TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

तृतीयाः पाद: - सूत्र ४०

ब्रह्मसूत्र वरील हा टीका ग्रंथ आहे. ब्रह्मसूत्र ग्रंथात एकंदर चार अध्याय आहेत.


सूत्र ४०
यथा च तक्षोभयथा ॥४०॥

यथा च तक्षोभयथा ।
एंव तावच्छास्त्रार्थवत्त्वादिभिर्हेतुभि: कर्तृत्वं शारीरस्य प्रदर्शितं तत्पुन: स्वाभाविकं वा स्यादुपाधिनिमित्तं वेति चिन्त्यते ।
तत्रैतैरेव शास्त्रार्थवत्त्वादिभिर्हेतुभि: स्वाभाविकं  कर्तृत्वमपवादहेत्वभावादिति ।
एवं प्राप्ते ब्रूम: ।
न स्वाभाविकं कर्तृत्वमात्मन: संभवत्यनिर्मोक्षप्रसङ्गात् ।
कर्तृत्वस्वभावतत्वे हयात्मनो न कर्तृ त्वान्निर्मोक्ष: संभवति ।
अग्नेरिवौष्ण्यात् ।
न च कर्तृत्वादनिर्मुक्तस्यास्ति पुरुषार्थासिद्धि: कर्तृत्वस्य दु:खरूपत्वात् ।
ननु स्थितायामपि कर्तृत्वशक्तौ कर्तृत्वकार्यपरिहारात्पुरुषार्थ सेत्स्यति ।
तत्परिहारश्च निमित्तपरिहारात् ।
यथाग्नेर्दहनशक्तियुक्तस्यापि काष्ठैव्योगाद्दहनकार्याभावस्तद्वत् । न ।
निमित्तानामपि शक्तिलक्षणेन संबन्धेन संबद्धानामत्यन्तपरिहारासंभवात् ।
ननु मोक्षसाधनविधनान्मोक्ष: सेत्स्यति । न ।
साधनायत्तस्यानित्यत्वात् ।
अपि चनित्य्युद्धबुद्धमुक्तात्मप्रतिपादनान्मोक्षसिद्धिरभिमता ।
तादृगात्मप्रतिपादनं च न स्वाभाविके कर्तृत्वेऽवकल्पेत ।
तस्मादुपाधिधर्माध्यासेनैवात्मन: कर्तृत्वां न स्वाभाविकम् ।
तथा च श्रुतिर्ध्यायतीव लेलायतीवेति ।
आत्मेन्द्रियमनोयुक्तं भोक्तेत्याहुर्मनीषिण इति चोपाधिसंपृक्तस्यैवात्मनो भोक्तृत्वादिविशेषलाभं दर्शयति ।
न हि विवेकिनां परम्सादन्यो जीवो नाम कर्ता भोक्ता वा विद्यते नान्योऽतोऽस्ति द्रष्टेत्यादि श्रवणात् ।
पर एव तर्हि संसारी कर्ता भोक्ता च प्रसज्येत परस्मादन्यश्चेच्चितिमाञ्जीव: कर्ता बुद्धयादिसङ्घातव्यतिरिक्तो न स्यात् । न ।
अविद्याप्रत्युपस्थापितत्वात्कर्तृत्वभोक्तृत्वयो: ।
तथा च शास्त्रं यत्र हि द्वितमिव भवति तदितर इतरं पश्यतीत्यविद्यावस्थायां कर्तृत्वभोक्तृत्वे दर्शयित्वा विद्यावस्थायां ते एव कर्तृत्वभोक्तृत्वे निवारयति यत्र त्वस्य सर्वमात्मैवाभुत्तत्केन कं पश्येदिति ।
यथा स्वप्नजागरितयोरात्मन उपाधिसंपर्ककृतं श्रमं श्येनस्येवाकाशे विपरिपतत: श्रावयित्वा तदभावं सुषुप्तौ प्राज्ञेनात्मना संपरिष्वक्तस्य श्रावयति तद्वा अस्यैतदाप्तकाममात्मकाममकामं रूपं शोकान्तरमित्यारभ्यैषास्य परमा गतिरेषास्य परमा सम्पदेषोऽस्य परमो लोक एषोऽस्य परम आनन्द इत्युपसंहारात् ।
तदेतदाहाचर्य: ।
यथा च तक्षोभयथेति ।
त्वर्थे चायं च: पठित: ।
नैवं मन्तव्यं स्वाभाविकमेवात्मन: कर्तृत्वमग्नेरिवौष्ण्यमिति ।
यथा तु तक्षा कोके वास्यादिकरणहस्त: कर्ता दु:खी भवति स एव स्वगृहं प्राप्ते विमुक्तवास्यादिकरण: स्वस्थो निर्वृतो निर्व्यापार: सुखी भवत्येवमविद्याप्रत्युपस्थापितद्वैतसंपृक्त आत्मा स्वप्नजागरितावस्थयो: कर्ता दु:खी भवति स तच्छ्रमापनुत्तये स्वमात्मानं परं ब्रम्हा प्रविश्य विमुक्तकार्यकरणसंघातोऽकर्ता सुखी भवति संप्रसादावस्यायाम् ।
तथा मुक्त्यवस्थायामप्यविद्याध्वान्तं विद्याप्रदीपेन विधूयात्मैव केवलो निर्वृत: सुखी भवति ।
तक्षदृष्टान्तश्चैतावतांशेन द्रष्टव्य: ।
तक्षा हि विशिष्टेषु तक्षणादिषु व्यापारेष्वपेक्ष्यैव प्रतिनियतानि करणानि वास्यादीनि कर्ता भवति ।
स्वशरीरेण त्वकर्तैव ।
एवमयमात्मा सर्वव्यापारेष्वपेक्ष्यैव मनआदीनि करणानि कर्ता भवति स्वात्मना त्वकर्तैवेति ।
न त्वात्मनस्तक्शण इवावयवा: सन्ति यैर्हस्तादिभिरिव वास्यादीनि तक्षा मनआदीनि करणान्यात्मोपाददीत न्यस्येद्वा ।
यत्तूक्तं शास्त्रार्तह्वत्त्वादिभिर्हेतुभि: स्वाभाविकमात्मन: कृर्तृत्वमिति । तन्न ।
विधिशास्त्रं तावद्यथाप्राप्तं कर्तृत्वमुपादाय कर्तव्यविशेषमुपदिशति न कर्तृत्वमात्मन: प्रतिपादयति ।
न च स्वाभाविकमस्य कर्तृत्वमस्ति ब्रम्हात्मत्वोपदेशादित्यवोचाम ।
तस्मादविद्याकृतं कर्तृत्वमुपादाय विधिशास्त्रं प्रवर्तिष्यते ।
कर्ता विज्ञानात्मा पुरुष इत्येवंजातीयकमपि शास्त्रमनुवादरूपत्वाद्यथाप्राप्तमेवाविद्याकृतं कर्तृत्वमनुवदिष्यति ।
एतेन विहारोपादाने परिहृते ।
तयोरप्यनुवादरुपत्वात् ।
ननु सन्ध्ये स्थाने स्थाने प्रसुप्तेषु करणेषु स्वे शरीरे यथाकामं परिवर्तत इति विहार उपदिश्यमान: केवलस्यात्मन: कर्तृत्वमावहति ।
तथोपादानेऽपि तदेषां प्राणानां विज्ञानेन विज्ञानमादायेति करणेषु कर्मकरणविभक्ती श्रूयमाणे केवलस्यैवात्मन: कर्तृत्वं गमयत इति ।
अत्रोच्यते । न तावत्सन्ध्ये स्थानेऽत्यन्तमात्मन: करणविरमणमस्ति ।
सधी: स्वप्नो भूत्वेमं लोकमतिक्रामतीति तत्रापि धीसंबन्धश्रवणात् ।
तथा च स्मरन्ति - इन्द्रियाणामुपरमे मनोऽनुपरतं यदि ।
सेवते विषयानेव तद्विद्यात्स्वप्नदर्शनमिति ।
कामादयश्च मनसो वृत्तय इति श्रुति: ।
ताश्च स्वप्ने दृश्यन्ते ।
तस्मात्समना एव स्वप्ने विहरति ।
विहारोऽपि च तत्रत्यो वासनामय एव न तु पारमार्थिकोऽस्ति तथा च श्रुतिरिवकारानुबद्धमेव स्वप्नव्यापारं वर्नयति ।
उतेव स्त्रीभि: सह मोदमानो जक्षदुतेवापि भयानि पश्यन्निति ।
लौकिका अपि तथैव स्वप्नं कथयन्ति ।
आरुरुक्षमिव गिरिशृङ्गमद्राक्षमिव वनराजिमिति ।
तथोपादानेऽपि यद्यपि करणेषु कर्मकरणविभक्तिनिर्देशस्तथापि तत्संपृक्तस्यैवात्मन:  कर्तृत्वं द्रष्टव्यम् ।
केवले कर्तृत्वासंभवस्य दर्शितत्वात् ।
भवति च लोकेऽनेकप्रकारा विवक्षा योधा युध्यन्ते योधै राजा युध्यत इति ।
अपि चास्मिन्नुपादाने करणव्यापारोपरममात्रं विवक्ष्यते न स्वातन्त्र्यं कस्यचिदबुद्धिपूर्वकस्यापि स्वापे करणव्यापारोपरमत्य दृष्टत्वात् ।
यस्त्वयं व्यपदेशो दर्शितो विज्ञानं यज्ञं तनुत इति स बुद्धेरेव कर्तृत्वं प्रापयति ।
विज्ञानशब्दस्य तत्र प्रसिद्धत्वात् ।
मनोनन्तरं पाठाच्च ।
तस्य श्रद्धैव सिर इति च विज्ञानमयस्यात्मन: श्रद्धाद्यवयवत्वसंकीर्तनात् ।
श्रद्धादीनां च बुद्धिधर्मत्वप्रसिद्धे: ।
विज्ञानं देवा: सर्वे ब्रम्हा ज्येष्थमुपासत इति च वाक्यशेषात् ।
ज्येष्ठत्वस्य च प्रथमजत्वस्य बुद्धौ प्रसिद्धत्वात् ।
स एष वाचश्चित्तस्योत्तरोत्तरक्रमो यद्यज्ञ इति च श्रुत्यन्तरे यज्ञस्य वाग्बुद्धिसाध्यत्वावधारणात् ।
न च बुद्धे: शक्तिविपर्यय: करणानां कर्तृत्वाभ्युपगमे भवति ।
सर्वकारकाणामेव स्वव्यापारेषु कर्तृत्वस्यावश्यंभावित्वात् ।
उपलब्ध्यपेक्षं त्वेषां करणानां करणत्वं सा चात्मन: ।
न च तस्यामप्यस्य कर्तृत्वमस्ति ।
नित्योपलब्धिस्वरूपत्वात् ।
अहङ्कारपूर्वकमपि कर्तृत्वं नोपलब्धुर्भवितुमर्हति ।
अहङ्का रस्याप्युपलभ्यमानत्वात् ।
न चैवं सति करणान्तरकपनाप्रसङ्ग: ।
बुद्धे: करणत्वाभुपगमात् ।
समाध्यभावस्तु शास्त्रार्थवत्त्वेनैव परिहृत: ।
यथाप्राप्तमेव कर्तृत्वमुपादाय समाधिविधानात् ।
तस्मात्कर्तृत्वमप्यात्मन उपाधिनिमित्तमेवेति स्थितम् ॥४०॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2014-12-12T01:16:17.0070000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

Government Urdu Basic Training College

  • शासकीय उर्दू मूलोद्योग प्रशिक्षण महाविद्यालय 
RANDOM WORD

Did you know?

कापूर जाळण्यामागची संकल्पना काय? कांही फायदे आहेत काय?
Category : Hindu - Puja Vidhi
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.