तृतीयाः पाद: - सूत्र ३

ब्रह्मसूत्र वरील हा टीकाग्रंथ आहे. ब्रह्मसूत्र ग्रंथात एकंदर चार अध्याय आहेत.


गौण्यसंभवा‍त् ॥३॥

अस्मिन्विप्रतिषेधे कश्चिदाह गौण्यसंभवात् ।
नास्ति वियत उत्पत्ति: । अश्रुत्रेरेव ।
या त्वितरा वियदुत्पत्तिवादिनी श्रुतिरुदाहृता सा गौणी भवितुमर्हाति । कस्मात् । असंभवात् ।
न हयाकासस्योत्पत्ति: संभावयितुं शक्या श्रीमत्कणभुगभिप्रायानुसारिषु जीवत्सु ।
ते हि कारणसामम्यसंभवादाकाशस्योत्पत्तिं वारयन्ति ।
समवाय्यसमबायिनिमित्तकारणेभ्यो हि किल सर्वमुत्पद्यमानं समुत्पद्यते ।
द्रव्यस्य चैकजातीयकमनेकं च द्रव्यं समवायिकारणं भवति ।
न चाकाशस्यैकजातीयकमनेकं च द्रव्यमारम्भकमस्ति यस्मिन्समवायिकारणे सत्यसमवायिकारणे च तत्संयोग आकाश उत्पद्येत ।
तदभावातु तदनुग्रहप्रवृत्तं निमित्तकारणं दूरापेतमेवाकाशस्य भवति ।
उत्पत्तिमतां च तेज:प्रभृतीनां पूर्वोत्तरकालयोर्विशेष: संभाव्यते प्रागुत्पत्ते: प्रकाशादिकार्यं व बभूव पश्चाच्च भवतीति ।
आकाशास्य पुनर्न पूर्वोत्तरक्तालयोर्विशेष: संभावयितुं शक्यते ।
किं हि प्रागुत्पत्तेरनवकाशमसुषिरमच्छिद्रं बभूवेति शक्यतेऽध्यवसातुम् ।
पृथिव्यादिवैधर्म्याच्च विभुत्वादिलक्षणादाकाशस्याजत्वसिद्धि: ।
तस्माद्यथा लोक आकाशं कुरु - आकाशो जात इत्येवंजातीयको गौण: प्रयोगो भवति यथा च घटाकाश: करकाकाशो गृहाकाश इत्येकस्याप्याकाशस्यैवंजातीयको भेदव्यपदेशो गौणो भवति वेदेप्यारण्यानाकाशेष्वालभेरन्नित्येवमुत्पत्तिश्रुतिरपि गौणी द्रष्टव्या ॥३॥

N/A

References : N/A
Last Updated : December 07, 2014

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP