तृतीयाः पाद: - सूत्र ४६

ब्रह्मसूत्र वरील हा टीका ग्रंथ आहे. ब्रह्मसूत्र ग्रंथात एकंदर चार अध्याय आहेत.


प्रकाशादिवन्नैवं पर: ॥४६॥

अत्राह ननु जीवस्येश्वरांशत्वाभ्युपगमे तदीयेन संसारदु:खोपभोगेनांशिन ईश्वरस्यापि दु:खित्वं स्यात् ।
तथा लोके हस्तपादाद्यन्यतमाङ्गतेन दु:खेनाङ्गिनो देवदत्तस्य दु:खित्वं तद्वत् ।
ततश्च तत्प्राप्तानां महत्तरं दु:खं प्राप्नुयात् ।
अतो‍ऽवरं पूर्वावस्थ: संसार एवास्त्विति सम्यग्दर्शनानर्थक्यप्रसङ्ग: यादिति ।
अत्रोच्यते ।
प्रकाशादिवन्नैवं पर: ॥
यथा जीव: संसरदु:खमनुभवति नैवं पर ईश्वरोऽनुभवतीति प्रतिजानीमहे ।
जीवो हयविद्यावेशवशाद्देहाद्यात्मभावमिव गत्वा तत्कृतेन दु:खेन दु:ख्यहमित्यविद्याकृतं दु:खोपभोगमभिमन्यते नैवं परमेश्वरस्य देहाद्यात्मभावो दु:खाभिमानो वास्ति ।
जीवस्याऽपि अविद्याकृतनामरूपनिर्वृत्तदेहेन्द्रियाद्युपाध्यविवेकभ्रमनिमित्त एव दु:खाभिमानो न तु पारमार्थिकोऽस्ति ।
यथा च स्वदेहगतदाहच्छेदादिनिमित्तं दु:खं तदभिमानभ्रान्त्यानुभवति तथा पुत्रमित्रादिगोचरमपि दु:खं तदभिमानभ्रान्त्यैवानुभवत्यहमेव पुत्रोऽहमेव मित्रमित्येवं स्नेहवशेन पुत्रमित्रादिष्वभिनिविशमान: ।
सततश्च निश्चितमेतदवगम्यते मिथ्याभिमानभ्रमनिमित्त एव दु:खानुभव इति ।
व्यतिरेकदर्शनाच्चैवमवगम्यते ।
तथा हि पुत्रमित्रादिमस्तु बहुषूपविष्टेषु तत्संबन्धाभिमानिष्वितरेषु च पुत्रो मृतो मित्रं मृतमित्येवमाधुद्धोषिते येषामेव पुत्रमित्रादिमत्त्वाभिमानस्तेषामेव तन्निमित्तं दु:खमुत्पद्यते नाभिमानहीनानां परिव्राजकादीनाम् ।
अतश्च लौकिकस्याऽपि पुंस: सम्यग्दर्शनार्थवत्त्वं द्दष्टं किमुत विषयशून्यादात्मनोऽन्यद्वस्त्वन्तरमपश्यतो नित्यचैतन्यमात्रस्वरूफस्येति ।
तस्मान्नास्ति सम्यग्दर्शनानर्थक्यप्रसङ्ग: ।
प्रकाशादिवदिति निदर्शनोपन्यास: ।
यथा प्रकाश: सौर्यश्चान्द्रमसो वा वियव्द्याप्यावतिष्ठमानोऽङ्गुल्याद्युपाधिसंबन्धात्तेष्वृजुवकादिभावं प्रतिपद्यमानेषु तत्तद्भावमिव प्रतिपद्यमानोऽपि न परमार्थतस्तद्भावं प्रतिपद्यते यथा चाकाशो घटादिषु गच्छत्सु  गच्छन्निव विभाव्यमानोऽपि न परमार्थतो गच्छति यथा चोदशरावादिकम्पनात्तद्नते सूर्यप्रतिबिम्बे कम्पमानेऽपि न तद्वान्सूर्य: कम्पत एवमविद्याप्रत्युपस्थापिते बुद्धयाद्युपहिते जीवाख्येंऽशे दु:खायमानेऽपि न तद्वानीश्वरो दु:खायते ।
जीवस्यापि तु दु:खप्राप्तिरविद्यानिमित्तैवेत्युक्तम् ।
तथा चाविद्यानिमित्तजीवभावव्युदासेन ब्रम्हाभावमेव जीवस्य प्रतिपादयन्ति वेदान्तास्तत्त्वमसीत्येवमादय: ।
तस्मान्नास्ति जैवेन दु:खेन परमात्मनो दु:खित्वप्रसङ्ग ॥४६॥

N/A

References : N/A
Last Updated : December 12, 2014

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP