तृतीयाः पाद: - सूत्र २६

ब्रह्मसूत्र वरील हा टीका ग्रंथ आहे. ब्रह्मसूत्र ग्रंथात एकंदर चार अध्याय आहेत.


व्यतिरेको गन्धवत् ॥२६॥

कथं पुनर्गुणो गुणिव्यतिरेकेणान्यत्र वर्तेत न हि पटस्य शुक्लो गुण: पटव्यतिरेकेणान्यत्र वर्तमानो दृश्यते ।
प्रदीपप्रभावद्भवेदिति चेत् । न ।
तस्या अपि द्रव्यत्वाभ्युपगमात् ।
निबिडावयवं हि तेजोद्रव्यं प्रदीप: ।
प्रविरलावयवं तु ज्तेजोद्रव्यमेव प्रभेति ।
अत उत्तरं पठति ।
व्यतिरेको गन्धव‌त् ॥
यथा गुणस्याऽपि सतो गन्धस्य गन्धवद्द्रव्यव्यतिरेकेण वृत्तिर्भवति - अप्राप्तेप्वपि कुसुमादिषु गन्धवत्सु गन्धोपलब्धे: - एवमनोरपि सतो जीवस्य चैतन्यगुणव्यतिरेको भविष्यति ।
अतश्रानैकान्तिकमेतद्रुपादिवदाश्रयविश्लेषानुपपत्तिरिति ।
गुणस्यैव सतो गन्धस्याश्रयविश्लेषदर्शनात् ।
गन्धस्यापि सहैवाश्रयेण विश्लेष इति चेत् । न ।
यस्मान्मूलद्रव्याद्विश्लेषस्तस्य क्षयप्रसङ्गात ।
अक्षीयमाणमपि तत्पूर्वावस्थातो गम्यते ।
अन्यथा तत्पूर्वावस्थैर्गुरुत्वादिभिर्हीयेत ।
स्यादेतत् ।
गन्धाश्रयाणां विश्लिष्ताअनामवयवानामल्पत्वात्सन्नपि विश्लेषो नोपलक्ष्यते ।
सूक्ष्मा हि गन्धपरमाणव: सर्वतो विप्रसृता गन्धबुद्धिमुत्पादयन्ति नासिकापुटमनुप्रविशन्त इति चेत् । न ।
अतीन्द्रियत्वात्परमाणुनां स्फुटगन्धोपलब्धेश्च नगकेसरादिषु ।
न च लोके प्रतितिर्गन्धवद्द्रव्यमाघ्रातमिति गन्ध एवाघ्रात इति तु लौकिका: प्रतीयन्ति ।
रूपादिष्वाश्रयवतिरेकानुपलब्धेर्गन्धस्याप्ययुक्त आश्रयव्यतिरेक इति चेत् । न ।
प्रत्यक्षत्वादनुमानाप्रवृत्ते: ।
तस्माद्यद्यथा लोके दृष्टं तत्तथैवानुमन्तव्यं निरूपकैर्नान्यथा ।
न हि रसो गुणो जिव्हायोपलभ्यत इत्यतो रूपादयोऽपि गुणा जिव्हायैवोपलभ्येरन्निति नियन्तुं शक्यते ॥२६॥

N/A

References : N/A
Last Updated : December 10, 2014

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP