तृतीयाः पाद: - सूत्र ३१

ब्रह्मसूत्र वरील हा टीका ग्रंथ आहे. ब्रह्मसूत्र ग्रंथात एकंदर चार अध्याय आहेत.


पुंस्त्वादिवत्त्वस्य सतोऽभिव्यक्तियोगात् ॥३१॥

ननु सुषुप्तप्रलययोर्न शक्यते बुद्धिसंबन्ध आत्मनोऽभ्युपगन्तुम् ।
सता सोम्य तदा संपन्नो भवतीति स्वमपीतो भवतिति वचना‍त् ।
कृत्स्नविकारप्रलयाभ्युपगमाच्च ।
तत्कथं यावददात्मभावित्वं बुद्धिसंबन्धस्येत्यत्रोच्यते ॥
पुंस्त्वादिवत्त्वस्य सतोऽभिव्यक्तियोगात् ।
यथा लोके पुंस्त्वादीनि बीजात्मना विद्यमानान्येव बाल्यादिष्वनुपलभ्यमानान्यविद्यमानवदभिप्रेयमाणानि यौवनादिष्वाविर्भवन्ति नाविद्यमानान्युत्पद्यन्ते षण्ढादीनामपि तदुत्पत्तिप्रसङ्गादेवमयमपि बुद्धिसंबन्ध: शक्त्यात्मना विद्यमान एव सुषुप्तप्रलययो: पुन:
प्रबोधप्रसवयोराविर्भवति ।
एवं हयेतद्युज्यते ।
न हयाकस्मिकी कस्यचिदुत्पत्ति: संभवति ।
अतिप्रसङ्गात् । दर्शयति च सुषुप्तादुत्थानमविद्यात्मकबीजसद्भावकारितं सति संपद्य न विदु: सति संपद्यामह इतित इह व्याघ्रोवा सिंहो वेत्यादिना ।
तस्मात्सिद्धमेतद्यावदात्मभावी बुद्धयाद्युपाधिसंबन्ध इति ॥३१॥

N/A

References : N/A
Last Updated : December 10, 2014

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP