संस्कृत सूची|शास्त्रः|तंत्र शास्त्रः|स्वच्छन्दभैरवतन्त्र| दशमः पटलः ५ स्वच्छन्दभैरवतन्त्र प्रथमः पटलः द्वितीयः पटलः तृतीयः पटलः चतुर्थः पटलः पञ्चमः पटलः षष्ठः पटलः सप्तमः पटलः अष्टमः पटलः नवमः पटलः दशमः पटलः १ दशमः पटलः २ दशमः पटलः ३ दशमः पटलः ४ दशमः पटलः ५ दशमः पटलः ६ दशमः पटलः ७ दशमः पटलः ८ दशमः पटलः ९ दशमः पटलः १० दशमः पटलः ११ दशमः पटलः १२ दशमः पटलः १३ एकादशः पटलः द्वादशः पटलः त्रयोदशः पटलः चतुर्दशः पटलः पञ्चदशः पटलः स्वच्छन्दभैरवतन्त्र - दशमः पटलः ५ स्वच्छन्दभैरवतन्त्र हे एक असे तंत्र आहे, ज्यापासून प्रत्यक्ष भैरव मदतीला उभे राहतात. Tags : shastratantraतंत्रशास्त्रस्वच्छन्दभैरवतन्त्र दशमः पटलः ५ Translation - भाषांतर पौर्णमासी तथा ज्ञेया चातुर्मास्यं तथैव च ।पशुबन्धः समुद्दिष्टः सौत्रामणिरतः परं॥ ४०१॥हविर्यज्ञाः समाख्याताः सप्तैते पावनाः प्रिये ।एभिः सह विजानीयात्संस्कारैकोनत्रिंशकं॥ ४०२॥अग्निष्टोमात्यग्निष्टोमौ उक्थः षोडशिका तथा ।वाजपेयोऽतिरात्रस्तु आप्तोर्यामस्तु सप्तमः ॥४०३॥सोमसंस्थाः समाख्याताः षट्त्रिंशत्परिसंख्यया ।हिरण्यपादः प्रथमस्तथा गुह्यहिरण्यधृथ् ॥४०४॥हिरण्यमेढ्रो हिरण्यनाभिर्हिरण्यगर्भ एव च ।हिरण्यश्रोत्रो हिरण्यत्वग्घिरण्याक्षस्तथैव च ॥४०५॥हिरण्यजिह्वस्तच्छृङ्गो दश यज्ञाः प्रकीर्तिताः ।शतेन तु घृतं चात्र एकैकं तु विजायते ॥४०६॥एते सर्वे सहस्रेण शुद्ध्यन्ते सप्तत्रिंशकः ।अश्वमेधं ततः पश्चाज्जुहुयात्तु यथाक्रमं॥ ४०७॥एवं कृतैस्तु तैः सर्वैस्ततश्चैव गृही भवेथ् ।अष्टात्रिंशत्तमं तं तु वानप्रस्थं ततो भवेथ् ॥४०८॥पारिव्राज्यं ततोऽन्तेष्टिं एवं ब्राह्मण्यमाप्नुयाथ् ।अत आत्मगुणानष्टौ कथयामि समासतः ॥४०९॥दया सर्वेषु भूतेषु क्षान्तिश्चाप्यनसूयता ।शौचं चैवमनायासो मङ्गलं चाप्यतः परं॥ ४१०॥अकार्पण्यं चास्पृहा चेत्यष्टावात्मगुणाः स्मृताः ।चत्वारिंशदथाष्टौ तु संस्काराश्च समासतः ॥४११॥एतैः शुद्धैस्तु शुद्ध्यन्ति असंख्या येऽपि सुव्रते ।अतोऽन्तेष्टिं तु हुत्वा वै गुणानापादयेच्छिशोः ॥४१२॥पञ्च पञ्चाहुतीर्हुत्वा ब्रह्मभिश्चाप्यनुक्रमाथ् ।तिलैर्घृतेन वातांश्च ऊर्ध्वे तु विनियोजयेथ् ॥४१३॥ऊर्ध्वशब्देन चाशुद्धं यत्कर्म परिकीर्तितं ।तस्मिन्संयोजनं कार्यं नचान्यत्र विधीयते ॥४१४॥तस्मान्नोद्धरणं कार्यं न चापि नयनं क्वचिथ् ।यत्तत्र परिपाट्या तु कर्म तत्र नियोजयेथ् ॥४१५॥ततोऽणिमादिरापाद्यो ब्रह्मभिश्चाप्यनुक्रमाथ् ।पञ्चाहुतिप्रयोगेण भोगार्थं चैवमात्मनः ॥४१६॥ऊर्ध्वशब्देन तज्ञेयं यद्भूर्लोकं समाश्रितं ।तस्मिन्युक्तस्य कर्तव्यं नचान्यस्मिन्कदाचन ॥४१७॥अनुद्धृते कथं योगः यावत्कर्म न भुज्यते ।तस्मात्तु योगशब्देन तत्तत्कर्मैकचिन्तना ॥४१८॥निवर्त्यते महादेवि निष्कृतिं जुहुयात्ततः ।शिवेनाष्टशताहुत्या ततस्तु भुवनाधिपान्॥ ४१९॥भुवनान्तर्निवासांश्च भुवनानां यथाक्रमं ।होमेनैव तु संशोध्य विश्लेषं छेदनं तथा ॥४२०॥पूर्णं चैव समुद्धारं तत्स्थत्वं चाप्यनुक्रमाथ् ।प्रायश्चित्तं ततो हुत्वा न्यूनाधिकनिमित्ततः ॥४२१॥एवमादिक्रमेणैव धामान्तं च विशोधयेथ् ।भूर्लोकस्तु समाख्यातो भुवोलोकं निबोध मे ॥४२२॥भूपृष्ठद्यावदादित्यं लक्षमेकं प्रमाणतः ।दश वायुपथा मध्ये त्वयुतायुतसंख्यया ॥४२३॥आद्ये वायुपथे मेघान्कथयामि यथास्थितान् ।पञ्चाशद्योजनादूर्ध्वं ऋतर्द्धिर्नाम मारुतः ॥४२४॥यो विवर्धयते पुष्टिं ओषधीनां बलं तथा ।बृंहयेच्च महीं सर्वां आप्याययति चाव्ययः ॥४२५॥दिवा हंसः स वै वायुर्मनुजानां सुखावहः ।यतो गृद्ध्रान्धारयति तेन गृद्ध्रधरः स्मृतः ॥४२६॥प्राचेतसो नाम वायुः प्रचेतोभिविनिर्मितः ।स वै नाशयते वृक्षान्कदाचित्संप्रवर्तयेथ् ॥४२७॥अग्निः प्राचेतसो नाम तेनैव सह तिष्ठति ।यदा दहति वेश्मानि तदासौ समुदाहृतः ॥४२८॥सुखी समुद्रे वसति स जलान्नोपशाम्यति ।योजनानां शतादूर्ध्वं सेनानीर्वायुरुच्यते ॥४२९॥विद्युद्वन्तो मूकमेघा वसन्त्यस्मिंश्च मारुते ।ते भुवः क्रोशमात्रेण तिष्ठन्तोऽपसृजन्त्यपः ॥४३०॥योजनानां शतादूर्ध्वं मेघाः सत्त्ववहाः स्मृताः ।मत्स्यमण्डूककूर्मांश्च वर्षन्त्येते च दुर्दिने ॥४३१॥योजनानां शतादूर्ध्वं वायुरोघः प्रकीर्तितः ।तस्मिंस्तु रोगदा मेघा वर्षन्ति च विषोदकं॥ ४३२॥तेनोपसर्गा जायन्ते मारकाः सर्वदेहिनां ।तस्मादूर्ध्वं तु तावद्भ्यो देव्यमोघः स्थितो मरुथ् ॥४३३॥तस्मिंस्ते मारका मेघा अमोघे संप्रतिष्ठिताः ।वज्राङ्गो नाम वै वायुः पञ्चाशद्योजनस्थितः ॥४३४॥तस्मिंस्तूपलका नाम मेघास्तूपलवर्षिणः ।तावद्भिर्योजनैरेव ततो वै वैद्युतोऽनिलः ॥४३५॥मेघाश्च वैद्युतास्तस्मिन्निवसन्ति तु वैद्युते ।अशनिर्वायुसंक्षोभात्तेष्वसौ जायते महान्॥ ४३६॥तदूर्ध्वं योजनानां च पञ्चाशद्रैवतः स्मृतः ।तस्मिन्पुष्टिवहो नाम पुष्टिं वर्षति देहिनां॥ ४३७॥संवर्ते रोगदा मेघास्ते रोगोदकवर्षिणः ।पञ्चाशद्योजने ते वै तस्मिंस्तिष्ठन्ति तोयदाः ॥४३८॥विषावर्तो नाम वायुः पञ्चाशदुपरि स्थितः ।तस्मिन्क्रोधोदका नाम मेघा वै संप्रतिष्ठिताः ॥४३९॥ते क्रोधरागबहुलं संग्रामबहुलं तथा ।राज्ञां क्षयकरं चैव प्रजानां क्षयदं तथा ॥४४०॥वर्षं चैवात्र कुर्वन्ति यदा वर्षन्ति ते घनाः ।अघोप्यमेघो वज्राङ्गो वैद्युतो रैवतस्तथा ॥४४१॥संवर्तश्च विषावर्तो वायवो घोरवेगिनः ।अघो वसन्ति वै दिव्याः पिशाचाः स्कन्ददेहजाः ॥४४२॥त्रिंशत्कोटिसहस्राणि स्कन्दस्यानुचराः स्मृताः ।ते वै दिव्यैश्च कुसुमैरर्चयन्ति हरात्मजं॥ ४४३॥अमोघे विनायका घोरा महादेवसमुद्भवाः ।त्रिंशत्कोटिसहस्राणि तस्मिन्वायौ प्रतिष्ठिताः ॥४४४॥ये हरन्ति कृतं कर्म नराणामकृतात्मनां ।वज्राङ्गेऽपि तथा वायौ मातङ्गाः क्रूरकर्मिणः ॥४४५॥भिन्नाञ्जननिभा घोरास्तापना नाम विश्रुताः ।विद्याधराणामधमा मनः पवनगामिनः ॥४४६॥ये विद्यापौरुषे ये च वैतालादीञ्श्मशानतः ।साधयित्वा ततः सिद्धास्तेऽस्मिन्वायौ प्रतिष्ठिताः ॥४४७॥वैद्युतेऽप्सरसस्तस्मिन्वासवेन प्रयोजिताः ।तिष्ठन्ति सर्वदा तत्र पृथिवीपुरपालने ॥४४८॥भृगो वह्नौ जले वापि संग्रामेष्वनिवर्तकाः ।गोग्रहे बन्दिमोक्षे वा म्रियन्ते पुरुषोत्तमाः ॥४४९॥ते व्रजन्ति ततस्तूर्ध्वं विमानैर्मणिचिह्नितैः ।पताकादीर्घिकाकीर्णैर्दिव्यघण्टानिनादितैः ॥४५०॥स्त्रीसहस्रपरीवारैर्विमानैस्तान्नयन्ति ताः ।रैवते तु महात्मानः सिद्धा वै संप्रतिष्ठिताः ॥४५१॥गोरोचनाञ्जने भस्म पादुके अजिनादि च ।साधयित्वा महात्मानः सिद्धास्ते कामरूपिणः ॥४५२॥ते वसन्ति महात्मानो दिव्यां सिद्धिमवस्थिताः ।संवर्तेऽपि महावायौ विद्याधरगणाः स्मृताः ॥४५३॥दश त्रिंशच्च कोट्यस्ते दिव्याभरण भूषिताः ।दिव्यगन्धानुलिप्तास्ते दिव्यस्रग्धामभूषिताः ॥४५४॥आग्नेया धूमजा मेघाः शीतदुर्दिनदाः स्मृताः ।विषावर्तं नावमिव ते वायुं यान्ति मिश्रिताः ॥४५५॥तत्र गन्धर्वकुशला गन्धर्वसहधर्मिणः ।वंशवीणाविधिज्ञाश्च पक्षिणः कामरूपिणः ॥४५६॥ब्रह्मजा नाम वै मेघा ब्रह्मनिःश्वाससंभवाः ।उपरिष्टाद्योजनशताद्दुर्जयस्योपरि स्थिताः ॥४५७॥तत्र वै दुर्जया नाम इन्द्रस्य परिरक्षकाः ।परावहाभिधं वायुं ते समाश्रित्य संस्थिताः ॥४५८॥महावीर्यबलोपेता दश कोट्यः प्रकीर्तिताः ।पुष्करावर्तका नाम मेघा वै पद्मजोद्भवाः ॥४५९॥शक्रेण पक्षा ये च्छिन्नाः पर्वतानां महात्मनां ।परावहस्तान्वहति मनुजानिव वारणः ॥४६०॥तस्मिन्वायुगमा नाम गन्धर्वा गगनालयाः ।एकादश तु वै कोट्यस्तेषां तु समुदाहृताः ॥४६१॥जीमूता नाम ये मेघा देवेभ्यो जीवसंभवाः ।द्वितीयमावहं वायुं मेघास्ते च समाश्रिताः ॥४६२॥तस्मिञ्जीमूतका नाम विद्याधरगणा दश ।आवहस्तु ततो वायुर्यत्र द्रोणाः समाश्रिताः ॥४६३॥तस्मिन्द्रोणाः समाख्याता मेघानां परिरक्षकाः ।हितार्थं तु प्रजानां वै निर्मितास्ते मया पुरा ॥४६४॥उपरिष्टात्कपालोत्थाः संवर्तानाम वै घनाः ।महापरिवहो नाम वायुस्तेषां समाश्रयः ॥४६५॥आद्ये वायुपथेह्येवं मेघा वै वायुभिः सह ।सिद्धाश्च पतयश्चैव कथिता मेघचारिणः ॥४६६॥द्वितीये वायुपथे ज्ञेया अग्निकन्याश्च मातरः ।ता वसन्ति गुणोपेता रुद्रशक्त्यात्वधिष्ठिताः ॥४६७॥तृतीये वायुपथे चैव वसन्ते सिद्धचारणाः ।स्वकर्मभोगसंसिद्धाः सर्वसिद्धैरधिष्ठिताः ॥४६८॥चतुर्थे पथि चैवात्र वसन्त्यायुधदेवताः ।नाराचचक्रचापर्ष्टि शूलशक्तीषुमुद्गराः ॥४६९॥पञ्चमे पथि देवेशि वसन्त्यैरावतादयः ।ऐरावतोऽञ्जनश्चैव वामनश्च महागजः ॥४७०॥सुप्रतीको गजेन्द्रश्च पुष्पदन्तस्तथैव च ।कुमुदः पुण्डरीकश्च सार्वभ्ॐओऽपि चाष्टमः ॥४७१॥दिग्गजा इति विख्याताः स्वसु दिक्षु व्यवस्थिताः ।षष्ठे वायुपथे देवि पक्षिराजो महाबलः ॥४७२॥गरुत्मानिति विख्यातो दुर्जयोऽतीव वीर्यवान् ।सप्तमे व्योमगङ्गा तु नानाजलचरानुगा ॥४७३॥दिव्यामृतजला पुण्या त्रिधा सा परिकीर्तिता ।सा भ्रान्ता नभसो मध्ये समन्तात्परिमण्डला ॥४७४॥आकाशगङ्गा प्रथिता देवानां सततोत्सवा ।पुष्पमालेव सा भाति नभसः शिरसि स्थिता ॥४७५॥तत्र सिद्धैर्महाभागैर्विद्याधरगणैस्तथा ।गन्धर्वैरप्सरोभिश्च साध्यैर्विश्वैर्मरुद्गणैः ॥४७६॥रुद्रैर्वसुभिरादित्यैः पितृदेवमहर्षिभिः ।रक्षोभिर्गुह्यकैश्चैव दिव्यस्तुतिपरायणैः ॥४७७॥स्तुवद्भिश्च जपद्भिश्च गायद्भिश्च महात्मभिः ।नृत्यद्भिर्वल्गमानैश्च दिव्यदुन्दुभिनिःस्वनैः ॥४७८॥भेरीमृदङ्गवाद्यैश्च वल्लकीनां च निःस्वनैः ।वंशवादित्रनादैश्च मनोवायुसमीरितैः ॥४७९॥वैदूर्यनालैः कमलैर्हेमपत्रैः सुगन्धिभिः ।केसरैः पद्मरागैश्च महाचक्रप्रमाणकैः ॥४८०॥नृत्यन्तीव सरिच्छ्रेष्ठा विमानशतमण्डिता ।मण्डिता च वनैर्दिव्यैर्धर्माधारा महानदी ॥४८१॥मम नेत्राद्विनिष्क्रान्ता क्रियाशक्तिः परा हि सा ।महामन्दाकिनी देवी त्रिदशैः पर्युपासिता ॥४८२॥महाविमानकोटीभिर्निरन्तरमवस्थितैः ।शोभितासौ भगवती नित्यमास्ते नभस्तले ॥४८३॥तत्रैषा मेरुशिरसि मम वै मस्तकाच्च्युता ।पपात धरणीपृष्ठे लोकानां हितकाम्यया ॥४८४॥अक्षोभ्या साप्यसौ गङ्गा तिष्ठत्यनिलधारिता ।योजनानां शतं पूर्णं विस्तारोऽस्याः प्रकीर्तितः ॥४८५॥परिणाहस्ततः कोट्यः महावेगवती शुभा ।सा भ्रमन्तीव संतिष्ठेत्समन्तात्परिमण्डला ॥४८६॥ध्रुवमापूर्य सा देवी त्वत्यद्भुतमवस्थिता ।दिव्यामृतवहा पुण्या सर्वपापप्रणाशिनी ॥४८७॥अष्टमे वृषराजस्तु सपत्नीकः सनन्दनः ।वसति त्वप्रतीघातः प्रत्यक्षो धर्म एव सः ॥४८८॥नवमे पथि चात्रास्ते दक्षो नाम प्रजापतिः ।ब्रह्मैव साक्षाद्वसति ब्रह्मशक्त्या त्वधिष्ठितः ॥४८९॥दशमे वायुपथे देवि वसुरुद्रदिवाकराः ।अत्र चाङ्गारकः सर्पिर्नैरृतः सदसत्पतिः ॥४९०॥सदसस्पतिः?बुधश्च धूमकेतुश्च विख्यातश्च ज्वरस्तथा ।अजश्च भुवनेशश्च मृत्युः कापालिकस्तथा ॥४९१॥एकादश स्मृता रुद्राः सर्वकामफलोदयाः ।धाता ध्रुवश्च सोमश्च वरुणश्चानिलोऽनलः ॥४९२॥प्रत्यूषश्च प्रदोषश्च वसवोऽष्टौ प्रकीर्तिताः ।वसवः कथिताह्येते आदित्यांश्च निबोध मे ॥४९३॥अर्यमा इन्द्रवरुणौ पूषा विष्णुर्गभस्तिमान् ।मित्रश्चैव समाख्यातस्त्वजघन्यो जघन्यकः ॥४९४॥विवस्वांश्चैव पर्जन्यो धाता वै द्वादशः स्मृतः ।काश्यपेयान्विदुस्त्वेतान्तेषां तेजोनिधेरथ ॥४९५॥अमृतोद्भवोऽर्थो दिव्यः सर्वदेवसमन्वितः ।यज्ञश्चक्रं रथे तस्मिन्सर्वज्ञानमयी च धूः ॥४९६॥सप्ताश्वाश्च स्वराः सप्त वेदहूंकारनिःस्वनाः ।नागा योक्त्राणि तेषां वै अरुणश्चैव सारथिः ॥४९७॥सत्यं च मञ्चकं तस्य वायुर्वेगो रथस्य तु ।नवयोजनसाहस्रो विग्रहो भास्करस्य तु ॥४९८॥त्रिगुणं मण्डलं तस्य त्रैलोक्ये भाति भास्वरं ।ज्ञानशक्तिः पराह्येषा तपत्यादित्यविग्रहा ॥४९९॥मासवारप्रयोगेण संचरन्ति शिवेच्छया ।अहोरात्रं भ्रमन्त्येते भुवर्लोकं समन्ततः ॥५००॥ N/A References : N/A Last Updated : June 16, 2012 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP