संस्कृत सूची|शास्त्रः|तंत्र शास्त्रः|स्वच्छन्दभैरवतन्त्र| दशमः पटलः ७ स्वच्छन्दभैरवतन्त्र प्रथमः पटलः द्वितीयः पटलः तृतीयः पटलः चतुर्थः पटलः पञ्चमः पटलः षष्ठः पटलः सप्तमः पटलः अष्टमः पटलः नवमः पटलः दशमः पटलः १ दशमः पटलः २ दशमः पटलः ३ दशमः पटलः ४ दशमः पटलः ५ दशमः पटलः ६ दशमः पटलः ७ दशमः पटलः ८ दशमः पटलः ९ दशमः पटलः १० दशमः पटलः ११ दशमः पटलः १२ दशमः पटलः १३ एकादशः पटलः द्वादशः पटलः त्रयोदशः पटलः चतुर्दशः पटलः पञ्चदशः पटलः स्वच्छन्दभैरवतन्त्र - दशमः पटलः ७ स्वच्छन्दभैरवतन्त्र हे एक असे तंत्र आहे, ज्यापासून प्रत्यक्ष भैरव मदतीला उभे राहतात. Tags : shastratantraतंत्रशास्त्रस्वच्छन्दभैरवतन्त्र दशमः पटलः ७ Translation - भाषांतर पूजितैर्गणरुद्रैश्च ब्रह्मविष्ण्विन्द्रवन्दितैः ।चामरव्यजनोक्षेपै रुद्रस्त्रीभिः समन्ततः ॥६०१॥वीजतस्तु सदा श्रीमांश्चन्द्रकोटिसमप्रभः ।ज्ञानामृतसुतृप्तात्मा योगैश्वर्यप्रदायकः ॥६०२॥ध्यातो वै योगिभिर्नित्यं प्रसन्नवदनेक्षणः ।प्रहसन्स इवाभाति निर्मलज्ञानरश्मिभिः ॥६०३॥अज्ञानतिमिरं हत्वा दर्शयेत्परमं वपुः ।सर्वसौख्यप्रदाता च रुद्रमातृगणावृतः ॥६०४॥तस्योत्सङ्गगता देवी तप्तकाञ्चनसुप्रभा ।पूजिता योगिनीवृन्दैः साधकैः सुरकिन्नरैः ॥६०५॥सर्वलक्षणसंपूर्णा सर्वाभरणभूषिता ।योगसिद्धिप्रदा नित्यं मोक्षाभ्युदयदायिका ॥६०६॥देवस्याभिमुखी नित्यं उमा तु ललितेक्षणा ।शक्तिश्चापररूपेण शक्तिमांश्च हरस्तथा ॥६०७॥ब्रह्माण्डे सृष्टिसंहारौ करोति च शिवेच्छया ।दीक्षाज्ञानविहीना ये लिङ्गाराधनतत्पराः ॥६०८॥ते प्रयान्ति हरस्थानं सर्वैश्वर्यसुखावहं ।जरामरणनिर्मुक्ता व्याधिशोकविवर्जिताः ॥६०९॥नाधोयान्ति पुनर्देवि संसारे दुःखसागरे ।शिवंयान्ति ततश्चोर्ध्वं श्रीकण्ठेनसमीक्षिताः ॥६१०॥रुद्रलोकः समाख्यातस्ततश्चोर्ध्वमुमे शृणु ।उत्तरोत्तरवृद्ध्या च भुवनं भुवनंस्थितं ॥११॥ब्रह्माण्डस्याप्यधोभागे रुद्रलोकस्यचोर्ध्वतः ।दण्डपाणेः पुरंज्ञेयं नानारुद्रगणावृतं ॥१२॥दण्डपाणिस्तु भगवान्योगैश्वर्यबलान्वितः ।दण्डः पाणितलेनैव धृतोयेन शिवेच्छया ॥६१३॥विवृणोति च ब्रह्माण्डे मोक्षमार्गं सुदुर्भिदं ।विधिनाराधितश्चैव अनुध्यानाच्छिवेच्छया ॥६१४॥सप्तलोकेषु ये रुद्रा कथयामि समासतः ।शर्वोरुद्रस्तथा भीमो भव उग्रस्तथैव च ॥६१५॥महादेवस्तथेशानो रुद्रलोकाधिपस्त्वमी ।ब्रह्मलोकेस्थितोब्रह्मा विष्णुर्वै वैष्णवे पुरे ॥६१६॥रुद्रलोकेस्थितोरुद्रः सर्वेषां नायकः स्मृतः ।कालाग्नेर्दण्डपाण्यन्तं अष्टानवतिकोटयः ॥६१७॥योजनानांवरारोहे त्वध्वायमुपवर्णितः ।कटाहस्तु अधश्चोर्ध्वं ब्रह्माण्डस्य वरानने ॥६१८॥कोटियोजनमानेन घनाकारेणसंस्थितः ।पञ्चाशत्कोटयश्चोर्ध्वं भूपृष्ठात्तु वरानने ॥६१९॥पञ्चाशच्च अधोज्ञेया योजनानां समन्ततः ।एवं कोटिशतं ज्ञेयं पार्थिवं तत्त्वमुच्यते ॥६२०॥शतरुद्रावधिज्ञेयं सौवर्णं परिवर्तुलं ।वज्रसाराधिकसारं दुर्भेद्यं त्रिदशैरपि ॥६२१॥हुंफट्कारप्रयोगेण भेदयेत्तु वरानने ।शतरुद्रानतो वक्ष्ये समासेन कृशोदरि ॥६२२॥दश दशक्रमेणैव दशदिक्षु समन्ततः ।पूर्वादिक्रमयोगेन कथयाम्यनुपूर्वशः ॥६२३॥कपालीशोह्यजोबध्नो वज्रदेहः प्रमर्दनः ।विभूतिरव्ययः शास्ता पिनाकी त्रिदशाधिपः ॥६२४॥इन्द्रस्यबलमाक्रम्य प्रभुशक्तिसमन्विताः ।विचरन्तिमहादेवा इन्द्रेण च सुपूजिताः ॥६२५॥अग्निरुद्रोहुताशी च पिङ्गलः खादको हरः ।ज्वलनोदहनोबभ्रुर्भस्मान्तकक्षयान्तकौ ॥६२६॥अग्नेर्बलंसमाक्रम्य प्रभुशक्तिसमन्विताः ।विचरन्तिमहादेवा अग्निराजसुपूजिताः ॥६२७॥याम्योमृत्युर्हरोधाता विधाताकर्तृसंज्ञकः ।संयोक्ता च वियोक्ता च धर्मो धर्मपतिस्तथा ॥६२८॥यमस्य बलमाक्रम्य प्रभुशक्तिसमन्विताः ।विचरन्तिमहादेवा यमराजसुपूजिताः ॥६२९॥नैरृतोमरुतोहन्ता क्रूरदृष्टिर्भयानकः ।ऊर्ध्वकेशोविरूपाक्षो धूमलोहितदंष्ट्रकौ ॥६३०॥नैरृतंबलमाक्रम्य प्रभुशक्तिसमन्विताः ।विचरन्तिमहादेवा नैरृतेन्द्रसुपूजिताः ॥६३१॥बलोह्यतिबलश्चैव पाशहस्तो महाबलः ।श्वेतोऽथ जयभद्रश्च दीर्घबाहुर्जलान्तकः ॥६३२॥मेघनादी सुनादी च समासात्परिकीर्तिताः ।वारुणंबलमाक्रम्य प्रभुशक्तिसमन्विताः ॥६३३॥विचरन्तिमहादेवा वरुणेन्द्रसुपूजिताः ।शीघ्रोलघुर्वायुवेगः सूक्ष्मस्तीक्ष्णो भयानकः ॥६३४॥पञ्चान्तकः पञ्चशिखः कपर्दी मेघवाहनः ।वायोस्तु बलमाक्रम्य प्रभुशक्तिसमन्विताः ॥६३५॥विचरन्तिमहादेवा वायुराजसुपूजिताः ।निधीशोरूपवान्धन्यः सौ,यदेहो जटाधरः ॥६३६॥लक्ष्मीरत्नधरःकामी प्रसादश्च प्रभासकः ।स्ॐयस्य बलमाक्रम्य प्रभुशक्तिसमन्विताः ॥६३७॥विचरन्तिमहादेवाः सोमराजसुपूजिताः ।विद्याधिपोऽथ सर्वज्ञो ज्ञानदृग्वेदपारगः ॥६३८॥शर्वः सुरेशो ज्येष्ठश्च भूतपालो बलिःप्रियः ।ईशानानुमता देवाश्चेष्टन्ते सुरपूजिताः ॥६३९॥विचरन्तिमहादेवा ईशशक्त्यात्वधिष्ठिताः ।वृषोवृषधरोऽनन्तः क्रोधनो मारुताह्वयः ॥६४०॥ग्रसनोडम्बरेशौ च फणीन्द्रो वज्रदंष्ट्रकः ।विष्णोस्तुबलमाक्रम्य प्रभुशक्तिसमन्विताः ॥६४१॥विचरन्तिमहादेवा अनन्तेन सुपूजिताः ।शंभुर्विभुर्गणाध्यक्षस्त्र्यक्षश्च त्रिदशेश्वरः ॥६४२॥संवाहश्चविवाहश्च नलोलिप्सुस्त्रिलोचनः ।ब्रह्मणोबलमाक्रम्य प्रभुशक्तिसमन्विताः ॥६४३॥विचरन्तिमहादेवा ब्रह्मणैव सुपूजिताः ।एकैकस्य सहस्रं तु परिवारोऽभिधीयते ॥६४४॥शतरुद्रा इति ख्याता ब्रह्माण्डंव्याप्यसंस्थिताः ।असंख्याताः सहस्राणि ये च ऊर्ध्वादिदिग्गताः ॥६४५॥स्वच्छन्दाविश्वगा देवाः कल्पमन्वन्तरेष्वपि ।पूर्वादिदशदिग्रुद्राः स्थिता दश दशैव तु ॥६४६॥एकैकमधिपंचैव कथयामि वरानने ।स्थितो वै पूर्वतोऽण्डस्य श्वेतो वै नाम नामतः ॥६४७॥रुद्राणां तु शतैर्युक्तो महावीर्यपराक्रमः ।दीप्तिमद्भिर्महातीव्रैर्मयूखैरिव भास्करः ॥६४८॥आग्नेय्यामग्निसंकाशो वैद्युतो नाम विश्रुतः ।सोऽपि विद्युत्प्रभैरुद्र शतैस्तु परिवारितः ॥६४९॥याम्येऽण्डस्य महाकालो युगान्तानलसंनिभः ।शतरुद्रैर्वृतो देवि तिष्ठत्यमितविक्रमैः ॥६५०॥नैरृतो विकटोनाम शतेनपरिवारितः ।संतिष्ठते महातेजा द्वितीय इव भास्करः ॥६५१॥पश्चिमेऽण्डस्य यो रुद्रो महावीर्य इति श्रुतः ।शतरुद्रैर्वृतः सोऽपि तिष्ठत्यमितविक्रमः ॥६५२॥वायव्यदिशिचाण्डस्य वायुवेगो महाबलः ।शतेन च वृतः श्रीमांस्तिष्ठत्यत्र महाबलः ॥६५३॥सुभद्रनामोत्तरतः शतेनपरिवारितः ।महावीर्यबलोपेतस्तिष्ठत्यत्र महाबलः ॥६५४॥परिविष्टो मरीचीभिस्तत्रतिष्ठति वीर्यवान् ।विद्याधरो नाम रुद्र ऐशान्यां वै प्रतिष्ठितः ॥६५५॥शतरुद्रैर्वृतः सोऽपि परिविष्ट इवोडुराठ् ।महावीर्यबलोपेतस्तिष्ठतेऽनन्तविक्रमः ॥६५६॥अधः कालाग्निरुद्रोऽन्यः स्थितस्त्वत्र द्वितीयकः ।समावृतो रुद्रशतैः स्थितैस्त्वत्र वरानने ॥६५७॥शतैः समावृतो रुद्र मयूखैरिव भास्करः ।वीरभद्रो वृतोरुद्रैरुपर्यण्डस्य संस्थितः ॥६५८॥एकादशो महाकायै रुद्रक्रोधसमुद्भवैः ।एवंतेऽत्रमहात्मान एकैकं तु शतेन च ॥६५९॥दशैते वेष्टितादेवि शतरुद्रैश्च सुव्रते ।एषामपरिसंख्येयः परिवारो महात्मनां ॥६०॥आवृत्याण्डं स्थिताह्येते मधु यद्वन्मधुव्रताः ।कदम्बकुसुमंयद्वत्केसरैः परिवारितं ॥६१॥परिवारितं तथाह्यण्डं रुद्रैरमितविक्रमैः ।गृहैः सतोरणाट्टालैर्नानारत्नविचित्रितैः ॥६६२॥जाम्बूनदमयैश्चित्रैः समन्तात्समलंकृतं ।दिव्यनारीभिराकीर्णं सर्वकामसमन्वितं ॥६३॥ब्रह्माण्डमेतदाख्यातं पाशजालावतारितं ।जन्मव्याधिजरामृत्यु- महोदधिपरिप्लुतं ॥६४॥गुणत्रयमलच्छन्नं नानाजातिसमाकुलं ।पशुज्ञानपरिक्रान्तं गतित्रयसमाकुलं ॥६५॥अनित्या एव गतयः सर्वेषामेव वादिनां ।परापरविभागं तु नैवजानन्ति मोहिताः ॥६६६॥हेमाण्डं तु पुरासृष्टं क्षयात्म भुवनाकृति ।ईशमायासमाविष्टस्य्- आत्मवर्गस्य भूतये ॥६६७॥अथोपरिष्टात्तत्त्वानि उदकादिशिवान्तकं ।उत्तरोत्तरयोगेन दशधा संस्थितानि तु ॥६६८॥अहंकारः तदूर्ध्वं तु बुद्धिस्तु शतधास्थिता ।ऊर्ध्वं सहस्रधा ज्ञेयं प्रधानं वरवर्णिनि ॥६६९॥पौरुषं दशसाहस्रं नियतिर्लक्षधा स्मृता ।तदूर्ध्वं दशलक्षाणि कला यावत्तु सुव्रते ॥६७०॥माया तु कोटिधाव्याप्य स्थिता सर्वं चराचरं ।दशकोटिगुणा विद्या मायांव्याप्य व्यवस्थिता ॥६७१॥शतकोटिगुणेनैव व्याप्तासावीश्वरेण तु ।सादाख्यं कोटिसाहस्रं बिन्दुनादं तदूर्ध्वतः ॥६७२॥योजनानां तु वृन्दं वै शक्तिर्व्याप्य व्यवस्थिता ।व्यापिनी सर्वमध्वानं व्याप्यदेवि व्यवस्थिता ॥६७३॥अप्रमेयं ततो ज्ञेयं शिवतत्त्वं वरानने ।भुवनानि प्रवक्ष्यामि अप्तत्त्वादावनुक्रमाथ् ॥६७४॥आकारं विभवं चैव भुवनानेकविस्तरं ।यन्न दृष्टं पशुज्ञानैः कुपथभ्रान्तदृष्टिभिः ॥६७५॥यन्न सांख्यैर्न योगैर्वा न चैव पाञ्चरात्रिकैः ।स्वभाववादिभिर्नापि न च कर्मप्रवादिभिः ॥६७६॥नापि संशयवादैश्च नग्नक्षपणकादिभिः ।न भूतवादिभिश्चैव नापि स्याल्लोकिकैरपि ॥६७७॥न चात्मचिन्तकैर्वापि न च तर्कप्रवादिभिः ।न च वैशेषिकैर्वा.अपि षट्पदार्थपरायणैः ॥६७८॥न चापि न्यायवादैश्च हेतुदृष्टान्तवादिभिः ।नाप्येकजन्मवादैश्च नचाप्येकत्ववादिभिः ॥६७९॥न धूर्तवादैर्लोकैर्वा सुपरिज्ञातमैश्वरं ।इत्येवंवादिनां तेषां वादानां तु शतत्रयं ॥८०॥त्रिषष्टिरधिकाश्चान्ये वादिनां भ्रान्तचेतसां ।अज्ञानतिमिराधानां उन्मीलनकृदुत्तमं ॥८१॥संसारपङ्कमग्नानां नौरिवोत्तारणं परं ।महामोहतमोऽन्धानां तमोनुदमिदं परं ॥८२॥परमेशमुखोद्भूतं यन्मया प्राप्तमद्भुतं ।ज्ञानामृतमिदं दिव्यं ननभुवनविस्तरं ॥८३॥शृणुष्वैकमना देवि विचित्राकारमद्भुतं ।अनन्तो भुवनव्रातस्त्वव्युच्छेदाद्व्यवस्थितः ॥६८४॥मधुकोशजालकवत्तथा भूरिचयावृतिः ।मीनशंखकुलायाभं दाषिमीबीजवत्स्थितं ॥८५॥कदम्बकेसरनिभं पुराणां तु समूहकं ।महासेनावासकवद्वने तरुसमूहवथ् ॥६८६॥निरन्तरमनन्तानि भुवनानि वरानने ।नानाकाराणि चित्राणि सर्वरत्नमयानि च ॥६८७॥परिमण्डलानि दीर्घाण्यर्धचन्द्राकृतीनि च ।पुरुषाकृतीनि चान्यानि नन्द्यावर्ताकृतीनि च ॥६८८॥पर्वताकृतिरूपाणि गजयुथाकृतीनि च ।शरावाकृतीनि चान्यानि ज्वालारूपाकृतीनि च ॥६८९॥महाविमानरूपाणि त्रिशूलाकृतिमन्ति च ।मुरजाकृतीनि चान्यानि त्र्यश्राकृतिपुराणि च ॥६९०॥महापुरुषरूपाणि शतशृङ्गाकृतीनि च ।सहस्रशृङ्गावर्तानि तथान्यानि वरानने ॥६९१॥कोटिशृङ्गाणि चान्यानि असंख्यशिखराणि च ।वृत्तानि चतुरश्राणि त्रिकोणान्यपराणि च ॥६९२॥दिव्यचित्रपताकानि दिव्यघण्टाध्वजानि च ।भेरिनादस्वराढ्यानि दिव्यगीतध्वनीनि च ॥६९३॥दिव्यदुन्दुभिनादानि महावेणुस्वनानि च ।नानावादित्रघोषाणि भुवनानि च सर्वदा ॥६९४॥शुक्लानि स्फटिकाभानि पद्मरागाकृतीनि च ।चन्द्रकान्तसवर्णानि मुक्तादामनिभानि च ॥६९५॥लाक्षारससवर्णानि कानिचिद्वरवर्णिनि ।इन्द्रगोपकवर्णानि इन्द्रनीलनिभानि च ॥६९६॥नीलोत्पलसवर्णानि विद्युत्पुञ्जनिभानि च ।बालादित्यसवर्णानि पद्मगर्भनिभानि च ॥६९७॥चन्द्रप्रभानि चान्यानि चन्द्रकोटिनिभानि च ।मध्याह्नार्कसवर्णानि सूर्यकोटिनिभानि च ॥६९८॥अशोकस्तवकाभानि हरितालनिभानि च ।शक्रचापसवर्णानि गोक्षीरधवलानि च ॥६९९॥सिन्दूरकुङ्कुमाभानि गोरोचननिभानि च ।तप्तहेमसवर्णानि निर्धूमाग्निनिभानि च ॥७००॥ N/A References : N/A Last Updated : June 16, 2012 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP