तृतीयाः पाद: - सूत्र १४

ब्रह्मसूत्र वरील हा टीका ग्रंथ आहे. ब्रह्मसूत्र ग्रंथात एकंदर चार अध्याय आहेत.


विपर्ययेण तु क्रमोऽत उपपद्यते च ॥१४॥

विपर्ययेण तु क्रमोस्त उपपद्यते च ।
भूतानामुत्पत्तिक्रमस्चिन्तित: ।
अथेदानीमप्ययक्रमश्चिन्त्यते किमनियतेन क्रमेणाप्यय उतोत्पत्तिक्रमेणाथ वा तद्विपरीतेनेति ।
व्रयोऽपि चोत्पत्तिस्थितिप्रलया भूतानां ब्रम्हायत्ता: श्रूयन्ते यतो वा इमानि भूतानि जायन्ते ।
येन जातानि जीवन्ति ।
यत्प्रयन्त्यभिसंविशन्तीति ।
तत्रानियमोऽविशेषादिति प्राप्तम् ।
अथवोत्पत्ते: क्रमस्य श्रुतत्वात्प्रलयस्याऽपि क्रमाकाङक्षिण: स एव क्रम: स्यादिति ।
एवं प्राप्तं ततो  ब्रूम: ।
विपर्ययेण तु प्रलयक्रमोऽत उत्पत्तिक्रमाद्भवितुमर्हति ।
तथा हि लोके दृश्यते येन क्रमेण सोपानमारूढस्ततो विपरीतेन क्रमेणावरोहतीति ।
अपि च दृश्यते मृदो जातं घटशरावाद्यप्ययकाले मृद्भावमप्येत्यद्भयश्च जातं हिमकरकाद्यब्भावमप्येतीति ।
अतश्चोपपद्यत एतत् ।
यत्पृथिव्यद्भयो जाता सती स्थिति कालव्यतिकान्ता वपोऽपीयादापश्च तेजसो जाता: सत्यस्तेजोऽपीयुरेवं कमेण सूक्ष्मं सूक्ष्मतरं चानन्तरमनन्तरं कारणमपीत्य सर्वं कार्यजातं परमकारणं परमसूक्ष्मं च ब्रम्हाप्येतीति वेदितव्यम् ।
न हि स्वकारणव्यतिक्रमेण कारणकारणे कार्याप्ययो न्याय्य: ।
स्मृतावप्युत्पतिक्रमविपर्ययेणैवाप्ययक्रमस्तत्र तत्र दर्शितो जगत्प्रतिष्ठा देवर्षे पृथिव्यप्सु प्रलीयते ।
ज्योतिष्याप: प्रलीयन्ते ज्योतिर्वायौ प्रलीयत इत्येवमादौ ।
उत्पत्तिक्रमस्तूत्पत्तावेव श्रुतत्वान्नाप्यये भवितुमर्हति न चासावयोग्यत्वादप्ययेनाकाङक्ष्यते न हि कार्ये ध्रियमाणे कारणस्याप्ययो युक्त: ।
कारणाप्यये कार्यस्यावस्थानानुपपत्ते: ।
कार्याप्यये तु कारणस्यावस्थानं युक्तं मृदादिष्वेवं वृष्टत्वात् ॥१४॥

N/A

References : N/A
Last Updated : December 09, 2014

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP