संस्कृत सूची|शास्त्रः|तंत्र शास्त्रः|स्वच्छन्दभैरवतन्त्र| पञ्चमः पटलः स्वच्छन्दभैरवतन्त्र प्रथमः पटलः द्वितीयः पटलः तृतीयः पटलः चतुर्थः पटलः पञ्चमः पटलः षष्ठः पटलः सप्तमः पटलः अष्टमः पटलः नवमः पटलः दशमः पटलः १ दशमः पटलः २ दशमः पटलः ३ दशमः पटलः ४ दशमः पटलः ५ दशमः पटलः ६ दशमः पटलः ७ दशमः पटलः ८ दशमः पटलः ९ दशमः पटलः १० दशमः पटलः ११ दशमः पटलः १२ दशमः पटलः १३ एकादशः पटलः द्वादशः पटलः त्रयोदशः पटलः चतुर्दशः पटलः पञ्चदशः पटलः स्वच्छन्दभैरवतन्त्र - पञ्चमः पटलः स्वच्छन्दभैरवतन्त्र हे एक असे तंत्र आहे, ज्यापासून प्रत्यक्ष भैरव मदतीला उभे राहतात. Tags : shastratantraतंत्रशास्त्रस्वच्छन्दभैरवतन्त्र पञ्चमः पटलः Translation - भाषांतर कलादीक्षा सुरेशान कथिता परमेश्वर ।तत्त्वदीक्षा समासेन कथयस्व प्रसादतः ॥१॥समासात्कथयिष्यामि त्वत्प्रियार्थं वरानने ।षट्त्रिंशत्तत्त्वमुख्यानि यथा शोध्यानि पार्वति ॥२॥पृथिव्यादिशिवान्तानि स्वव्याप्त्यानुगुणैः सह ।यथा शुद्ध्यान्ति देवेशि तथा ते कथयाम्यहं ॥३॥विद्याराजस्य ये वर्णा नवसंख्योपलक्षिताः ।वाचकास्ते च तत्त्वानां कथयाम्यनुपूर्वशः ॥४॥धरित्र्यादिप्रधानान्तं ऊकारो वाचकः स्मृतः ।पुरुषस्य यकारो वै रागतत्त्वान्वितस्य च ॥५॥नियामिकां वकारेण विद्यातत्त्वसमन्वितां ।कालं कलां लकारेण कल्पयेत्तु वरानने ॥६॥मायातत्त्वं मकारेण विद्यातत्त्वं क्षकारतः ।रेफेण चैश्वरं तत्त्वं हकारेण सदाशिवः ॥७॥प्रणवेन तथा शक्तिर्न्यसितव्या वरानने ।व्यापिनीं समनां चोर्ध्वं तत्रैव तु विशोधयेथ् ॥८॥शोधयित्वा क्रमेणैव मूलमन्त्रेण सुव्रते ।योज्य आत्मा परे तत्त्वे उन्मनातीतसर्वगे ॥९॥निराभासे परे शान्ते ईशाने चाव्यये त्वजे ।षट्त्रिंशत्तत्त्वमाख्यातं नवतत्त्वं प्रचक्ष्महे ॥१०॥प्रकृतिः पुरुषश्चैव नियतिः काल एव च ।माया विद्या तथेशश्च सदाशिवशिवौ तथा ॥११॥शोधयित्वा तु विधिवद्व्याप्त्यात्मानं नियोजयेथ् ।पञ्चतत्त्वी यदा शोध्या वक्त्रमन्त्रास्तु वाचकाः ॥१२॥धरित्र्यादि खपर्यन्तं शोधयेत्तत्क्रमेण तु ।कलानां यावती व्याप्तिस्तत्त्वानां तावदेव हि ॥१३॥त्रितत्त्वमधुना वक्ष्ये यथा शोध्यं वरानने ।अकार आत्मतत्त्वस्य वाचकः परिकीर्तितः ॥१४॥मायान्तं तद्विजानीयात्विद्याख्यस्याप्युकारकः ।सकलावधि तज्ज्ञेयं शिवस्य तु मकारकः ॥१५॥खस्वरः खस्वरूपस्य शिवतत्त्वस्य वाचकः ।शोधयित्वा क्रमेणैव परे तत्त्वे नियोजयेथ् ॥१६॥तत्त्वदीक्षा समाख्याता चतुर्भेदव्यवस्थिता ।परदीक्षां प्रवक्ष्यामि यथावदनुपूर्वशः ॥१७॥विद्याराजे तु ये वर्णा नवसंख्योपलक्षिताः ।पृथग्भेदेन तेषां तु विन्यासं कथयामि ते ॥१८॥नवनाभं पुरं कृत्वा नवपद्मोपलक्षितं ।नवहस्तं लिखेद्वेश्म अष्टपर्वाधिकं बुधः ॥१९॥सप्तभागीकृतं तत्तु दक्षिणोत्तरभाजितं ।चतुरश्रं विभज्यादौ मत्स्यैश्चैवात्र चिह्नितं ॥२०॥कोष्ठकैकोनपञ्चाशत्सूत्रेण तु समालिखेथ् ।मध्यमे कोष्ठके सूत्रं द्वात्रिंशाङ्गुलसम्मितं ॥२१॥समालिख्य महादेवि चतुर्भागविभाजिते ।प्रथमे कर्णिकां कुर्यात्केसराणि द्वितीयके ॥२२॥तृतीये दलसन्धींश्च दलाग्राणि चतुर्थके ।दिक्षु रेखाष्टकं दत्त्वा प्रतिदिक्षु तथैव च ॥२३॥भ्रामयेच्चतुरो वृत्तांश्चतुरङ्गुलसम्मितान् ।द्वाभ्यां प्रतिदिग्रेखाभ्यां मध्ये सूत्रं निधाप्य तथ् ॥२४॥सूत्राग्रं तु ततो भ्राम्यं अर्धचन्द्रविधानतः ।मध्यसूत्रं च दातव्यं किञ्जल्कस्थं विपश्चिता ॥२५॥पूर्वपत्रं प्रसाध्यवं इतराण्येवमेव हि ।केसराणि च संलिख्य चतुर्विंशतिसंख्यया ॥२६॥पत्राग्रतो न्यसेल्लेखां वर्तुलां तु सुशोभनां ।तस्यान्तं चतुरश्रं तु कर्तव्यं तत्प्रमाणतः ॥२७॥पूर्वं ब्रह्म प्रसाध्यं तु विषुवत्स्थेन हेलिना ।पूर्वपश्चात्ततं सूत्रं शङ्कुना साधयेत्प्रिये ॥२८॥द्वादशाङ्गुलमानेन मध्ये शङ्कुं प्ररोप्य तं ।पार्श्वेषु भ्रामयेद्रेखां षोडशाङ्गुलसम्मितां ॥२९॥पूर्वाह्ने ग्राहयेच्छायां अपरस्थां सुचिह्नितां ।अपरस्थेन सूर्येण प्राक्छायां लाञ्छयेत्प्रिये ॥३०॥ध्रुवेणोत्तरदक्षस्थां लाञ्छयेत्तु वरानने ।ततः समालिखेत्पद्मं अष्टपत्रं सकर्णिकं ॥३१॥दिक्कोष्ठकांश्च संगृह्य अष्टसंख्योपलक्षितं ।शेषा लोप्या वरारोहे एकान्तरितयोगतः ॥३२॥पद्माष्टकं ततो दिक्षु बाह्ये द्वाराणि चालिखेथ् ।वीथ्यर्धसम्मितां देवि शोभां चैव प्रकल्पयेथ् ॥३३॥उपशोभां च तन्मानां कपोलान्तं समालिखेथ् ।तथा कण्ठं च तन्मानं द्वारमेतत्प्रकीर्तितं ॥३४॥द्वाराष्टकविभागेन नवनाभं पुरं स्मृतं ।स्नात्वा तु विधिवद्देवि प्रविशेद्भवनं गुरुः ॥३५॥पूर्वोक्तेन विधानेन सकलीकरणादिकं ।ततः सम्पूजयेद्देवं भैरवं परमेश्वरं ॥३६॥प्रणवेनासनं दत्त्वा शिवान्तं वरवर्णिनि ।मध्ये सम्पूजयेद्देवं स्वच्छन्दं परमेश्वरं ॥३७॥पूर्वोक्तेन विधानेन अङ्गषट्कसमन्वितं ।पत्राष्टके न्यसेद्वर्णान्पूर्वादीशांश्ततः क्रमाथ् ॥३८॥सदाशिवं हकारेणेत्येवमादि वरानने ।प्रकृत्यन्तं विजानीयान्मध्ये पीठेशकल्पना ॥३९॥दिक्पद्मकर्णिकासंस्थानष्टौ देवान्प्रपूजयेथ् ।तत्स्थाने भैरवः पूज्यः शेषा वर्णैर्यथाक्रमं॥ ४०॥शोधयेच्च प्रकृत्यादि- शिवान्तं सुरसुन्दरि ।ईशानदिश आरभ्य मध्यपीठं विशोधयेथ् ॥४१॥योजयेत्तु परे तत्त्वे शिवे परमकारणे ।एवं वर्णास्तथा मन्त्रान्भुवनानि विशोधयेथ् ॥४२॥कालाग्न्यादि शिवान्तं तु कलाविधि समाश्रयेथ् ।समयान्श्रावयेत्पश्चात्तन्त्राम्नायोत्थितान्प्रिये ॥४३॥न निन्देद्भैरवं देवं शास्त्रं वान्यसमुद्भवं ।सांख्यं योगं पाञ्चरात्रं वेदांश्चैव न निन्दयेथ् ॥४४॥यतः शिवोद्भवाः सर्वे ह्यपवर्गफलप्रदाः ।स्मार्तं धर्मं न निन्देत्तु आचारपथदर्शकं॥ ४५॥ब्रह्मादिदेवता याश्च मातरश्चुम्बको गिरिः ।वीराश्चैव भगिन्यश्च गावो भूतगणास्तथा ॥४६॥देवद्रव्यं न हिंस्यात्तु सिद्धान्ते यद्व्यवस्थितं ।गुरोरन्नं न भुञ्जीत अदत्तं परमेश्वरि ॥४७॥मद्यं मांसं तथा मत्स्यानन्यानि च वरानने ।साचाराश्च निराचारांल्लिङ्गिनो न जुगुप्सयेथ् ॥४८॥चरुकं प्राशयन्नित्यं गुरून्सम्पूजयेत्सदा ।उपस्करान्महादेवि पादेन तु न संस्पृशेथ् ॥४९॥संहितां चिन्तयेन्नित्यं भक्तानां श्रावयेत्सदा ।आह्निकं न विलुम्पेत्तु सन्ध्याकर्म वरानने ॥५०॥अदीक्षितानां पुरतो नोच्चरेच्छास्त्रपद्धतिं ।त्रिकालं पूजयेद्देवं जपध्यानरतः सदा ॥५१॥समयान्पालयन्नित्यं उभयार्थफलेप्सया ।अतो विज्ञानदीक्षां तु प्रवक्ष्याम्यनुपूर्वशः ॥५२॥अध्यात्मगतिचारेण केवलेन विशोधिकां ।शिष्यात्मानं गृहीत्वा तं आत्मप्राणे नियोजयेथ् ॥५३॥अभिमानं तथोच्चार्य कुर्याद्वै पूर्ववत्तदा ।उद्घातैश्च ततोऽध्वानं शिष्यस्य तु विशोधयेथ् ॥५४॥ततः समुच्चरंस्तत्त्वं पृथिव्याद्यं तु सुव्रते ।भिन्नाभिन्नस्वरूपेण एकैकं तु यथाक्रमं ॥५५॥सस्वरं ह्यक्षरोच्चारं देवताभिः समन्वितं ।बिन्दुना शक्तिसंयोगादुद्घातः प्रथमः स्मृतः ॥५६॥देवतात्रयनिर्मुक्तः चतुर्थान्तसमन्वितः ।उद्घातः स तु देवेशि द्वितीयः परिकीर्तितः ॥५७॥हंसाक्षरसमुच्चारः सुदीर्घो बिन्दुसंयुतः ।अर्धचन्द्रान्निरोधिन्यां उद्घातस्तु तृतीयकः ॥५८॥भिन्नोद्घातौ यदा देवि नादान्तस्तु तदा भवेथ् ।उद्घातः स तु देवेशि चतुर्थः परिकीर्तितः ॥५९॥स एव चाक्षरोच्चारो व्यापिन्यन्ते व्यवस्थितः ।उद्घातः स तु देवेशि पञ्चमः परिकीर्तितः ॥६०॥पञ्चोद्घातांस्ततो दत्त्वा पृथिवीं शोधयेद्बुधः ।अकारोकारमकारान्तं एवं शुद्ध्यति नान्यथा ॥६१॥शुद्धेऽथ पार्थिवे तत्त्वे चिन्तितव्यं तु योगिभिः ।जलीभूतं तदेवैतदात्मना सह योगतः ॥६२॥जलीभूते पुनर्मन्त्री तदेव चतुरुच्चरेथ् ।बिन्द्वन्तं धारणायुक्तं शिष्यादात्मनि चिन्तयेथ् ॥६३॥शोधिते तोयसंघाते तेजोभूतं विचिन्तयेथ् ।तेजोद्घातास्त्रयस्तेषु निरोध्यन्तमवस्थिताः ॥६४॥नास्ति तेजस्ततो वायुरुद्घातद्वयशोधितः ।आकाशे लीयमानं तं उद्घातेन तु चिन्तयेथ् ॥६५॥नष्टे वायौ ततः शून्यं उद्घातैकेन योजयेथ् ।व्यापिनी सा तु विज्ञेया पञ्चमान्ते व्यवस्थिता ॥६६॥समनायां ततो ह्यात्मा तत्त्वव्यापी स उच्यते ।आत्मव्यापी ततश्चोर्ध्वं सर्वव्यापी ततः पुनः ॥६७॥तत्त्वान्तसंस्थितो ह्यात्मा उद्घातैकेन योगविथ् ।योजयेत्परमे तत्त्वे उन्मनातीतसर्वगे ॥६८॥योजनां तु परे तत्त्वे शृणु देवि वदाम्यहं ।मन्त्रमुच्चारयेद्देवि ह्रस्वं दीर्घं प्लुतं परं ॥९॥परापरविभागेन यावत्तत्त्वं परं गतं ।त्रिदेवं बिन्दुसंयुक्तं अर्धचन्द्रं निरोधिकां ॥७०॥नादं च शक्तिसंयुक्तं व्यापिनीसमनोन्मनाः ।उन्मना च परश्चैव सर्वव्यापी शिवोऽव्ययः ॥७१॥ज्ञात्वा सर्वमशेषेण विधिमेषां यथाक्रमं ।तदा तु योजयेन्मन्त्री अन्यथा नैव योजयेथ् ॥७२॥बिन्दुस्थं त्रितयं शब्दे चतुर्थो बिन्दुरेव हि ।ब्रह्मा विष्णुस्तथा रुद्रः त्रिमाणं वर्ण उच्यते ॥७३॥ईश्वरो बिन्दुदेवस्तु कण्ठे शब्दः प्रवर्तते ।तत्र शब्दः क्रियान्तस्थः क्रियाशक्तिरिति स्मृता ॥७४॥स शब्दस्तालुके देवि ईरितः सम्प्रवर्तते ।तस्य किंचिद्गतः शब्दो नासिकान्ते प्रवर्तते ॥७५॥ज्ञानशक्तिस्तुविज्ञेया यत्नतः परमेश्वरि ।मूर्धस्थानगतः शब्दो ललाटान्तमवस्थितः ॥७६॥वर्णः शब्दगतः तेषां उद्घातः स तु कीर्तितः ।तत्रस्था विनिवर्तन्ते शिवज्ञानविवर्जिताः ॥७७॥पञ्चधावस्थितो बिन्दुरर्धचन्द्रो निरोधिका ।तस्यातीतो भवेन्नादः अविच्छिन्नस्त्वसौ भवेथ् ॥७८॥ईषत्प्रसारिते वक्त्रे देवदेवः सदाशिवः ।चतुर्विधो भवेच्छब्दो यः सुवेगवहः स्मृतः ॥७९॥पञ्चमो न वहेच्छब्दः ऊर्ध्वगामिन्यसौ स्मृता ।तस्यातीता भवेच्छक्तिः पञ्चधा तु व्यवस्थिता ॥८०॥स्पर्शस्तत्र भवेद्देवि आत्मवित्तत्र पूर्ववथ् ।व्यापिनी परतश्चैव पञ्चधा तु व्यवस्थिता ॥८१॥वालाग्रमाश्रितं स्पर्शं कदाचिद्वेत्ति वा न वा ।व्यापिनी सा समुद्दिष्टा न ज्ञानं परमेश्वरि ॥८२॥तस्यापि समनातीता मनस्तत्र न कारयेथ् ।उन्मनापदमारोहन्शुद्धात्मा तु ततो भवेथ् ॥८३॥शिष्यात्मानं गुरुवर उन्मन्यन्ते नियोजयेथ् ।तत्र युक्तः परे शान्ते महाशान्तिमवाप्नुयाथ् ॥८४॥गुरुपारम्परायातः सम्प्रदायः प्रकाशितः ।योजने तु परे तत्त्वे उपायः कथितस्तव ॥८५॥एवं ज्ञात्वा वरारोहे सर्वकर्माणि कारयेथ् ।तत्त्वाध्वानं कलाध्वानं भुवनाध्वानमेव च ॥८६॥वर्णमन्त्रपदाध्वानं कृत्वैवं शुद्ध्यति प्रिये ।एषा वै धारणादीक्षा कर्तव्या योगिनात्र तु ॥८७॥मन्त्रसिद्धेन वा देवि कृता वै सुकृता भवेथ् ॥८८॥इति स्वच्छन्दतन्त्रे तत्त्वदीक्षाप्रकाशनं नाम पञ्चमः पटलः N/A References : N/A Last Updated : June 16, 2012 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP