संस्कृत सूची|शास्त्रः|तंत्र शास्त्रः|स्वच्छन्दभैरवतन्त्र| दशमः पटलः ९ स्वच्छन्दभैरवतन्त्र प्रथमः पटलः द्वितीयः पटलः तृतीयः पटलः चतुर्थः पटलः पञ्चमः पटलः षष्ठः पटलः सप्तमः पटलः अष्टमः पटलः नवमः पटलः दशमः पटलः १ दशमः पटलः २ दशमः पटलः ३ दशमः पटलः ४ दशमः पटलः ५ दशमः पटलः ६ दशमः पटलः ७ दशमः पटलः ८ दशमः पटलः ९ दशमः पटलः १० दशमः पटलः ११ दशमः पटलः १२ दशमः पटलः १३ एकादशः पटलः द्वादशः पटलः त्रयोदशः पटलः चतुर्दशः पटलः पञ्चदशः पटलः स्वच्छन्दभैरवतन्त्र - दशमः पटलः ९ स्वच्छन्दभैरवतन्त्र हे एक असे तंत्र आहे, ज्यापासून प्रत्यक्ष भैरव मदतीला उभे राहतात. Tags : shastratantraतंत्रशास्त्रस्वच्छन्दभैरवतन्त्र दशमः पटलः ९ Translation - भाषांतर शोभितं भुवनेशैश्च रुद्रै रुद्रगणैस्तथा ।सरोभिर्मानसैर्दिव्यैर्दीर्घिकाभिश्च शोभितं ॥८०१॥रथचक्रप्रमाणैश्च मणिकाञ्चनमण्डितैः ।वैदूर्यनालैः कमलैर्दिव्यगन्धसुगन्धिभिः ॥८०४॥मृदुभिः कान्तिमद्भिश्च चन्द्रमण्डलसंनिभैः ।संशोभितं विचित्रैस्तैर्विकचैर्वज्रकेसरैः ॥८०३॥उद्यानैर्विविधैश्चापि नानाविहगकूजितैः ।नानाकामप्रदैर्वृक्षैः समन्तात्समलङ्कृतं ॥८०४॥नानामणिमयैर्दिव्यैः क्रीडाशैलैश्च मानसैः ।मानसीभिश्च नारीभिर्दिव्ययौवनकान्तिभिः ॥८०५॥हावभावविलासाढ्य- दिव्यस्त्रीभिरलंकृतं ।विचित्रैर्मणिपद्मैश्च सितपत्रैश्च सुव्रते ॥८०६॥विभूषितं गजेन्द्रस्थैः स्तुतिमङ्गलवादिभिः ।गायद्भिश्चाथ नृत्यद्भिर्दिव्यस्त्रैणैः समाकुलं ॥८०७॥तस्मिंस्तु भुवने दिव्ये पद्मगर्भसमप्रभे ।शरदिन्दुनिभं दिव्यं मण्डलं रश्मिसंकुलं ॥८०८॥तस्य मध्ये भगवती श्री स्वयं लोकभाविनी ।चन्द्रकोटिसहस्राणां या कान्तिमतिवर्तते ॥८०९॥एकत्र युगपत्तेजस्तेजसां तु विराजते ।निर्वाणमिव या शान्ता सर्वानन्दमनोहरा ॥८१०॥रूपिणी परमा देवी मूर्तिरव्यभिचारिणी ।शतयोजनविस्तीर्णे उदितादित्यसप्रभे ॥८११॥चन्द्रकान्तमये पद्मे वज्रकेसरकर्णिके ।कोटिपत्रे महादिव्ये गन्धपुष्पगुणान्विते ॥८१२॥पद्मासने भगवती पद्मगर्भसमप्रभा ।उपविष्टात्र सा नित्यं विभूत्या परया युता ॥८१३॥महारत्नैश्च स्रग्धाम प्रलम्बमुरसा शुभं ।वहन्ती सा तु शुशुभे ज्योत्स्नेव त्रिपथापथं ॥८१४॥स्फुरन्मयूखचलने कपोलतलमण्डले ।सूर्यमण्डलसंकाशे धारयन्ती च कुण्डले ॥८१५॥स्फुरन्मयूखसंघातां रशनां सा तु बिभ्रती ।हेमाभा पीतवसना महाहारविभूषिता ॥८१६॥चन्द्राब्भेनातपत्रेण ध्रियमाणेन राजिता ।उपगीता च गन्धर्वैर्मानसै रुद्रसम्भवैः ॥८१७॥परिवारिता भगवती सा तनुः पारमेश्वरी ।या प्राप्ता तपसाराध्य विष्णुना प्रभविष्णुना ॥८१८॥दत्ता प्रीतेन रुद्रेण विष्णोरुरसि वाहिनी ।अर्धेन सा भगवती विष्णोरङ्गे प्रतिष्ठाता ॥८१९॥पादेनेन्द्रस्य देवस्य पादार्धेन दिवि स्थिता ।तदर्धेन पुनर्देवि पार्थिवेषु व्यवस्थिता ॥८२०॥तदर्धेन मनुष्येषु या स्थिता व्याप्य मूर्तिभिः ।स्वरूपा कामरूपा च द्विधा सा परिकीर्तिता ॥८२१॥अचला सा तनुः सूक्ष्मा अक्षोभ्या तत्र तिष्ठति ।रुद्रक्रीडावतारेषु प्रयागादिषु सुव्रते ॥८२२॥श्रीगिरौ च विशेषेण मृतस्तद्भुवनं व्रजेथ् ।सत्स्वन्येष्वपि भागेषु त्वियं सा गदिता गतिः ॥८२३॥प्राप्य तामीदृशीं देवीं ऐश्वर्यमणिमादिकं ।भूत्वा तु साष्टधा दिव्या देवेष्वपि च तिष्ठति ॥८२४॥सिद्धेष्वपि च सा देवी उत्तमा सिद्धिरुच्यते ।यदर्थं तारकाद्यैश्च संग्रामस्त्रिदशेश्वरैः ॥८२५॥कृतो घोरस्त्वसंख्येयः तां श्रियं प्राप्तुमिच्छुभिः ।असङ्ख्येयाश्च संग्रामाः कृता वै चक्रवर्तिभिः ॥८२६॥सा बन्ध एवमुक्तानां अबुधानां परा स्मृता ।श्रीपुरं तु समाख्यातं यथावच्च वरानने ॥८२७॥अत ऊर्ध्वं प्रवक्ष्यामि भुवनं च निबोध मे ।सारस्वतमिति ख्यातं गान्धर्वमिति च स्मृतं ॥८२८॥पद्मगर्भपुरं चापि कोटिमात्रेण सुव्रते ।योजनानां समाख्यातं प्रमाणेन समन्ततः ॥८२९॥सार्वरत्नमयं दिव्यं सर्वैश्वर्यसमन्वितं ।विमानैर्विविधाकारैर्नानारत्नमयैः शुभैः ॥८३०॥गान्धर्वैर्मानसैश्चापि गायद्भिश्चाप्यनेकधा ।नृत्यद्भिश्च तथान्यैश्च गणैः पार्श्वगतैस्तथा ॥८३१॥स्त्रीभिः सुरूपिणीभिश्च गन्धर्वैश्च समाकुलं ।तस्य मध्ये तु देवेशि शरच्चन्द्रनिभं शुभं ॥८३२॥रश्मिमालाकुलं दिव्यं मण्डलं परिमण्डलं ।तस्य मध्ये भगवती स्थिता साक्षात्सरस्वती ॥८३३॥शरच्चन्द्रसहस्रस्य या कान्तिमतिवर्तते ।पीताम्बरधरा देवी पद्मपत्रायतेक्षणा ॥८३४॥नीलोत्पलदलश्यामा दिव्याभरणभूषिता ।हेमपट्टपरीधाना दिव्यकुण्डलधारिणी ॥८३५॥उरसा तु महाहारं उद्वहन्ती शशिप्रभं ।स्फुरन्मयूखसंघात- कुण्डलद्वयमण्डिता ॥८३६॥ग्रामत्रयवलीमध्या सप्तस्वरतनुः शुभा ।तानमूर्धारुहा देवी मूर्च्छनाङ्गरुहोद्वहा ॥८३७॥पदासना तालपादा गीतवर्णप्रभावती ।अङ्गुल्यः सन्धयश्चैव लक्षणानि वरानने ॥८३८॥आसने परमे दिव्ये वृता भूतगणेश्वरैः ।स्थिता स्थितिरिवाभाति सर्वस्य जगतः शुभा ॥८३९॥मानसीभिश्च नारीभिर्गन्धर्वैर्मानसैर्वृता ।हाहा हूहूश्चित्ररथस्तुम्बुरुर्नारदस्तथा ॥८४०॥विश्वावसुर्विश्वरथः दिव्यगीतविचक्षणाः ।संयोज्य मनसात्मानं त्यक्त्वा कर्मफलस्पृहां ॥८४१॥ते वै सारस्वतं स्थानं प्राप्ता वै सुरपूजिते ।ये च वाग्धारणां ध्यात्वा प्राणान्मुञ्चन्ति देहिनः ॥८४२॥ते वै सारस्वतं लोकं प्राप्नुवन्ति नरोत्तमाः ।एषा सरस्वती देवी मूर्तिर्वै पारमेश्वरी ॥८४३॥या स्थितापरभावेन ब्रह्माण्डोदरवर्तिनां ।ब्रह्मलोके च सा देवी पादेनैकेन तिष्ठति ॥८४४॥शाक्रे चापि तदर्धेन गन्धर्वेषु तदर्धतः ।सिद्धेषु च तदर्धेन किन्नरेषु तदर्धतः ॥८४५॥तदर्धेन च नागेषु यक्षेष्वर्धेन वै पुनः ।पिशाचेषु तदर्धेन सा वै तिष्ठति भागशः ॥८४६॥पिशाचेभ्यः सहस्रांशान्मानुषेषु च तिष्ठति ।तैस्तु तप्त्वा तपो घोरं आराध्य च पिनाकिनं ॥८४७॥अवतारिता तु सा देवी रूपिणी स्वरभूषिता ।स्वरांस्तु स्मरतस्तस्य कल्पादौ ब्रह्मणः पुरा ॥८४८॥स्वरेभ्यस्तु विनिष्क्रान्ता तेन सा तु सरस्वती ।सा स्थिता सर्वशास्त्रेषु कवीनां काव्यमास्थिता ॥८४९॥या वाल्मीकौ स्थिता देवी व्यासे चैव निरन्तरं ।ऋषीणां चैव सर्वेषां मेधाबुधिविवर्धिनी ॥८५०॥सर्वज्ञानधरी सा तु सर्वज्ञा देवपूजिता ।मेरोर्वायव्यदिग्भागे पुरं तस्याः प्रकीर्तितं ॥८५१॥इदं तु परमं देव्या मया ते परिकीर्तितं ।सारस्वतं तु भुवनं कीर्तितं परमा तनुः ॥८५२॥अत्रैव त्वाप्यतत्त्वे त्वं शृणु वै भुवनोत्तमं ।अमरेशं प्रभासं च पुष्करं नैमिषं तथा ॥८५३॥आषाढिं डिण्डिमुण्डिं च भारभूतिं च लाकुलं ।गुह्याष्टकमिति ख्यातं जलावरणगं प्रिये ॥८५४॥तेजस्तत्त्वमतश्चोर्ध्वं कथयामि समासतः ।अग्नेस्तु भुवनं तत्र कथयामि वरानने ॥८५५॥अशोकस्तवकानां च सर्वतो दीप्तिमुद्वहथ् ।उत्फुल्लकिंशुकच्छायं जपाकुसुमसंनिभं ॥८५६॥भुवनस्यास्य मध्ये तु उदितार्कसमप्रभं ।परिमण्डलमाग्नेयं तेजोमण्डलमुच्यते ॥८५७॥तस्य मध्ये तु भगवाञ्शिवाग्निः कारणं परं ।योऽवतीर्याण्डमध्ये तु स्थितो नित्यं त्रिधा त्रिधा ॥८५८॥वक्त्रे तु दक्षिणे तस्य रुद्रस्य परमात्मनः ।स्थितो जिह्वास्वरूपेण स्वयंभूर्नीललोहितः ॥८५९॥स एव तु महादेवि कालाग्निः परमेश्वरः ।तस्य रूपं प्रवक्ष्यामि शृणुष्वावहिता प्रिये ॥८६०॥रक्तपद्मदलच्छायः पद्मरागसमद्युतिः ।रक्ताम्बरधरः श्रीमान्रक्तमाल्यानुलेपनः ॥८६१॥अर्कभाभ्यां कुण्डलाभ्यां अलंकृतशुभाननः ।महाहारेण दीप्तेन उरःस्थेन विराजते ॥८६२॥किरीटी कुण्डली दीप्तो देवानामास्यमुच्यते ।सर्ववज्रमये पीठे उपविष्टः स्वयं प्रभुः ॥८६३॥दावाग्निरिव शैलाग्रे वेणुघर्षात्समुत्थितः ।दशकोटिसहस्राणि आग्नेयास्तु गणेश्वराः ॥८६४॥दक्षिणास्याद्विनिष्क्रान्ताः श्वसतोऽस्य स्वयम्भुवः ।हिताय सर्वलोकानां रुद्रा वै सूर्यवर्चसः ॥८६५॥तेन तेऽग्निं महात्मानो नित्यशः पर्युपासते ।नार्यश्च विविधा दिव्या दिव्यगीतविचक्षणाः ॥८६६॥गणा रुद्रा भूतगणाः किङ्कराश्च सहस्रसः ।स वै शिवाग्निः पठितः सर्वहोमेश्वरः परः ॥८६७॥अग्निकार्यविधानेषु हूयते तद्विदैः सदा ।तमग्निमैश्वरं यान्ति कृत्वाग्नेयीं तु धारणां ॥८६८॥स एकधा स बहुधा व्याप्य सर्वं व्यवस्थितः ।स तेजस्तेजसां योनिः तस्माज्जज्ञे दिवाकरः ॥८६९॥बहुधा व्यज्यते चासौ कल्पमन्वन्तरादिषु ।भिन्नश्च जन्मभेदैश्च पञ्चाशद्भिश्च भूतले ॥८७०॥तदेवं कीर्तितं सम्यगाग्नेयं भुवनं महथ् ।भुवनाधिपांश्च भुवने कथयामि त्वतः परं ॥८७१॥हरिश्चन्द्रं च श्रीशैलं जल्पमाम्रातकेश्वरं ।महाकालं मध्यमं च केदारं भैरवं तथा ॥८७२॥अतिगुह्यं समाख्यातं पूर्वेशान्तमनुक्रमाथ् ।अथोर्ध्वे वाय्वावरणं तत्रस्थो वायुरव्ययः ॥८७३॥प्राणस्य भुवनं तत्र वायोस्तु वरवर्णिनि ।शङ्खगोक्षिरधवलं शरत्कुन्देन्दुसप्रभं ॥८७४॥तस्मिंस्तु भुवने दिव्ये दिव्याश्चर्यशतैर्युते ।मध्ये तु मण्डलं दिव्यं शरच्चन्द्रसमप्रभं ॥८७५॥रश्मिमालाकुलं दिव्यं द्योतयद्वै दिशोदश ।तस्य मध्ये तु देवेशि वायोस्तु परमा तनुः ॥८७६॥किरीटी कुण्डली दीप्तो हारकेयूरभूषितः ।नानाभरणचित्राङ्गश्चित्रमाल्यानुलेपनः ॥८७७॥चित्राम्बरधरः श्रीमान्महाहारविभूषितः ।मारुता नाम वै देवाः शतकोट्यो महाबलाः ॥८७८॥उपासते महात्मानं वायुमूर्तिं महाद्युतिं ।यो व्यापयेच्छरीराणि एकधा पञ्चधा विभुः ॥८७९॥सप्तधा सप्तधा चैव तिर्यग्गो द्विगुणो विभुः ।स्वमण्डलस्य सा दिव्यैर्विभात्येका परा तनुः ॥८८०॥तमेतमेकं दशधा प्राणात्मानं तु योगिनः ।ध्यात्वा त्यक्त्वा तु वै प्राणान्कृत्वा तस्मिन्स्तु धारणां ॥८८१॥तं विशन्ति महात्मानो वायुभूताः खमूर्तयः ।इति प्राणस्य भुवनं आख्यातं तव सुव्रते ॥८८२॥भुवनेशांस्तत्र रुद्रान्कथयाम्यनुपूर्वशः ।गयां चैव कुरुक्षेत्रं नाकलं कनखलं तथा ॥८८३॥विमलं चाट्टहासं च माहेन्द्र भीममष्टमं ।गुह्याद्गुह्यतरं ह्येतद्वेदितव्यं प्रयत्नतः ॥८८४॥आकाशे तु यथाकाशं शुद्धस्फटिकनिर्मलं ।सूक्ष्मरूपोऽव्ययो नित्यो मध्यदेशे व्यवस्थितः ॥८८५॥आकाशधारणायुक्तो योगी युज्यते तत्पदे ।अत्राकाशे प्रवक्ष्यामि ये रुद्राः संव्यवस्थिताः ॥८८६॥वस्त्रापदं रुद्रकोटिं अविमुक्तं महालयं ।गोकीर्णं भद्रकर्णं च स्वर्णाक्षं स्थाणुमष्टमं ॥८८७॥पवित्राष्टकमेतद्धि समासेन प्रकीर्तितं ।अस्य बाह्ये अहंकारः तत्र रुद्रान्निबोध मे ॥८८८॥छगलाण्डं दुरण्डं च माकोटं मण्डलेश्वरं ।कालञ्जरं शङ्कुकर्णं स्थूलेश्वरस्थलेश्वरौ ॥८८९॥स्थाण्वष्टकं समाख्यातं पूर्वादीशानगोचरं ।मध्यदेशेस्थितो रुद्रस्त्वहंकारेश्वरः प्रभुः ॥८९०॥श्वेतं रक्तं तथा पीतं कृष्णं स्फटिकसप्रभं ।पञ्चाष्टकेषु ये वर्णाः समासात्कथितास्तव ॥८९१॥सिता रक्तास्तथा कृष्णा नीलाः श्यामा बलाहकाः ।पीताः शुक्लाश्च विज्ञेयाः अधस्तु धूम्रवर्चसः ॥८९२॥शतरुद्राः समाख्यातास्त्रिनेत्राः शूलपाणयः ।चन्द्रार्धमौलयः सर्वे रुद्राणीभिः समन्विताः ॥८९३॥पद्माकृतीनि ज्ञेयानि चित्ररत्नयुतानि च ।शतरुद्रभुवनानि भोगैश्वर्ययुतानि च ॥८९४॥पञ्चाष्टके पुराणि स्युः कूर्माकाराणि सर्वतः ।आकाशावरणादूर्ध्वं अहंकारादधः प्रिये ॥८९५॥भुवनानि प्रवक्ष्यामि शृणुष्वैकमनाः पुनः ।आदौ तु गन्धतन्मात्रं विस्तीर्णं मण्डलं महथ् ॥८९६॥स्थितं वितानवद्देवि योजनानेककोटयः ।शुक्लरक्तसितापीत- हरितं स्फटिकप्रभं ॥८९७॥वितानमिव देवेशि सर्वतः परिमण्डलं ।शर्वो ह्यधिपतिस्तत्र एक एव वरानने ॥८९८॥तस्मात्तु जायते पृथ्वी शर्वेशेन प्रचोदिता ।तस्मात्तु मण्डलादूर्ध्वं रसतन्मात्रमण्डलं ॥८९९॥हरितं मरकतश्यामं चाषपक्षनिभं प्रिये ।भवो ह्यधिपतिस्तत्र एक एव वरानने ॥९००॥ N/A References : N/A Last Updated : June 16, 2012 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP