तृतीयाः पाद: - सूत्र ८

ब्रह्मसूत्र वरील हा टीकाग्रंथ आहे. ब्रह्मसूत्र ग्रंथात एकंदर चार अध्याय आहेत.


एतेन मातरिश्वा व्याख्यात: ॥८॥

एतेन मातरिश्वा व्याख्यात: ।
अतिदेशोऽयम । एतेन वियव्द्याख्यानेन मातरिश्वापि वियदाश्रयो वायुर्व्याख्यात: ।
तत्राप्येते यथायोगं पक्षा रचयितव्य: ।
न वायुरुत्पद्यते छन्दोगानामुत्पत्तिप्रकरणेऽनान्मानादित्येक: पक्ष ।
अस्ति तु तैत्तिरीयाणामुत्पत्तिप्रकरण आन्मानमाकाशाद्वायुरिति पक्षान्तरम ।
ततश्च श्रुत्योर्विप्रतिषेधे सति गौणी वायोरुत्पत्तिश्रुतिरसंभवादित्यपरोऽभिप्राय: ।
असंभवश्र दर्शित: सैषाऽनस्तमिता देवता यद्वायुरित्यस्तमयप्रतिषेधादमृतत्वादिश्रवणाच्च ।
प्रतिज्ञानुपरोधाद्यावद्विकांर च विभागाभ्युपगमादुत्पद्यते वायुरिति सिद्धान्त: ।
अस्तमयप्रतिषेधोऽपरविद्याविषय आपेक्षिक: ।
अग्न्यादीनामिव वायोरस्तमयाभावात् ।
कृतप्रतिविधानं चामृतत्वादिश्रवणम् ।
ननु वायोराकाशस्य च तुल्ययोरुत्पत्तिप्रकरणे श्रवणाश्रवणयोरेकमेवधिकरणमुभयविषयमस्तु किमतिदेशेनासति विशेष इति ।
उच्यते । सत्यमेवमेतत् ।
तथापि मन्दधियां शब्दमात्रकृताशङकानिवृत्त्यर्थोऽयमतिदेश: क्रियते ।
संवर्गविद्यादिपु हयुपास्यतया वायोर्महाभागत्वश्रवणात् ।
अस्तमयप्रतिषेधादिभ्यश्च भवतिनित्यत्वाशङ्का कस्यचिदिति ॥८॥

N/A

References : N/A
Last Updated : December 08, 2014

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP