तृतीयाः पाद: - सूत्र १५

ब्रह्मसूत्र वरील हा टीका ग्रंथ आहे. ब्रह्मसूत्र ग्रंथात एकंदर चार अध्याय आहेत.


अन्तरा विज्ञानमनसी क्रमेण तल्लिङ्गादिति चेन्नाविशेषात् ॥१५॥

अन्तरा विज्ञानमनसी क्रमेण तल्लिङ्गादिति चेन्नाविशेषात् ।
भूतानामुत्पित्तप्रलयावनुलोमप्रतिलोमक्रमाभ्यां भवत इत्युक्तम् ।
आत्मादिरुत्पत्ति: प्रलयश्चात्मान्त इत्यप्युक्तम् ।
सेन्द्रियस्य तु मनसो बुद्धेश्च सद्भाव: प्रसिद्ध: श्रुतिस्मृत्यो: ।
बुद्धिं तु सारथिं विद्धि मन: प्रग्रहमेव च ।
इन्द्रियाणि हयानाहुरित्यादिलिङ्गेभ्य: ।
तयोरपि कस्मिंश्चिदन्तराले क्रमेणोत्पत्तिप्रलयावुपसंग्राहय़ौ ।
सर्वस्य वस्तुजातस्य ब्रम्हाजत्वाभ्युपगमात् ।
अपि चाथर्वण उत्पत्तिप्रकरणे भूतानामात्मनश्चान्तराले कारणान्यनुक्रम्यन्त एतस्माज्जायते प्राणो मन: सर्वेन्द्रियाणि च ।
खं वायुर्ज्योतिराप: पृथिवी विश्वस्य धारिणिति ।
तस्मात्पूर्वोक्तोत्पत्तिप्रलयक्रमभङ्गप्रसङ्गो भूतानामिति चेत् । न ।
अविशेषात् ।
यदि तावद्भौतिकानि करणानि ततो भूतोत्पत्तिप्रलयाभ्यामेवैषामुत्पत्तिप्रलयौ भवत इति नैतयो: क्रमान्तरं मृग्यम् ।
भवति च भौतिकत्वे लिङ्गं करणानामन्नमयं हि सोम्य मन आपोमय: प्राणस्तेजोमयी वागित्येवं जातीयकम् ।
व्यपदेशोऽपि क्वचिद्भुतानां करणानां च ब्राम्हाणपरिव्राजकन्यायेन नेतव्य:
अथ त्वभौतिकानि करणानि तथापि भूतोत्पत्तिक्रमो न करणैर्विशेष्यते प्रथमं करणान्युत्पद्यन्ते चरमं भूतानि प्रथमं वा भूतान्युत्पद्यन्ते चरणं वा करणानीति ।
आथर्वणे तु समान्नान्नायक्रममात्रं करणानां भूतानां च ।
न तत्रोत्पत्तिक्रम उच्यते ।
तथान्यत्रापि पृथगेव भूतक्रमात्करणक्रम आन्नायते प्रजापतिर्वा इदमग्र आसीत्स आत्मानमैक्षत स मनोऽसृजत तन्मन एवासीत्तदात्मानमैक्षत तद्वाचमसृजतेत्यादिना ।
तस्मान्नासिस्ति भूतोत्पत्तिक्रमस्य भङ्ग: ॥१५॥

N/A

References : N/A
Last Updated : December 09, 2014

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP