तृतीयाः पाद: - सूत्र २

ब्रह्मसूत्र वरील हा टीकाग्रंथ आहे. ब्रह्मसूत्र ग्रंथात एकंदर चार अध्याय आहेत.


अस्ति तु ॥२॥

अस्ति तु ।
तुशब्द: पक्षान्तरपरिग्रहे ।
मा नामाकान्नस्य च्छान्दोग्ये भूदुत्पत्ति: श्रुत्यन्तरे त्वस्ति ।
तैत्तिरीयका हि समामनन्ति सत्यं ज्ञानमनन्तं ब्रम्होति प्रकृत्य तस्माद्वा एतस्मादात्मन: आकाश: संभूत इति ।
ततश्च श्रुत्योर्विप्रतिषेध: क्वचित्तेज: प्रमुखा सृष्टि: क्वचिदाकाशप्रमुखेति ।
नन्वेकवाक्यताऽनयो: श्रुत्योर्युक्ता । सत्यम् ।
सा युक्ता न तु सावगन्तुं शक्यते । कुत: ।
तत्तेजोऽसृजतेति सकृच्छुतस्य स्रष्टु: स्रष्टव्यद्वयेन संचन्धानुपपत्ते स्तत्तेजोऽसृजत तदाकासमसृजतेति ।
ननु सकृच्छुतस्यापि कर्तुं: कर्तंव्यद्वयेन संबन्धो दृश्यते यथा सूपं पक्त्वौदनं पचतीति ।
एवं तदाकाशं सृष्टवा सत्तेजोऽसृजतेति योजयिष्यामि ।
नैवं गुज्यते ।
प्रथमजत्वं हि च्छान्दोग्येतेजसोऽवगम्यते तैत्तिरीयके चाकाशस्य ।
न चोभयो: प्रथमजत्वं संभवति ।
एतेनेतरश्रुत्यक्षरविरोधोऽपि व्याख्यात: ।
तस्माद्वा पेतस्मादात्मन आकाश: संभूत इत्यत्रापि तस्मादाकाशा: संभूतस्तस्मात्तेज: संभूतमिति सकृच्छुतस्यापादानस्य संभवनस्य च वियत्तेनोभ्यां युगपत्संबन्धानुपपत्ते: ।
वायोरग्निरिति च पृथगान्नानात् ॥२॥

N/A

References : N/A
Last Updated : December 07, 2014

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP