तृतीयाः पाद: - सूत्र ५

ब्रह्मसूत्र वरील हा टीकाग्रंथ आहे. ब्रह्मसूत्र ग्रंथात एकंदर चार अध्याय आहेत.


स्याच्चैकस्य ब्रम्हाशब्दवत् ॥५॥

स्याच्चैकस्य ब्रम्हाशब्दवत् ।
इंद पदोत्तरं सूत्रम् । स्यादेतत् ।
कथं पुनरेकस्य संभूतशब्दस्य तस्माद्वा एतस्मादात्मन आकाश: संभूत इत्यस्मिन्नधिकारे परेपु तेज:प्रभतिष्वनुवर्तमानस्यमुख्यत्वं संभवत्याकासे च गौणत्वमिति ।
अत उत्तरमुच्यते ।
स्याच्चैकस्यापि संभूतशब्दस्य विषयविशेषवशाद्नौणो मुख्यश्च प्रयोगो ब्रम्हाशब्दवत् ।
यथैकस्यापि ब्रम्हाशब्दस्य तपसा ब्रम्हा विजिज्ञासस्व तपो ब्रम्होत्यस्मिन्नधिकारेऽन्नादिषुगौण: प्रयोग आनन्दे च मुख्यो यथा च तपसि ब्रम्हाविज्ञानसाधने ब्रम्हाशब्दो भक्त्या प्रयुज्यतेऽञ्जसा तु विज्ञेये ब्रम्हाणि तद्वत् ।
कथं पुनरनुत्पत्तौ नभस एकमेवाद्वितीयमितीयं प्रतिज्ञा समर्थ्यते ।
ननु नभसा द्वितीयेन सद्वितीयं ब्रम्हा प्राप्नोति कथं च ब्रम्हाणि विदिते सर्वं विदितं स्यादिति ।
तदुच्यते । एकमेवेति तावत्स्त्रकार्यापेक्षयोपपद्यते ।
यथा लोके कश्चित्कुम्भकारकुले पूर्वेद्युर्मृद्दण्डचक्रादीनि चोपलभ्यापरेद्युश्च नानाविधान्यमत्राणि प्रसारितान्युपलभ्य ब्रूयान्मृदेवैकाकिनी पूर्वेद्युरासीदिति स च तयावधारणया मृत्कार्यजातमेव पूर्वेद्युर्नासीदित्यभिप्रेयान्न दण्डचक्रादि तद्वत् ।
अद्वितीयश्रुतिरधिष्ठात्रन्तरं वारयति यथा मृदोऽमत्रप्रकृते: कुम्भकारोऽधिष्ठातास्तीति ।
न च नभसाऽपि द्वितीयेन सद्वितीयं ब्रम्हा प्रसज्यते ।
लक्षणान्यत्वनिमित्तं हि नानात्वम् ।
न च प्रागुत्पत्तेर्ब्रम्हानभसोर्लक्षणान्यत्वमस्ति ।
क्षीरोदकयोरिव संमृष्टयोर्व्यापित्वामूर्तत्वादिधर्मसामान्यात् ।
सर्गकाले तु ब्रम्हा जगदुतत्पादयितुं यतते स्तिमितमितरत्तिष्ठतितेनान्यत्वमवसीयते ।
तथा चाकांशशरीरं ब्रम्होत्यादिश्रुतिभ्योऽपि ब्रम्हाकाशयोरभेदोपचारसिद्धि: ।
अत एव च ब्रम्हाविज्ञानेन सर्वविज्ञानसिद्धि: ।
अपि च सर्वं कार्यंमुत्पद्यमानमाकाशेनाव्यतिरिक्तदेशकालमेवोत्पद्यते ब्रम्हाणा चाव्यतिरिक्तदेशकालमेवाकाशं भवतीत्यतो ब्रम्हाणा अत्कार्येण च विज्ञातेन सह विज्ञातमेवाकाशं भवति ।
यथा क्षीरपूर्णे घटे कतिचिदब्बिन्दव: प्रक्षिप्ता: सन्त: क्षीरग्रहणेनैव गृहीता भवन्ति न हि क्षीरग्रहणादब्विन्दुग्रहणं परिशिष्यत एवं ब्रम्हाणा तत्कार्यैश्चाव्यतिरिक्तदेशकालत्वाद्रृहीतमेव ब्रम्हाग्रहणेन नभो भवति ।
तस्माद्भाक्तं नभस: संभवश्रवणमिति ॥५॥

N/A

References : N/A
Last Updated : December 07, 2014

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP