संस्कृत सूची|शास्त्रः|तंत्र शास्त्रः|स्वच्छन्दभैरवतन्त्र| नवमः पटलः स्वच्छन्दभैरवतन्त्र प्रथमः पटलः द्वितीयः पटलः तृतीयः पटलः चतुर्थः पटलः पञ्चमः पटलः षष्ठः पटलः सप्तमः पटलः अष्टमः पटलः नवमः पटलः दशमः पटलः १ दशमः पटलः २ दशमः पटलः ३ दशमः पटलः ४ दशमः पटलः ५ दशमः पटलः ६ दशमः पटलः ७ दशमः पटलः ८ दशमः पटलः ९ दशमः पटलः १० दशमः पटलः ११ दशमः पटलः १२ दशमः पटलः १३ एकादशः पटलः द्वादशः पटलः त्रयोदशः पटलः चतुर्दशः पटलः पञ्चदशः पटलः स्वच्छन्दभैरवतन्त्र - नवमः पटलः स्वच्छन्दभैरवतन्त्र हे एक असे तंत्र आहे, ज्यापासून प्रत्यक्ष भैरव मदतीला उभे राहतात. Tags : shastratantraतंत्रशास्त्रस्वच्छन्दभैरवतन्त्र नवमः पटलः Translation - भाषांतर अतः परं प्रवक्ष्यामि रहस्यमिदमुत्तमं ।यन्न कस्यचिदाख्यातं तत्ते वक्ष्यामि सुव्रते ॥१॥महाभैरवदेवस्य क्रीडमानस्य भामिनि ।सृष्टिसंहारकर्तारं हृदयात्तु विनिर्गतः ॥२॥कल्पान्तवह्निवपुषं प्रलयाम्बुदनिःस्वनं ।तडित्पुञ्जनिभोद्दंष्ट्रं जटाज्वालासमप्रभं ॥३॥चन्द्रसूर्याग्निनयनं कोटराक्षं सुभीषणं ।बृहद्वक्षः स्थलाभोगं नागयज्ञोपवीतिनं॥ ४॥स्फुरन्माणिक्यमुकुटं सर्पकुण्डलभूषितं ।सर्पहारकृताटोपं सर्पकङ्कणनूपुरं ॥५॥सिंहचर्मपरीधानं सर्पमेखलमण्डितं ।गजचर्मावृतपटं शशाङ्ककृतशेखरं ॥॥पञ्चवक्त्रं शवारूढं दशबाहुं त्रिलोचनं ।कपालमालाभरणं खड्गखेटकधारिणं ॥७॥पाशाङ्कुशधरं देवं शरशार्ङ्गावतानितं ।कपालखट्वाङ्गधरं वरदाभयपाणिकं ॥८॥भिन्नाञ्जनचयप्रख्यं स्फुरिताधरभास्वरं ।ब्रह्मेन्द्रविष्णुनमितं त्रिदशैरपि दुर्लभं ॥९॥एवं तं भैरवं देवं स्वच्छन्दं परिकीर्तयेथ् ।स्मरणान्नाशयेद्देवः पापसंघातमुल्बणं ॥१०॥अस्य मन्त्रः पुराख्यातो द्वात्रिंशाक्षरसंमितः ।पञ्चप्रणवपूर्वान्तं तत्र लीनं जपेन्मनुं ॥११॥तस्य कल्पं प्रवक्ष्यामि समासान्न तु विस्तराथ् ।पूर्वोक्तभूप्रदेशे च विशुद्धे शुभलक्षणे ॥१२॥पुष्पप्रकरसंकीर्णे गन्धधूपाधिवासिते ।तत्र मण्डलमालिख्य पूर्वोक्तैर्वर्णकैः शुभैः ॥१३॥एकहस्तं द्विहस्तं वा चतुर्हस्ताष्टहस्तकं ।सुसूत्रितं समं कृत्वा चतुरस्रं समन्ततः ॥१४॥पूर्ववत्साधयित्वा तु दिग्भागांस्तु वरानने ।चतुर्द्वारसमोपेतं अष्टपत्रं सकर्णिकं ।मध्ये पद्मं समालिख्य केसरैरुपलक्षितं ॥१५॥द्वात्रिंशदक्षरं बाह्ये चक्रमालिख्य शोभनं ।एवं सुसूत्रितं कृत्वा बाह्ये चैव तु वर्तुलं ॥१६॥चतुरस्रं तदासन्नं बाह्ये वीथिं प्रकल्पयेथ् ।मध्यपद्मप्रमाणेन द्वारं कल्प्येत पूर्ववथ् ॥१७॥भस्मोद्धूलितदेहस्तु मुद्रालङ्कारभूषितः ।केशयज्ञोपवीती च दिग्वासाः संयतेन्द्रियः ॥१८॥शङ्खार्घपात्रहस्तस्तु सकलीकृतविग्रहः ।परितोऽस्त्रं प्रविन्यस्य भैरवं पूजयेत्प्रिये ॥१९॥प्रणवासनसंस्थं तु मूर्तिं हंसाक्षरेण तु ।तमेव सकलं देवं स्वच्छन्दं परमेश्वरं ॥२०॥यत्तत्परमनिर्भासं अनामयमरूपकं ।तेन चावाहयेद्देवि हृच्छिरश्च शिखां तथा ॥२१॥वर्म नेत्रे तथास्त्रं च तेनैव परिकल्पयेथ् ।स्थापनं संनिधानं च निरोधार्धादिपूजनं ॥२२॥सर्वं तेनैव कर्तव्यं उक्तानुक्तं वरानने ।मध्यस्थं भैरवं पूज्यं अङ्गषट्कसमन्वितं ॥२३॥ततः पत्रस्थिता देवीर्द्वात्रिंशार्णैर्निवेशयेथ् ।पूर्वारकात्समारभ्य यावदन्ते व्यवस्थिताः ॥२४॥तासां नामानि वक्ष्यामि द्वत्रिंशत्परिसंख्यया ।अरुणा घोषा देवी च रेवती भोगदायिका ॥२५॥स्थापनी घोरसंज्ञा च रक्षा भारभरेति च ।घोररूपा रवा घोणा रतिस्ताराथ रूपिणी ॥२६॥भयहानिस्तु चण्डा वै सर्वदा च तथा वरा ।तक्षकी च तथा शार्वी बर्बरा सर्वगा तथा ॥२७॥रौद्री च भ्रामणी चैव नागिनी च मनोहरा ।स्तम्भनी रोषणी चैव द्रावा रुद्रा प्रशासिनी ॥२८॥भयापहारिणी देवी ज्ञेया द्वात्रिंश तत्क्रमाथ् ।प्रणवादिस्ततो वर्णो देवीनाम नतिस्तथा ॥२९॥सर्वासां तु विधिर्ह्येष कर्तव्यो विधिवेदिना ।हेमाभं प्राक्चतुष्कं तदिन्द्रचापसमप्रभं ॥३०॥चतुर्मुखं चतुर्बाहु वज्रहस्तं सुगर्वितं ।कपालमालाभरणं प्रहसत्तु विचिन्तयेथ् ॥३१॥आग्नेयं रक्तवर्णाभं शक्तिहस्तं सदा स्मरेथ् ।दण्डहस्तं स्मरेद्याम्यां कृष्णवर्णं सुभीषणं ॥३२॥नीलमिन्दीवराभासं नैरृतं खड्गहस्तकं ।श्यामं वारुणदिग्भागे पाशहस्तं विचिन्तयेथ् ॥३३॥धूम्रं सामीरदिग्भागे ध्वजहस्तं सुचञ्चलं ।उत्तरं धवलं ज्ञेयं गदाखेटकधारि च ॥३४॥स्फटिकाभं तथैशान्यां त्रिशूलायुधपाणिकं ।एवं ध्यानपरो यस्तु चक्रमेतत्सदाभ्यसेथ् ॥३५॥वत्सरार्धाद्वरारोहे तस्य सिद्धिस्त्रिधा भवेथ् ।महेन्द्रे मलये सह्ये पारियात्रेऽर्बुदे तथा ॥३६॥विन्ध्ये श्रीपर्वते चैव तथा कोलगिरौ प्रिये ।गङ्गायमुनासंबाधे कुरुक्षेत्रे वरानने ॥३७॥गङ्गाद्वारे प्रयोगे च ब्रह्मावर्ते समास्थितः ।अन्तर्वेद्यां सुपुण्यायां नर्मदायां तथैव च ॥३८॥सुस्निग्धदेशे भूभागे पद्मषण्डैर्मनोरमे ।येषु येषु प्रदेशेषु स्वयंभूर्भगवाञ्छिवः ॥३९॥तेषु स्थानेषु देवेशि नियमस्थो जितेन्द्रियः ।वाङ्निरुद्धः प्रसन्नात्मा लक्षाक्षरजपे रतः ॥४०॥शाकभक्षः फलाहारी नीवाराद्यशने रातः ।त्रिकालपूजानिरतोऽथाग्निकार्यपरायणः ॥४१॥भावितात्मा महासत्त्वो रक्षायाश्च विधानवीथ् ।तस्य मन्त्रः प्रसिद्ध्येत्तु साधयेत्सचराचरं॥ ४२॥कालाग्निर्नरकाश्चैव पाताला हाटकेश्वरः ।सप्तलोकं सब्रह्माण्डं पञ्चाष्टकमतः परं॥ ४३॥देवयोन्यष्टकं चैव प्रधानपुरुषान्तकं ।नियतिः कालतत्त्वं च रागो विद्या कला तथा ॥४४॥माया विद्येश्वरं तत्त्वं सादाख्यं शक्तिगोचरं ।सर्वं सिद्ध्यत्यनायासान्मन्त्रराजप्रब्भावतः ॥४५॥पूर्वोक्तं कर्म वै क्षिप्रं अधमं मध्यमोत्तमं ।साधयेन्नात्र संदेहो भैरवस्य वचो यथा ॥४६॥अथैकवीरमाश्रित्य अङ्गषट्कसमन्वितं ।जातियोगयुतं कृत्वा अष्टपत्रे कुशेशये ॥४७॥पूजयेत्पूर्वविधिना जपहोमार्चने रतः ।ध्यायन्नेव महादेवि स्वच्छन्दं परमेश्वरं॥ ४८॥प्राप्नोति चिन्तितान्कामान्देवि नास्त्यत्र संशयः ।अथ रक्षाविधानेषु अघोरं योजयेद्यथा ॥४९॥तथाहं कथयिष्यामि तदेकाग्रमनाः शृणु ।द्वात्रिंशदरसंयुक्तं चक्रमालिख्य भामिनि ॥५०॥नाभिकेसरसंयुक्तं सुसमं तु वरानने ।गोरोचनां तु संगृह्य सिद्धालक्तकसंयुतां ॥५१॥दूर्वाकाण्डेन देवेशि हरितेन समालिखेथ् ।विद्याराजं कर्णिकास्थं बिन्दुनादसमन्वितं ॥५२॥शक्त्यवसानं देवेशि तस्मिन्साध्यं समालिखेथ् ।कषमध्ये वरारोहे नयनाद्यन्तरोधितं ॥५३॥ईकारवेष्टितं कृत्वा अरकस्था निवेशयेथ् ।पूर्वोक्तदेवता देवि तद्गर्भे साध्यमालिखेथ् ॥५४॥भवगर्भे तु तत्कृत्वा ईकाराख्येन वेष्टयेथ् ।त्रीन्वारांस्तु वरारोहे ध्यानयोगसमाश्रितः ॥५५॥ऊर्ध्वे चैव तु संरोध्य क्रोंकारेण वरानने ।इन्दुनाच्छुरितं कृत्वा पुष्पधूपैः प्रपूजयेथ् ॥५६॥वेष्टयेच्चैव तद्भूर्जं अरन्ध्रं निर्व्रणं समं ।पञ्चरङ्गकसूत्रेण वेष्टयित्वा वरानने ॥५७॥सिक्थेन मुटयेत्पश्चात्क्षौद्रमध्ये निधापयेथ् ।यदा मृत्युवशाघ्रातं कालेन कलितं प्रिये ॥५८॥अरिष्टचिह्नितं ज्ञात्वा रक्षामेतां समालिखेथ् ।तस्य मृत्युर्न जायेत इत्येवं भैरवोऽब्रवीथ् ॥५९॥कपालीशस्य गर्भे तु नाम यस्य समालिखेथ् ।भूर्जपत्रे वरारोहे रोचनाया रसेन तु ॥६०॥ओंकारपुटमध्यस्थं रोधितं नयनाक्षरैः ।वौषड्जातिप्रयोगेण तस्य मृत्युर्न जायते ॥६१॥शिख्याह्वेन तु देवेशि साध्यनाम विदर्भयेथ् ।अनलार्णमधश्चोर्ध्वे साध्यार्णेषु नियोजयेथ् ॥६२॥तस्य वै जायते दाहः फट्काराद्यन्तरोधितं ।ज्वलन्तं चिन्तयेत्साध्यं दिनानां सप्तकं यदि ॥६३॥तत्क्षणाज्जायते दाहो भैरवस्य वचो यथा ।क्रोधराजनिरुद्धं तु श्मशानपटमध्यगं ॥४॥श्मशानादलिना लेख्यं विषरक्तान्वितेन तु ।यस्य नाम वरारोहे हुंफट्कारविदर्भितं ॥५॥मारयेतिसमायोगात्क्रूरजातिसमन्वितं ।म्रियते सप्तरात्रेण यो रक्षाभिः सुरक्षितः ॥६६॥विकरालो महादेवि ऊर्ध्वाधः पाशसंस्थितः ।साध्यनाम्नस्तु देवेशि हुंफट्कारविदर्भिणः ॥६७॥न क्षामयत्ययत्नेन तस्य शत्रोर्भयं भवेथ् ।मन्मथेन युतं कृत्वा साध्यनाम वरानने ॥६८॥ध्रुवाद्यं स्वाहयान्तेन रक्तध्यानसमन्वितं ।अमुकोऽत्र वरारोहे तद्दिशोऽभिमुखः स्थितः ॥६९॥अमुकस्य वशं यातु जपहोमौ समाचरेथ् ।सप्ताहाद्वशमायाति इति शास्त्रस्य निश्चयः ॥७०॥मेघनादावसाने तु नाम यस्य समालिखेथ् ।यकाराद्यन्तसंरुद्धं मन्त्रं फड्द्वितयान्वितं ॥७१॥प्रेतस्थाने निधाप्यैतद्भैरवं तत्र पूजयेथ् ।अक्षपुष्पैर्वरारोहे तद्दिशोऽभिमुखः स्थितः ॥७२॥तमुच्चाटयते क्षिप्रं देवि नास्त्यत्र संशयः ।सोमराजेन देवेशि आदिमध्यान्तसंयुतं ॥७३॥नाम यस्य समालिख्य वषड्जातिसमन्वितं ।संनिधाप्य त्रिमधुरे स्थापयेत्सुरसुन्दरि ॥७४॥सप्तरात्रप्रयोगेण त्रिकालाष्टशतेन च ।असाध्यं साधयत्याशु धनं च विपुलं लभेथ् ॥७५॥पञ्चाङ्गेन पिशाचस्य क्रोधराजावसानिकां ।संज्ञां समुच्चरेद्देवि क्रूरजातिसमन्वितां ॥७६॥उन्मत्तो जायते साद्यो होमेन च जपेन च ।मृत्युन्ञ्जयं प्रवक्ष्यामि तमेकाग्रमनाः शृणु ॥७७॥भूर्जपत्रं समादाय नीरन्ध्रं निर्व्रणं समं ।तस्मिन्समालिखेत्पद्मं अष्टपत्रं सकर्णिकं ॥७८॥तस्मिन्वै कर्णिकामध्ये साध्यनाम समालिखेथ् ।संवेष्टयाष्टौ दिशो देवि स्वच्छन्देन कृशोदरि ॥७९॥प्रणवेन तु संवेष्ट्य पत्रेष्वेवं समालिखेथ् ।पत्राष्टकेऽप्यघोरस्य नामाधस्तात्समालिखेथ् ॥८०॥वक्तव्यं देव संरक्ष शरणं त्वामुपागतं ।आदौ त्र्यक्षरविन्यासं स्वच्छन्दं तदनन्तरं ॥८१॥जन्मनाम तु साध्यस्य अक्षरान्तरितं लिखेथ् ।पुनस्त्र्यक्षरविन्यासं वषडन्तं नियोजयेथ् ॥८२॥मुटित्वा सिक्थकेनैव क्षीरमध्ये तु प्रक्षिपेथ् ।जायते परमा शान्तिः पुनरन्यन्निबोध मे ॥८३॥जुंसः संपुटमध्यस्थं प्रणवोभयसंयुतं ।नाम कृत्वा वरारोहे प्रक्षिपेन्मधुरत्रये ॥८४॥परां शान्तिमवाप्नोति मृत्युरोगैर्न बाध्यते ।भूर्जपत्रं समादाय रोचनाया वरानने ॥८५॥मातृकान्तरितं नाम दूर्वाकाण्डेन चालिखेथ् ।तदभ्यन्तरगर्भे तु स्वरैरन्तरीतं कुरु ॥८६॥पुनर्गर्भे समालिख्य साध्यनाम वरानने ।ध्रुवेण वेष्टयेत्पश्चाद्वकारेण ततः प्रिये ॥८७॥सकारं च क्षकारं च लिखेच्च तदनन्तरं ।पुनर्वेष्टय ठकारेण मायाबीजेन सुव्रते ॥८८॥अङ्कुशेन निरुद्ध्येत रक्षां मृत्युविनाशिनीं ।स्वच्छन्दसहितां देवि प्रणवेनादियोजितां ॥८९॥वषड्जातिसमोपेतां कर्पूरक्षोदचर्चितां ।गन्धपुष्पादिना पूज्य प्रक्षिपेन्मधुरत्रये ॥९०॥जायते परमा शान्तिर्नात्र कार्या विचारणा ।अथवा गुटिकां कृत्वा कण्ठे बाहौ च धारयेथ् ॥९१॥तस्य व्याधिर्न जायेत इत्येवं भैरवोऽब्रवीथ् ।त्र्यक्षरं मूलमन्त्रं च वषड्जातिसमन्वितं ॥९२॥भोजनोदकपाने तु मन्त्रयित्वाश्नतः सदा ।न तस्य जायते मृत्युर्भैरवस्य वचो यथा ॥९३॥अथा हिना महादेवि दूषितः साधको यदा ।मूलमन्त्रसमोपेतं अघोरं तत्र योजयेथ् ॥९४॥आत्मनो भैरवं रूपं कृत्वा चैव सुदारुणं ।दंष्ट्राकरालविकटं ज्वालामालोपशोभितं ॥९५॥सर्पैर्ललल्लम्बमानैः खड्गहस्तं सुभीषणं ।पूर्वरूपसमोपेतं सूर्यकोटिसमप्रभं ॥९६॥तेनाक्रान्तं महादेवि दष्टकं तु विचिन्तयेथ् ।तज्ज्वालाभिः सुदीप्ताभिर्दग्धं संचिन्तयेद्विषं ॥९७॥तत्क्षणाद्देवदेवेशि निर्विषः स तु जायते ।ग्रहेष्वेवं विधं ध्यानं यः कुर्यान्मोचयेत्क्षणाथ् ॥९८॥अथ ध्याने ह्यकुशलो यदा कश्चिन्नरो भवेथ् ।तदागदैर्महादेवि निर्विषं कुरुते क्षणाथ् ॥९९॥कुमारिद्वितयं गृह्य नागिन्या तु सहैकतः ।गोकर्णिकासितं मूलं सोमाह्वामूलसंयुतं ॥१००॥आमगोक्षीरसंपिष्टं भक्षयेन्निर्विषो भवेथ् ।गोनिम्बस्य च मूलेन निर्विषत्वं प्रजायते ॥१०१॥अश्वमारस्य मूलं तु उदकेन तु पेषयेथ् ।पाने नस्ये प्रदातव्यं तदा भवति निर्विषः ॥१०२॥आरग्वधस्य मूलं तु उदकेन च पेषयेथ् ।पाने नस्ये प्रदातव्यं तदा भवति निर्विषः ॥१०३॥मधुकस्य तु सारं यन्नस्ये पाने प्रयोजयेथ् ।निर्विषस्तु प्रजायेत भैरवस्य वचो यथा ॥१०४॥जम्बुलासिकमूलं तु पाने नस्ये प्रयोजयेथ् ।निर्विषस्तु भवेद्देवि नात्र कार्या विचारणा ॥१०५॥षड्बिन्दुपटखर्जूर- सूक्ष्मचूर्णं तु कारयेथ् ।मयूरपित्तसंयुक्तं गुटिकां कारयेत्प्रिये ॥१०६॥त्रिलोहवेष्टितां कृत्वा करे कण्ठे निधापयेथ् ।न विषं क्रमते तस्य यश्च दष्टो महोरगैः ॥१०७॥अगदान्घृतसंयुक्तान्पिबेद्वै विषदूषितः ।न विषं क्रमते तस्य इति शास्त्रस्य निश्चयः ॥१०८॥एवमन्येऽपि ये योगाः स्वच्छन्देन विनिर्मिताः ।कालाग्निर्नरकाश्चैव पाताला हाटकेश्वरः ॥१०९॥[प्रदद्याद्भावितात्मा च सिद्ध्यन्ते नात्र संशयः ।स्वच्छन्देनेति सर्वं हि परमेश्वरेण प्रवर्तितम्] ॥११०॥इति स्वच्छन्दतन्त्रे नवमः पटलः समाप्तः N/A References : N/A Last Updated : June 16, 2012 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP