तृतीयाः पाद: - सूत्र ४८

ब्रह्मसूत्र वरील हा टीका ग्रंथ आहे. ब्रह्मसूत्र ग्रंथात एकंदर चार अध्याय आहेत.


अनुज्ञापरिहारौ देहसंबन्धाज्ज्योतिरादिवत् ॥४८॥

तां ब्रूम: ॥ अनुज्ञापरिहारौ देहसंबन्धाज्ज्योतिरादिवत् ॥
ऋतौ भार्यामुपेयाइद्त्यनुज्ञा ।
गुर्वङ्गनां नोपगच्छेदिति परिहार:  ।
तथा‍ऽग्नीषोमीयं पशुं संज्ञपयेदित्यनुज्ञा ।
न हिंस्यात्सर्वा भूतानीति परिहार: ।
एवं लोकेऽपि मित्रभुपसेवितव्यमित्यनुज्ञा ।
शत्रु: परिहर्तव्य इति परिहार: ।
एवंप्रकारावनुज्ञापरिहारावेकत्वेऽप्यात्मनो देहसंबधात्स्याताम् ।
देहै: संबन्धो देहसंबन्ध: ।
क: पुनर्देहसंबन्ध: ।
देहादिरयं सङ्घातोऽहमेवेत्यात्मनि विपरीतप्रत्ययोत्पत्ति: ।
द्दष्टा च सा सर्वप्राणिनामहं गच्छाम्यहमागच्छाम्यहमन्योऽहमनन्धोऽहं मूढोऽहममूढ इत्येवमात्मिका ।
न हयस्या: सम्यग्दर्शनादन्यन्निवारकमस्ति ।
प्राक्तु सम्यग्दर्शनात्प्रततैषा भ्रान्ति: सर्वजन्तुषु ।
तदेवमविद्यानिमित्तदेहाद्युपाधिसंबन्धकृताद्विशेषादैकात्म्याभ्युपगमेऽप्यनुज्ञापरिहाराववकल्प्येते ।
सम्यग्दर्शिनस्तहर्यनुज्ञापरिहारानर्थक्यं प्राप्तम् । न ।
तस्य कृतार्थत्वान्नियोज्यत्वानुपपत्ते: ।
हेयोपादेययोर्हि नियोज्यो नियोक्तव्य:  स्यात् ।
आत्मनस्त्वतिरिक्तं हेयमुपादेयं वा वस्त्वपश्यन्कथं नियुज्यत ।
न चात्माऽऽत्मन्येव नियोज्य: स्यात् ।
शरीरव्यतिरेकदर्शिन एव नियोज्यत्वमिति चेत् । न ।
तत्संहतत्वाभिमानात् ।
सत्यं व्यतिरेकदर्शिनो नियोज्यत्वं तथापि व्योमादिवद्देहाद्यसंहतत्वमपश्यत एवात्मनो नियोज्यत्वाभिमान: ।
न हि देहाद्यसंहतत्वदर्शिन: कस्यचिदपि नियोगो दृष्ट: ।
किमुतैकात्म्यदर्शिन: ।
न च नियोगाभावात्सम्यग्दर्शिनो यथेष्टचेष्टाप्रसङ्ग ।
सर्वत्राभिमानस्यैव प्रवर्तकत्वादभिमानाभावाच्च सम्यग्दर्शिन: ।
तस्माद्देहसंबन्धादेवानुज्ञापरिहारौ ।
ज्योतिरादिवत ।
यथा ज्योतिष एकत्वेऽप्यग्नि: क्रव्यात्परिहिरयत  नेतर: शुचिभुमिष्ठा: ।
तथा भौमा: प्रदेशा वज्रवैदूर्यादय उपादीयन्ते ।
भौमा अपि सन्तो नरकलेवरादय: परिहिरयन्ते ।
तथा मूत्रपुरीषं गवां पवित्रतया परिगृहयते तदेव जात्यन्तरे परिवर्ज्यते तद्वत् ॥४८॥

N/A

References : N/A
Last Updated : December 12, 2014

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP