैस्तु निर्मुक्तो विगतक्लमः ॥३७२॥तत्रस्थोऽपि न बध्येत यतोऽतीव सुनिर्मलः ।रसवह्निसमायोगात्ताम्रं कालिकया यथा ॥३७३॥विश्लेषितं तु तत्त्वज्ञैर्हेमत्वं प्रतिपद्यते ।न भूयस्ताम्रतां याति तथात्मा न कदाचन ॥३७४॥रसवन्मन्त्रशक्तिस्तु क्रिया ज्ञेया तु वह्निवथ् ।तज्ज्ञश्चैव शिवो ज्ञेय आचार्यतनुविग्रहः ॥३७५॥आत्मा वै हेमवज्ज्ञेयो मलो ज्ञेयस्तु कालिका ।मन्त्रद्रव्यक्रियायोगाद्वह्न्याधारे तथा प्रिये ॥३७६॥गुरुणा तन्त्रविदुषा ह्यात्मा वै निर्मलीकृतः ।न भूयो मलतां याति शिवत्वं याति निर्मलं ॥३७७॥एवं ज्ञात्वा वरारोहे दीक्षा कार्या यथा पुरा ।शोधयेन्मुख्यपाशांश्च ये प्रोक्तास्ते मया पुरा ॥३७८॥गुणभूतास्तु ये पाशास्तेऽपि शुद्ध्यन्ति तद्वशाथ् ।चतुर्दशविधं चैव यदुक्तं तु मया पुरा ॥३७९॥संसारमण्डलं देवि शोद्ध्यं तदवनीतले ।तद्वक्ष्यामि क्रमात्सर्वं यथा शोध्यं शिवाध्वरे ॥३८०॥ब्रह्मादिस्तम्भपर्यन्तं प्राधान्येन विशोधयेथ् ।ब्राह्मं चैव तु प्राजेशं स्ॐयमैन्द्रं तथैव च ॥३८१॥गान्धर्वं चापरं याक्षं राक्षसं च तथापरं ।पैशाचं क्रमतः शोध्यं स्थावरं मानुषं तथा ॥३८२॥सप्तच्छदं स्थावराणां सर्पाणां वासुकिं तथा ।पक्षिणां गरुडं चैव मृगाणां सिंहमेव च ॥३८३॥पशूनां चैव गोयोनिं मनुष्यांश्च विशोधयेथ् ।अन्त्यजाञ्छूद्रविट्क्षत्र ब्राह्मणांश्च विशोधयेथ् ॥३८४॥पञ्चभिर्ब्रह्मभिर्देवित्वधिकारान्विशोधयेथ् ।दशाहुतिप्रयोगेण अन्त्यजान्ब्राह्मणावधि ॥३८५॥ब्राह्मणस्याधिकाराष्टौ चत्वारिंशतमेव च ।गर्भः पुंसवनं चैव सीमन्तो जातकर्म च ॥३८६॥नाम निष्क्रमणं चैव अन्नप्राशनचूडकं ।अनेनैव वरारोहे शोध्यास्त्वष्टौ प्रकीर्तिताः ॥३८७॥एतैर्निवर्तितैर्देवि ततोऽसौ जायते द्विजः ।नवमो व्रतबन्धस्तु स चाङ्गी परिकीर्तितः ॥३८८॥अङ्गानि संप्रवक्ष्यामि यथावदनुपूर्वशः ।मेखला दन्तकाष्ठं च अजिनं त्र्यायुषं तथा ॥३८९॥संध्यां वह्नेरुपासां च भिक्षां वै सप्तमं विदुः ।नियन्तॄणि च दृष्टानि दीक्षाकाले वरानने ॥३९०॥भौतेशं पाशुपत्यं च गाणं गाणेश्वरं तथा ।उन्मत्तकासिधारं च घृतेशं सप्तमं विदुः ॥३९१॥सप्तैतानि तु दृष्टानि व्रतानि ब्रह्मचारिणां ।चर्याव्रतानि बोध्यानि अङ्गत्वे कीर्तितानि तु ॥३९२॥एभिस्तु सहितं ह्येकं नवमं व्रतबन्धनं ।तस्यान्तर्भूतमेवैतत्कथितं व्रतसप्तकं ॥३९३॥चतुर्दश व्रतान्येवं होतव्यानि वरानने ।वेदव्रतानि चत्वारि होतव्यानि न संशयः ॥३९४॥ऐष्टिकं पार्विकं चैव भौतिकं स्ॐइकं तथा ।व्रतेश्वरास्तु चत्वारो ब्रह्मचारिनियामकाः ॥३९५॥त्रयोदशविजानीयात्ततो वै वेदभाजनं ।ततो भवति गोदानं तच्चतुर्दशकं प्रिये ॥३९६॥स्नात उद्वाहयेद्भार्यां ज्ञानसिद्धः कुमारिकां ।कृत्वा दर्भमयीं पत्नीं तया सह यजेत्क्रतून् ॥३९७॥तज्ज्ञेयं पञ्चदशमं ततः पाकमखाः क्रमाथ् ।नैमित्तिकांश तानाहुः प्रवक्ष्यम्यनुपूर्वशः ॥३९८॥अष्टकाः पार्वणी श्राद्धं श्रावण्याग्रायणी तथा ।चैत्री चाश्वयुजी चेति सप्त पाकमखाः क्रमाथ् ॥३९९॥एतैः सह विजानीयाद्द्वाविंशत्परिसंख्यया ।आग्नेयं चाग्निहोत्रं च दर्शं चैव ततः परं ॥४००॥ N/A References : N/A Last Updated : June 16, 2012 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP