संस्कृत सूची|शास्त्रः|तंत्र शास्त्रः|स्वच्छन्दभैरवतन्त्र| दशमः पटलः १२ स्वच्छन्दभैरवतन्त्र प्रथमः पटलः द्वितीयः पटलः तृतीयः पटलः चतुर्थः पटलः पञ्चमः पटलः षष्ठः पटलः सप्तमः पटलः अष्टमः पटलः नवमः पटलः दशमः पटलः १ दशमः पटलः २ दशमः पटलः ३ दशमः पटलः ४ दशमः पटलः ५ दशमः पटलः ६ दशमः पटलः ७ दशमः पटलः ८ दशमः पटलः ९ दशमः पटलः १० दशमः पटलः ११ दशमः पटलः १२ दशमः पटलः १३ एकादशः पटलः द्वादशः पटलः त्रयोदशः पटलः चतुर्दशः पटलः पञ्चदशः पटलः स्वच्छन्दभैरवतन्त्र - दशमः पटलः १२ स्वच्छन्दभैरवतन्त्र हे एक असे तंत्र आहे, ज्यापासून प्रत्यक्ष भैरव मदतीला उभे राहतात. Tags : shastratantraतंत्रशास्त्रस्वच्छन्दभैरवतन्त्र दशमः पटलः १२ Translation - भाषांतर रागो द्वेषश्च वैचित्त्यं कुपितानृतद्रोहिता ।माया मात्सर्यधर्मश्च अधर्मश्चास्वतन्त्रता ॥११०१॥आगन्तुकाश्च बोधव्याः गणपाशान्निबोध मे ।देवी नन्दिमहाकालौ गणेशो वृषभस्तथा ॥११०२॥भृङ्गी चण्डीश्वरश्चैव कार्तिकेयोऽष्टमः स्मृतः ।अनन्तस्त्रितनुः सूक्ष्मः श्रीकण्ठश्च शिवोत्तमः ॥११०३॥शिखण्डी चैकनेत्रश्च एकरुद्रस्तथापरः ।विद्येश्वरात्मकान्पाशान्दीक्षाकाले विशोधयेथ् ॥११०४॥उक्तानुक्ताश्च ये चात्र अन्यतन्त्रोक्तलक्षणाः ।पौरुषेये तु शोध्यास्ते ततो मुच्येत पुद्गलः ॥११०५॥अथोर्ध्वे नियतिर्ज्ञेया तस्यां रुद्रान्निबोध मे ।वामदेवस्तथा शर्वस्तथा चैव भवोद्भवौ ॥११०६॥वज्रदेहः प्रभुश्चैव धाता च क्रमविक्रमौ ।सुप्रभेदश्च दशमो नियत्यां शङ्कराः स्मृताः ॥११०७॥यत्तद्धृदि स्थितं पद्मं आत्मा तत्र व्यवस्थितः ।नियतिदलमहङ्कार केसरं बुद्धिकर्णिकं ॥११०८॥कालतत्त्वे शिवा ज्ञेया कथयामि समासतः ।शुद्धो बुद्धः प्रबुद्धश्च प्रशान्तः परमाक्षरः ॥११०९॥शिवश्च सुशिवश्चैव ध्रुवश्चाक्षरशम्भुराठ् ।दशैते तु शिवा ज्ञेयाः कालतत्त्वे वरानने ॥१११०॥हेमाभाः शङ्कराः प्रोक्ताः शिवः स्फटिकसन्निभाः ।एकैकस्य विनिर्दिष्टा परिवारो यशस्विनि ॥११११॥कोटिरेका तथान्यानि सहस्राणि तु षोडश ।कूर्माकाराणि सर्वेषां प्रोक्तानि भुवनानि तु ॥१११२॥अत ऊर्ध्वं हरिहरौ रागतत्त्वे निबोध मे ।सुहृष्टः सुप्रहृष्टश्च सुरूपो रूपवर्धनः ॥१११३॥मनोन्मनो महाधीरः वीरेशाः परिकीर्तिताः ।रागतत्त्वे प्रवक्ष्यामि येऽन्ये रुद्रा व्यवस्थिताः ॥१११४॥कल्याणः पिङ्गलो बभ्रुर्वीरश्च प्रब्भवस्तथा ।मेधातिथिश्च्छन्दकश्च दाहकः शास्त्रकारिणः ॥१११५॥पञ्चशिष्यास्तथाचार्या दशैते संव्यवस्थिताः ।विद्यातत्त्वमतश्चोर्ध्वं तस्मिन्वै भुवनं शृणु ॥१११६॥वामो ज्येष्ठश्च रौद्रश्च कलो विकरणस्तथा ।बलविकरणश्चैव बलप्रमथनस्तथा ॥१११७॥सर्वभूतदमनश्च तथा चैव मनोन्मनः ।कलातत्त्वे महादेवि महादेवत्रयं स्थितं ॥१११८॥महादेवो महातेजा महाज्योतिः प्रतापवान् ।कलातत्त्वं समाख्यातं समासेन वरानने ॥१११९॥एते रुद्रा महादेवि त्रिनेत्राश्चन्द्रशेखराः ।रुद्रकोटिसहस्रैस्तु समन्तात्परिवारिताः ॥११२०॥शुद्धस्फटिकसङ्काशाः योगैश्वर्यबलान्विताः ।रागे रक्तास्तु विज्ञेया ज्ञानयोगबलोत्कटाः ॥११२१॥छत्राकारास्तु तेषां वै गृहा रत्नविचित्रिताः ।उपरिष्टाद्भवेन्माया कथयामि समासतः ॥११२२॥व्याप्य या वै त्वधोध्वानं वैश्वरूप्येण संस्थिता ।तत्र रुद्रा महाभागा द्वादशैव महाबलाः ॥११२३॥गहनश्च असाध्यश्च तथा हरिहरः प्रभुः ।दशेशानश्च देवेशि त्रिगलो गोपतिस्तथा ॥११२४॥अधःपुटे तु विज्ञेया मायातत्त्वे वरानने ।क्षेमेशो ब्रह्मणः स्वामी विद्येशानस्तथैव च ॥११२५॥विद्येशश्च शैवश्चैव अनन्तः षष्ठ उच्यते ।ऊर्ध्वमायापुटस्थास्तु रुद्रा एते प्रकीर्तिताः ॥११२६॥एषां मध्ये तु भगवाननन्तेशो जगत्पतिः ।उद्भवं भावयित्वा तु स्वेच्छया कुरुते प्रभुः ॥११२७॥सर्वज्ञः सर्वकर्ता च निग्रहानुग्रहे रतः ।प्रथमेन तु भेदेन रुद्रा द्वादश कीर्तिताः ॥११२८॥अस्मिंस्तु ये यथा रुद्रा मायातत्त्वे व्यवस्थिताः ।तथाहं कथयिष्यामि भेदत्रयविभागशः ॥११२९॥गोपतिश्च ततो देवि अधोग्रन्थौ व्यवस्थितः ।ग्रन्थ्यूर्ध्वे संस्थितो विश्वस्त्रिकलः क्षेम एव च ॥११३०॥ब्रह्मणोऽधिपतिश्चैव शिवश्चेति स पञ्चमः ।अध ऊर्ध्वमनन्तस्तु पाशाश्चैवात्र संस्थिताः ॥११३१॥पूर्वं वै कथिता देवि अतो ऋषिकुलं भवेथ् ।योनिर्वागीश्वरी चैव यस्यां जातो न जायते ॥११३२॥ओंकारसाध्यधातारो दमनेशस्ततः परं ।ध्यानं भस्मेशमेवाहुः प्रमाणानि तदूर्ध्वतः ॥११३३॥पञ्चार्थं गुह्यमेवाहू रुद्राङ्कुशमतः परं ।हृदयं लक्षणं चैव व्युहमाकर्षमेव च ॥११३४॥आदर्शं च तथैवेह अष्टमं परिकीर्तितं ।एते परिवृता देवि रुद्रकोटिसहस्रकैः ॥११३५॥नानावर्णविचित्राश्च नानाब्भरणभूषिताः ।नानानारीसहस्रैस्तु रमन्ते पत्युरिच्छया ॥११३६॥त्रिनेत्राः शूलिनः सर्वे जटाचन्द्रकीरीटिनः ।अलुप्तशक्तिविभवा मायातत्त्वाधिकारिणः ॥११३७॥भुवनेषु विचित्रेषु योन्याकारेषु संस्थिताः ।अतः परं भवेन्माया सर्वजन्तुविमोहिनी ॥११३८॥निर्वैरपरिपन्थिन्या तया भ्रमितबुद्धयः ।इदं तत्त्वमिदं नेति विवदन्तीह वादिनः ॥११३९॥सत्पथं तु परित्यज्य नयति द्रुतमुत्पथं ।गुरुदेवाग्निशास्त्रस्य ये न भक्ता नराधमाः ॥११४०॥असद्युक्तिविचारज्ञाः शुष्कतर्कावलंबिनः ।भ्रमयत्येव तान्माया ह्यमोक्षे मोक्षलिप्सया ॥११४१॥शिवदीक्षासिना च्छिन्ना न प्ररोहेत्तु सा पुनः ।अथोपरि महाविद्या सर्वविद्याभवोद्भवा ॥११४२॥जगतः प्रलयोत्पत्ति- विभूतिनिधिरव्यया ।सा एव परमा देवी वागीशीति निगद्यते ॥११४३॥अष्टवर्गविभिन्ना च विद्या सा मातृकैव तु ।भुवनानि प्रवक्ष्यामि यथावदनुपूर्वशः ॥११४४॥वामा ज्येष्ठा तथा रौद्री काली विकरणी तथा ।बलविकरणी चैव बलप्रमथनी ताथा ॥११४५॥दमनी सर्वभूतानां तथा चैव मनोन्मनी ।तप्तचामीकराकाराः पञ्चवक्त्रास्त्रिलोचनाः ॥११४६॥अमोघवीर्याः सर्वज्ञाः सर्वतः सर्वदा स्थिताः ।सर्वज्ञानुगताः सर्वाः सर्वाभरणभूषिताः ॥११४७॥सर्वलक्षणसम्पन्नः सर्वैश्वर्यसमन्विताः ।प्रधानाः सप्त कोट्यस्तु मन्त्राणां या व्यवस्थिताः ॥११४८॥एकैकस्य परीवारो लक्षायुतसहस्रशः ।पद्माकारेषु दिव्येषु क्रीडन्ति भुवनेषु ते ॥११४९॥त्रिगुणी ब्रह्मवेताली स्थाणुमत्यम्बिका परा ।रूपिणी मर्दिनी ज्वाला सप्तसङ्ख्यास्तदीश्वराः ॥११५०॥विद्याराज्ञ्यः समाख्याताः दीक्षाकाले विशोधयेथ् ।बाह्ये तस्यैश्वरं तत्त्वं भुवनान्यत्र मे शृणु ॥११५१॥अष्टविद्येश्वरैर्युक्तो वीतमायो निरञ्जनः ।स्थितिसंहारकर्ता वै मोक्षैश्वर्यप्रदायकः ॥११५२॥तस्यासनं तु विस्तीर्णं सहस्रदलसम्मितं ।तिस्रः कोट्योऽर्धकोटिश्च मन्त्रास्तस्यासने स्थिताः ॥११५३॥तत्रस्थ ईश्वरो देवो वरदः सार्वतोमुखः ।पञ्चवक्त्रः सुतेजस्को दशबाहुस्त्रिलोचनः ॥११५४॥गोक्षीरधवलः स्ॐयो नागयज्ञोपवीतवान् ।दिव्याम्बरधरो देवो दिव्यगन्धानुलेपनः ॥११५५॥सर्वलक्षणसंपूर्णः सर्वाभरणभूषितः ।त्रिशूलपाणीन्दुमौलिर्जटामुकुटमण्डितः ॥११५६॥प्रसन्नवदनः कान्तो योगैश्वर्यप्रदायकः ।वरदाभयहस्तश्च ध्येयोऽसावीशयोगिभिः ॥११५७॥तस्योत्सङ्गगता विद्या सर्वविद्यासमास्रिता ।दिव्यवस्त्रपरीधाना दिव्यमाल्यानुलेपना ॥११५८॥दिव्यस्रग्दाममालाभिर्मुक्ताहारैर्विभूषिता ।मुक्ताफलप्रतीकाशा पञ्चवक्त्रा त्रिलोचना ॥११५९॥आराधिता विधानेन वेदयेज्ज्ञानिनः सदा ।प्रहसन्तीव सा भाति महेशवदनेक्षणाथ् ॥११६०॥विद्येश्वरानतो वक्ष्ये पूर्वादीशान्तगान्क्रमाथ् ।अनन्तश्चैव सूक्ष्मश्च तथा चैव शिवोत्तमः ॥११६१॥एकनेत्रैकरुद्रौ च त्रिनेत्रश्च प्रकीर्तितः ।श्रीकण्ठश्च शिखण्डी च ज्ञेया विद्येश्वराः क्रमाथ् ॥११६२॥अतो रूपमवस्थानं तत्र रुद्रान्निबोध मे ।धर्मो ज्ञानं च वैराग्यं ऐस्वर्यं च चतुर्थकं ॥११६३॥सूक्ष्मावरणमूर्ध्वेऽतः तत्र शक्तित्रयं विदुः ।वामा ज्येष्ठा च रौद्री च शक्तयः समुदाहृताः ॥११६४॥परिवारस्तु तासां वै कोट्योऽनेकास्तु सङ्ख्यया ।सर्वे सर्वगता मन्त्राः सर्वज्ञाः सर्वकामदा ॥११६५॥शूद्धस्फटिकसङ्काशास्त्रिनेत्राः शूलपाणयः ।सर्वलक्षणसंपन्नाः सर्वाभरणभूषिताः ॥११६६॥सर्वैश्वर्यसुसम्पूर्णाश्चारुचन्द्रार्धशेखराः ।शतपत्राब्जभाकारैः शुद्धहारेन्दुरश्मिभिः ॥११६७॥नानारत्नोज्ज्वलैश्चित्रैः प्राकारैस्तोरणाकुलैः ।ईश्वरानुगताः सर्वे तिष्ठन्ति भुवनेषु ते ॥११६८॥तमाराधयितुं देवं पूज्यन्ते सर्वकर्मसु ।व्रतं पाशुपतं दिव्यं ये चरन्ति जितेन्द्रियाः ॥११६९॥भस्मनिष्ठा जपध्यानास्ते व्रजन्त्येश्वरं पदं ।तत्रेश्वरस्तु भगवान्देवदेवो निरञ्जनः ॥११७०॥अधिकारं प्रकुरुते शिवेच्छाविधिचोदितः ।दश पञ्च च शोध्यानि भुवनानीश्वरे क्रमाथ् ॥११७१॥तालुकोर्ध्वे विजानीयाद्दीक्षाकाले वरानने ।शुद्धावरणमूर्ध्वं तु तस्मिञ्च्छक्तिद्वयं स्मृतं ॥११७२॥ज्ञानं क्रिया च विख्यातं द्वे विद्ये चाप्यतः परं ।भावसंज्ञाप्यभावाख्या तस्मिञ्च्छक्तिद्वये स्मृते ॥११७३॥तेजेशश्च ध्रुवेशश्च प्रमाणानां परं पदं ।प्रमाणावरणे चोर्ध्वे कथयामि च मानतः ॥११७४॥ब्रह्मा रुद्रः प्रतोदश्च अनन्तश्च चतुर्थकः ।सुशुद्धावरणं चोर्ध्वे तत्र रुद्रत्रयं विदुः ॥११७५॥एकाक्षः पिङ्गलो हंसः कथितं तु समासतः ।शिवावरणमूर्ध्वं तु तत्रैको ध्रुवसंज्ञकः ॥११७६॥संस्थितो रुद्रराजस्य मोक्षावरणमूर्ध्वतः ।एकादशैव रुद्रांश्च कथयामि समासतः ॥११७७॥ब्रह्मदन्किदिण्डिमुण्डाः सौरभश्च तथैवच ।जन्ममृत्युहरश्चैव प्रणीतः सुखदुःखदः ॥११७८॥विजृम्भितः समाख्याता स्तालूर्ध्वे तु व्यवस्थिताः ।पुनरूर्ध्वे ध्रुवं ज्ञेयं निरञ्जनपदं शुभं ॥११७९॥ईशशक्तित्रयं मूर्ध्नि कथितं चानुपूर्वशः ।इच्छाशक्त्यभिधानायाः अन्तर्भूताः प्रकीर्तिताः ॥११८०॥प्रबुद्धावरणं चोर्ध्वे कथयामि समासतः ।प्रीतः प्रमुदितश्चैव प्रमोदश्च प्रलम्बकः ॥११८१॥विष्णुर्मदन एवाथ गहनः प्रथितस्तथा ।रुद्राष्टकं समाख्यातं विज्ञेयं प्राग्दिशः क्रमाथ् ॥११८२॥समयावरणं चोर्ध्वे कथयामि समासतः ।प्रभवः समयः क्षुद्रो विमलश्च शिवस्तथा ॥११८३॥ततो घनः समाख्यातो निरञ्जनस्ततः परं ।रुद्रोङ्कारस्तु पञ्चैते तालूर्ध्वे तु विजानत ॥११८४॥एकोनषष्टिर्भुवनं ज्ञानशक्त्यादितः क्रमाथ् ।रुद्रोङ्कारान्तमित्येतद्दीक्षाकाले विशोधयेथ् ॥११८५॥एकैकस्य परीवारः कोट्योऽनेकाः सहस्रशः ।त्रिनेत्रा वरदाः सर्वे शुद्धसामर्थ्यविग्रहाः ॥११८६॥शुद्धस्फटिकसङ्काशा दशबाह्विन्दुशेखराः ।त्रिशूलपाणयः सर्वे जटामुकुटमण्डिताः ॥११८७॥सर्वे सर्वगुणोपेताः सर्वज्ञाः सर्वदेश्वराः ।सार्वलक्षणसंपूर्णाः सर्वाभरणभूषिताः ॥११८८॥रुद्रकन्यासमाकीर्णा दिव्यैरूपैर्मनोहरैः ।संक्रिडन्ते पुरवरैः शिवेच्छाविधिचोदिताः ॥११८९॥ईश्वरस्य तथोर्ध्वे तु अधश्चैव सदाशिवाथ् ।सुशिवावरणं चोर्ध्वे तस्मिञ्ज्ञेयः सदाशिवः ॥११९०॥त्रिपञ्चनयनो देवश्चन्द्रार्धकृतशेखरः ।वक्त्रपञ्चकसंयुक्तो दशबाहुर्महाबलः ॥११९१॥शुद्धस्फटिकसङ्काशः स्फुरन्वै दीप्ततेजसा ।सिंहासनोपविष्टस्तु श्वेतपद्मासनस्थितः ॥११९२॥पञ्चब्रह्माङ्गसहितः सकलाद्यैः समन्वितः ।दशभिश्च शिवैर्युक्तो रुद्राष्टादशकान्वितः ॥११९३॥सकलो निष्कलः शून्यः कलाढ्यः खमलङ्कृतः ।क्षपणश्च क्षयान्तस्थः कण्ठ्यौष्ठ्यश्चाष्टमः स्मृतः ॥११९४॥भ्रुवोर्मध्ये तु विज्ञेयो देवदेवः सदाशिवः ।सकलाद्यैर्वृतो देवः ओंकारेशादिभिः क्रमाथ् ॥११९५॥ओंकारेशः शिवो दीप्तः कारणेशो दशेशकः ।सुशिवश्चैव कालेशः सूक्ष्मरूपः सुतेजसः ॥११९६॥शर्वश्च दशमः प्रोक्तः ऊर्ध्वान्तं संव्यवस्थिताः ।रुद्राश्चाष्टादश बहिः तेषां नामानि वै शृणु ॥११९७॥विजयस्त्वथ निःश्वासः स्वयम्भूश्चाग्निवीरराठ् ।रौरवो मुकुटो विसरश्चन्द्रो बिम्बः प्रगीतवान् ॥११९८॥ललितः सिद्धरुद्रश्च सन्तानः शर्व एव च ।परश्च किरणश्चैव पारमेश्वर एव च ॥११९९॥सादाख्यस्तु समाख्यातः सकलो मन्त्रविग्रहः ।सर्वकारणमध्यक्षः सृष्टिसंहारकारकः ॥१२००॥ N/A References : N/A Last Updated : June 16, 2012 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP