तृतीयाः पाद: - सूत्र ७

ब्रह्मसूत्र वरील हा टीकाग्रंथ आहे. ब्रह्मसूत्र ग्रंथात एकंदर चार अध्याय आहेत.


यावद्विकारं तु विभागो लोकवत् ॥७॥

यत्पुनरेतदुक्तमसंभवाद्नौणी गगनस्योत्पत्तिश्रुतिरिति ।
अत्र ब्रूम: ।
यावद्विकारं तु विभागो ॥
तुशब्दोऽसंभवाशङ्काव्यावृत्त्यर्थ: ।
न खल्वाकाशोत्पत्तावसंभवाशङ्का कर्तव्या ।
यतो यावत्किंचिद्विकारजातं दृश्यते घटघटिकोदञ्चनादि वा कटककेयृरकुण्डलादि वा सूचीनाराचनिस्त्रिंशादि वा तावानेव विभागो लोके लक्ष्यते न त्वविकृतं किंचित्कुतश्चिद्विभक्तमुपलभ्यते ।
विभागश्चाकाशस्य प्रथिव्यादिभ्यो विभक्त इति तस्यापि कार्यत्वं घटादिवत्प्राप्नोति । न ।
आत्मन आकाश: संभूत इति श्रुते: ।
यदि हयात्मापि विकार: स्यात्तस्मात्परमन्यन्न श्रुतमित्याकाशादि सर्वं कार्यं निरात्मकमात्मन: कार्यत्वे स्यात ।
तथा च शून्यवाद: प्रसज्येत ।
आत्मत्वाच्चात्मनो निराकरणशङ्गकानुपपत्ति: ।
न हयात्माऽऽगनुक: कस्यचित्स्वयं सिद्धत्वात् ।
न हयात्माऽऽत्मन: प्रमाणमपेक्ष्य सिध्यति ।
तस्य हि प्रत्यक्षादीनि प्रमाणान्यसिद्धप्रमेयसिद्धय उपादीयन्ते ।
न हयाकाशादय: पदर्था: प्रमाणनिरपेक्षा: स्वयं सिद्धा: केनचिदभ्युपगम्यन्ते ।
आत्मा तु प्रमाणादिव्यवहाराश्रयत्वात्प्रागेव प्रमाणादिव्यवहारात्सिध्यति ।
न चेदृशस्य निराकरणं संभवति ।
आगन्तुकं हि वस्तु निराक्रियते न स्वरूपम् ।
य एवं हि निराकर्ता तदेव तस्य स्वरूपम् ।
न हयग्नेरौष्ण्यमग्निना निराक्रियते ।
तथाहमेवेदानीं जानामि वर्तमानं वस्त्वहमेवातीतमतीततरं चाज्ञासिषमहमेवानागतमनागततरं च ज्ञास्यामित्यतीतानागतवर्तमानभावेनान्यथा भवत्यपि ज्ञातव्ये न ज्ञातुरन्यथाभावोऽस्ति सर्वदा वर्तमानस्वभावत्वात् ।
तथा भस्मीभवत्यपि देहे नात्मन उच्छेदो वर्तमानस्वभावादन्यस्वभावत्वं वा न संभावयितुं शक्यम् ।
एवमप्रत्याख्येयस्वभावत्वादकार्यत्वमात्मन: कार्यत्वं चाकाशस्य ।
यत्तूकं समानजातीयमनेकं कारणद्रव्यं व्योम्नो नास्तीति तत्प्रत्युच्यते ।
न तावत्समानजातीयमेवारभते न भिन्नजातीयमिति नियमोऽस्ति ।
न हि तन्तूनां तत्संयोगानां च समानजातियत्वमस्ति द्रव्यगुणत्वाभ्युपगमात् ।
न च निमित्तकारणानामपि तुरीवेमादीनां समानजातीयत्वनियमोऽस्ति ।
स्यादेतत् । समवायिकारणविषय एव समानजातीयत्वाभ्युपगमो न कारणान्तरविषय इति तदप्यनैकान्तिकम् ।
सूत्रगोवालैहर्यनेकजातीयैरेका रज्जु: सृज्यमाना दृश्यते ।
तथा सूत्रैरूर्णादिभिश्च विचित्रान्कम्बलन्वितन्वते ।
सत्त्वद्रव्यत्वाद्यपेक्षया वा समानजातीयत्वे कल्प्यमाने नियमानर्थक्यं सर्वस्य सर्वेण समानजातीयकत्वात् ।
नाप्यनेकमेवारभते नैकमिति नियमोऽस्ति ।
अणुमनसोराद्यकर्मारम्भाभ्युपगमात् ।
एकैको हि परमाणुर्मनश्चाद्यं कर्मारभते न द्रव्यान्तरै: संहत्येत्यभ्युपगम्यते ।
द्रव्यारम्भ एवानेकारम्भकत्वनियम इति चेन्न ।
पर्माणाभ्युपगमात् । भवेदेष नियमो यदि संयोगसचिवं द्रव्यं द्रव्यान्तरस्यारम्भकमभ्युपगम्येत ।
तदेव तु द्रव्यं विशेषवदवस्थान्तरमापद्यमानं कार्यं नामाभ्युपगम्यते ।
तच्च क्वचिदनेकं परिणमते मृद्वीजाद्यङ्कुरादिभावेन क्वचिदेकं परिणमते क्षीरादिदध्यादिभावेन ।
नेश्वरशासनमस्त्यनेकमेव कारणं कार्यं जनयतीति ।
अत: श्रुतिप्रामण्यादेकस्मादब्रम्हाण आकाशादिमहाभूतोत्पत्तिक्रमेण जगज्जातमिति निश्रीयते ।
तथा चोक्तमुपसंहारदर्शनान्नेति चेन्न क्षीरवद्धीति ।
यच्चोक्तमाकाशस्योत्पत्तौ न पूर्वोत्तरकालयोर्विशेष: संभावयितुं शाक्यत इति तदयुक्तम् ।
येनैव हि विशेषेण पृथिव्यादिभ्यो व्यतिरिच्यमानं नभ: स्वरूपवदिदानीमध्यवसीयते स एव विशेष: प्रागुत्पत्तेर्नासीदिति गम्यते ।
यथा च ब्रम्हा न स्थूलादिभिं: पृथिव्यादिस्वभावै: स्वभाववदस्थूलमनण्वित्यादिश्रुतिभ्य एवमाकाशस्वभावेनापि न स्वभाववदनाकाशमिति श्रुतेरवगम्यते ।
तस्मात्प्रागुत्पत्तेरनाकाशमिति स्थितम् ।
यदप्युक्तं पृथिव्यादिवैधर्म्यादाकाशस्याजत्वमिति तदप्यसत् ।
श्रुतिविरोधे सत्युत्पत्त्यसंभवानुमानस्याभासत्वोपपत्ते: ।
उत्पत्त्यनुमानस्य च दर्शितत्वात् ।
अनित्यमाकाशमनित्यगुणाश्रयत्वाद्धटादिवदित्यादिप्रयोगसंभवाच्च ।
आत्मन्यनैकान्तिकमिति चेत् । न ।
तस्यौपनिषदं प्रत्यनित्यगुणाश्रयत्वासिद्धे: ।
विभुत्वादीनां चाकाशस्योत्पत्तिवादिनं प्रत्यसिद्धत्वात् ।
यच्चोक्तमेतच्चब्दाच्चेति तत्रामृतत्वश्रुतिस्तावद्वियत्यमृता दिवौकस इतिवद्द्रष्टव्या ।
उत्पत्तिप्रलययोरुपपादितत्वात् ।
आकाशवत्सर्वगतश्च नित्य इत्यपि प्रसिद्धमहत्त्वेनाकाशोपमानं क्रियते निरतिसयमहत्त्वाय नाकाशसमत्वाय ।
यथेषुरिव सविता धावतीति क्षिप्रगतित्वायोच्यते नेषुतुल्यगतित्वाय तद्वत् ।
एतेनानन्तत्वोपमानश्रुतिर्व्याख्याता ।
ज्यायानाकाशादित्यादिश्रुतिभ्यश्च ब्रम्हाण आकाशस्योनपरिमाणत्वसिद्धि: ।
न तस्य प्रतिमास्तीति च ब्रम्हाणोऽनुपमानत्वं दर्शयति ।
अतोऽन्यदार्त्तमिति च ब्रम्हाणोऽन्येषामाकाशादीनामार्तत्वं दर्शयति ।
तपसि ब्रम्हाशब्दवदाकाशस्य जन्मश्रुतेर्गौणत्वमित्येतदाकाशसंभवश्रुत्यनुमानाभ्यां परिहृतम् ।
तस्मादब्रम्हाकार्यं वियदिति सिद्धम् ॥७॥

N/A

References : N/A
Last Updated : December 07, 2014

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP