तृतीयाः पाद: - सूत्र ४९-५०

ब्रह्मसूत्र वरील हा टीका ग्रंथ आहे. ब्रह्मसूत्र ग्रंथात एकंदर चार अध्याय आहेत.


असन्ततेश्चाव्यतिकर: ॥४९॥

असन्ततेश्वाव्यतिकर: ॥ स्यातां नामानुज्ञापरिहरारावेकस्याप्यात्मनो देहविशेषयोगात् ।
तस्त्वयं कर्मफलसंबन्ध: स चैकात्म्याभ्युपगमे व्यतिकीर्येत स्वाम्येकत्वादिति चेत् ।
नैतदेवम् ।
असन्तते: ।
न हि कर्तुर्भोक्तुश्चात्मन: संतति: सर्वै: शरीरै: संबन्धोऽस्ति ।
उपाधितन्त्रो हि जीव इत्युक्तम् ।
उपाध्यसन्तानाच्च नास्ति जीवसन्तान: ।
ततश्च कर्मव्यतिकर: फलव्यतिकरो वा न भविष्यति ॥४९॥

आभास एव च ॥५०॥

आभास एव चा ॥ आभास एव चैषां जीव: परस्यात्मनो जलसूर्यकादिवत्प्रतिपत्तव्य: ।
न स एव साक्षात् ।
नापि वस्त्वन्तरम् ।
अतश्च यथा नैकस्मिञ्चलसूर्यके कम्पमाने जलसूर्यकान्तरं कम्पत एवं नैकस्मिञ्जीवे कर्मफलसंबन्धिनि जीवान्तरस्य तत्संबन्ध: ।
एवमप्यव्यतिकर एव कर्मफलयो: ।
आभासस्य चाविद्याकृतत्वाततदाश्रयस्य संसारस्याविद्याकृतत्वोपपत्तिरिति ।
तद्वयुदासेन च परमार्थिकस्य ब्रम्हात्मभावस्योपदेशोपपत्ति: ।
येषां तु बहव आत्मानस्ते च सर्वे सर्वगतास्तेषामेवैष व्यतिकर: प्राप्नोति ।
कथम् ।
बहवो विभवश्वात्मानश्चैतन्यमात्रस्वरूपा निर्गुणा निरतिशयाश्च तदर्थं साधारणं प्रधानं तन्निमित्तैषां भोगापवर्गसिद्धिरिति सांख्या: ।
सति बहुत्वे विभुत्वे च घटकुडयादिसमाना द्रव्यमात्रस्वरूपा: स्वतोऽचेतनाआत्मानस्तदुपकरणानि चाणूनि मनांस्यचेतनानि ।
तत्रात्मद्रव्याणां मनोद्रव्याणां च संयोगान्नवेच्छादयो वैशेषिका आत्मगुणा उत्पद्यन्ते ।
ते चाव्यतिकरेण प्रत्येकमात्मसु समवयन्ति स संसार: ।
तेषां नवानामात्मगुणानामत्यन्तानुत्पादो मोक्ष इति काणादा: ।
तत्र सांख्यानां तावच्चैतन्यस्वरूपत्वात्सर्वात्मनां संनिधानाद्यविशेषाच्चैकस्य सुखदु:खसंबन्धे सर्वेषां सुखदु:खसंबन्ध: प्राप्नोति ।
स्यादेतत् ।
प्रधानप्रवृत्ते: पुरुषकैवल्यार्थत्वाव्द्यवस्था भविष्यति ।
अन्यथा हि स्वविभूतिख्यापनार्था प्रधानप्रवृत्ति: स्यात् ।
तथा चानिर्मोक्ष: प्रसज्येतेति ।
नैतत्सरम् ।
न हयभिलषितसिद्धिनिबन्धना व्यवस्था शक्या विज्ञातुम् ।
उपपत्त्या तु कयाचिव्द्यवस्थोच्येत ।
असत्यां पुनरुपपत्तौ कामं मा भूदभिलपितं पुरुषकैवल्यं प्राप्नोति तु व्यवस्थाहेत्वभावाव्द्यतिकर: ।
काणादानामपि यदैकेनात्मना मन: संयुज्यते तदात्मान्तरैरपि नान्तरीयक: संयोग: स्यात्संनिधानाद्यविशेषात् ।
ततश्च हेत्वविशेषात्फलाविशेष इत्येकस्यात्मन: सुखदु:खसंयोगे सर्वात्मनामपि समानं सुखदु:खित्वं प्रसज्येत ॥५०॥

N/A

References : N/A
Last Updated : December 12, 2014

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP