तृतीयाः पाद: - सूत्र ९

ब्रह्मसूत्र वरील हा टीकाग्रंथ आहे. ब्रह्मसूत्र ग्रंथात एकंदर चार अध्याय आहेत.


असंभवस्तु सतोऽनुपपत्ते: ॥९॥

असंभवस्तु सतोऽनुपपत्ते: ।
वियत्पवनयोरसंभाव्यमानजन्मनोरप्युत्पत्तिमुपश्रुत्य ब्रम्हाणोऽपि भवेत्कुतश्चिदुत्पत्तिरिति स्यात्कस्यचिन्मति ।
तथा विकारेभ्य एवाकाशादिभ्य उत्तरेषां विकाराणामुत्पत्तिमुपश्रुत्याकाशस्यापि विकारादेव श्रम्हाणउत्पत्तिरिति कश्चिन्मन्येत ।
तामाशङ्कामपनेतुमिदं सूत्रमसंभवस्त्विति ।
न खलु ब्रम्हाण: सदात्मकस्य कुतश्चिदन्यत: संभव उत्पत्तिराशङिकतव्या ।
कंस्मात् । अनुपपत्ते: ।
सन्मात्रं हि ब्रम्हा ।
न तस्य सम्नात्रादेवोत्पत्ति: संभवति ।
असत्यतिशये प्रकृतिविकारभावानुपपत्ते: ।
नापि सद्विशेषाद्द्टष्टविपर्ययात्  ।
सामान्याद्धि विशेषा उत्पद्यमाना दृश्यन्ते ।
मृदादेर्घटादयो न तु विशेषेभ्य: सामान्यम ।
नाप्यसतो निरात्मकत्वात् ।
कथमसत: सज्जायेतेति चाक्षेपश्रवणात् ।
स कारणं करणधिपाधिपो न चास्य कश्चिज्जनिता न चाधिप इति च ब्रम्हाणो जनयितारं वारयति ।
वियत्पवनयो: पुनरुत्पत्ति प्रदर्शिता न तु ब्रम्हाण: साऽस्तीति वैपम्यम् ।
न च विकारेभ्यो विकारान्तरोत्पत्तिदर्शनादब्रम्हाणोऽपि विकारत्वं भवितुमर्हतीति मूलप्रकृत्यनभ्युपगमेऽनवस्थाप्रसङ्गात् ।
या मूलप्रकृतिरभ्युपगम्यते तदेव च नो ब्रम्होत्यविरोध: ॥९॥

N/A

References : N/A
Last Updated : December 09, 2014

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP