स्वच्छन्दभैरवतन्त्र - त्रयोदशः पटलः

स्वच्छन्दभैरवतन्त्र हे एक असे तंत्र आहे, ज्यापासून प्रत्यक्ष भैरव मदतीला उभे राहतात.


श्रीदेव्युवाच
सारं यदस्य तन्त्रस्य यागं तु परमेश्वर ।
तमाख्याहि समासेन साधकानां हिताय वै ॥१॥
श्रीभैरव उवाच
मूलबीजाक्षरं मन्त्र- नायकं परमीश्वरं ।
प्रणवासनमारूढं अङ्गवक्त्रैः समन्वितं ॥२॥
पूर्वोक्तद्रव्यसंघातैः पूजयेत्परमेश्वरं ।
स एव होमविन्यासः दीक्षा सैव प्रकीर्तितः ॥३॥
दशलक्षं जपेद्यस्तु एकचित्तः समाहितः ।
समुद्रगसरित्तीरे सहायैः परिवर्जितः ॥४॥
होमयेन्नरमांसस्य लक्षमेकं सगुग्गुलं ।
जितेन्द्रियैकचित्तस्तु ब्रह्मचर्ये व्यवस्थितः ॥५॥
असाध्यं साधयेद्देवि नात्र कार्या विचारणा ।
यानि कानीह कर्माणि चतुष्पीठस्थितानि च ॥६॥
अधमान्यथ मध्यानि ह्युत्तमानि वरानने ।
तानि सिद्ध्यन्ति देवेशि भैरवस्य वचो यथा ॥७॥
अथातः सम्प्रवक्ष्यामि कारिकाकोशमुत्तमं ।
यं ज्ञात्वा देवदेवेशि विचरन्तीह साधकाः ॥८॥
अभिमुखखड्गनि पातितशूरशिरः शोषितं समादाय ।
रक्तालक्तकलिखितं साध्यतनौ मन्त्रयुक्तमभिधानं ॥९॥
प्रेतानले सुतप्तं विधाय निशि यत्कृते शतं जपति ।
असुरेन्द्रचक्रवर्तिनमसुरेन्द्रगुरुं वा तमानयत्यनिलवेगाथ् ॥१०॥
प्रेतालक्तकलिखितं नरशिरसि प्रेतवह्निसन्तप्तं ।
यमलोकादप्यचिरादानयति बलेन पूर्ववत्साध्यं ॥११॥
मृतनार्या वामपदादुद्बद्धायास्तु पांसुलीं समादाय ।
रुधिरालक्तकरोचनया साध्यतनुं मन्त्रसंयुक्तां ॥१२॥
खदिरानले सुतप्तां रात्र्यर्धे सम्मुखो जपशतेन ।
आनयति शचीमहल्यामथवा दिवसस्य शतभागाथ् ॥१३॥
उद्बद्धस्त्रीतनुवामाङ्घ्रेः पांसुलीं समादाय ।
प्रेतालक्तकनिजरुधिररोचनाभिर्विलिख्य साध्यतनुं ॥१४॥
प्रेतानले सुतप्तां शताभिजप्तां स्वनाममन्त्रयुतां ।
कृत्वा यक्षसुरासुरपन्नगनारीः समानयत्याशु ॥१५॥
निजवामकरेऽलक्तकरोचनया साध्यनाम परिलिखितं ।
मन्त्रविदर्भितमेतज्जपशतयुक्तं सुतापितं रात्रौ ॥१६॥
खदिरानले विधूमेऽसुरगुरुमप्यानयत्यनिलवेगाथ् ।
साध्यमभिधानलिखितं भूमितले गैरिकेण रक्तेन ॥१७॥
गन्धोद्वर्तितवामहस्तेन तु तत्त्वबीजयुक्तेन ।
आक्रम्य भूमिलिखितं साध्याभिमुखोऽर्धरात्रकाले तु ॥१८॥
क्षितिपतिमपि सामात्यं चानयति निमेषशतभागाथ् ।
नृकपालमध्यलिखितं रोचनया रक्तमिश्रया साध्यं ॥१९॥
नाम च तस्य ललाटे मन्त्रेण विदर्भितं समालिख्य ।
गन्धोदकेन लिप्तं नृकपालं वै द्वितीयमादाय ॥२०॥
कृत्वा कपालसम्पुटमथ मृतसूत्रेण वेष्टयेत्सम्यक् ।
खदिराङ्गारसुतप्तं सिक्थकलिप्तं तु तत्पुनः कृत्वा ॥२१॥
यावत्सिक्थकमेतत्कपाललग्नं विलीयते तावथ् ।
सुरपतिमप्याकर्षति जपशतयोगान्निमेषमात्रेण ॥२२॥
भित्तौ गैरिकलिखितं मन्त्रार्णविदर्भितं तदभिधानं ।
साध्याभिमुखो रात्रौ वामकराक्रान्तमथ जपन्क्रुद्धः ॥२३॥
क्रोङ्काराङ्कुशयोगादानयति सुरासुरान्क्षिप्रं ।
रणशस्त्रघातपतितं नरपिशितं त्रिमधुसंयुतं जुहुयाथ् ॥२४॥
विपरीतचक्रमुद्रां बद्ध्वा साध्यं तु निक्षिपेन्मध्ये ।
सम्पीडितकरसम्पुटविह्वलवक्त्रं करान्तरे ध्यात्वा ॥२५॥
आनयति महापुरुषं क्षितिपतिमपि दिवसशतभागाथ् ।
शितशस्त्रपातरहितध्वजनरशीर्षं प्रगृह्य लक्षमयुतं ॥२६॥
तत्र त्रिरूपगदितं धाम लिखित्वाभिपूजयेद्यस्तु ।
तस्य हरिपवनकमलजधनदयमेन्द्राः ससिद्धगन्धर्वाः ॥२७॥
विविधवरसिद्धिजातं विदधति विचित्रास्तथापराः सिद्धीः ।
व्यक्ताव्यक्तं तथा व्यक्तमव्यक्तं तु त्रिरूपकं ॥२८॥
धामचाराधयेत्सम्यक्तत्र यस्तु विचक्षणः ।
जायते त्रिविधा सिद्धिर्गिरिराजतनूद्भवे ॥२९॥
सुनिश्चितमतेः सम्यग्गिरिराजस्य तस्य वै ।
रक्तचन्दनधूलिं तु राजिकां लवणं तथा ॥३०॥
पादधूलिं तु साध्यस्य एकीकृत्य तु पेषयेथ् ।
जपन्स्वच्छन्ददेवं तु निर्मथ्नंश्च करद्वयं ॥३१॥
चिताग्नौ जुहुयाच्चूर्णं चाण्डालाग्नावथापि वा ।
साध्यस्याभिमुखो भूत्वा प्रयोगमिममाचरेथ् ॥३२॥
शतमेकं जपेद्यावत्तावदाकर्षयेन्नृपं ।
वशमायाति भूनाथ आत्मना च धनेन च ॥३३॥
सिद्ध एष प्रयोगस्तु नान्यथा ते वदाम्यहं ।
तामेव धूलिं संगृह्य लोहचूर्णविमिश्रितां ॥३४॥
श्मशानचीरके बद्ध्वा सप्तजप्तां चतुष्पथे ।
निखन्याष्टाङ्गुलं भूमौ रिपुनामसमन्वितां॥ ३५॥
निक्षिपेद्यस्य नाम्ना तां स क्षणात्स्तम्भितो भवेथ् ।
तामेव धूलिं संगृह्य पञ्चकोन्मत्तसंयुतां ॥३६॥
बद्ध्वा तां प्रेतवस्त्रेण रिपुनामसमन्वितां ।
शतजप्तां तु तां कृत्वा श्मशाने निखनेद्द्रुतं ॥३७॥
भवत्युन्मत्तकः साध्य उद्धृतायां तु मुच्यते ।
उद्धृतं वस्त्रमादाय क्षीरेण परिशोधयेथ् ॥३८॥
प्रत्यानयनमेतद्धि सिद्धमेव न संशयः ।
अथ रक्ताश्वमारस्य कुसुमानि समाहरेथ् ॥३९॥
शतमष्टोत्तरं तेषां शतजप्तं तु कारयेथ् ।
सकृज्जप्तेन पुष्पेण लिङ्गमूर्धनि ताडयेथ् ॥४०॥
एवं दिने दिने कुर्याद्दशाहं सुसमाहितः ।
ततस्त्वेकादशैतानि संगृह्य कुसुमानि तु ॥४१॥
महानदीं ततो गत्वा तत्रैकैकं प्रवाहयेथ् ।
आनुपूर्व्येण सर्वाणि सकृज्जप्त्वा तु मन्त्रविथ् ॥४२॥
यत्तेषां पश्चिमं पुष्पं प्रतिस्रोतः प्रयाति हि ।
तद्गृहीत्वाम्बुसम्मिश्रं दन्तैरस्पृष्टमापिबेथ् ॥४३॥
ततोऽश्वमारकुसुमं रक्तं वै शतमन्त्रितं ।
तर्जन्यग्रे तु तत्कृत्वा अङ्गुष्ठेनाक्रमेद्बुधः ॥४४॥
भ्रामयेत्सव्यतः पुष्पं यस्य नाम्ना तु मन्त्रविथ् ।
स्वच्छन्दं जपमानस्तु तमाकर्षयते द्रुतं ।
अपसव्यं भ्रामयित्वा पुनस्तस्य विसर्जनं॥ ४५॥


इति स्वच्छन्दतन्त्रे त्रयोदशः पटलः

N/A

References : N/A
Last Updated : June 16, 2012

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP