TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|पुराण|गरूडपुराणम्|प्रेतकाण्डः (धर्मकाण्डः)|

प्रेतकाण्डः - अध्यायः ४८

विष्णू पुराणाचा एक भाग असलेल्या गरूड पुराणात मृत्यूनंतरच्या स्थितीबद्दलची चर्चा आहे, शिवाय श्रद्धाळू हिंदू धर्मीयांमध्ये मृत्यूनंतर जी विविध क्रिया कर्मे केली जातात, त्याला गरूडपुराणाची पार्श्वभूमी आहे.


अध्यायः ४८
तार्क्ष्य उवाच ।
ये मर्त्यलोके निवसन्ति मानवास्ते सर्वजातौ निधनं प्रयान्ति ।
काले स्वकीये निजपुण्यसंख्यया वदन्ति लाक कथस्व तन्मे ॥१॥

गच्छन्ति मार्गेण सुदुस्तरेण विधातृनिष्पादितवर्त्मनि स्थिताः ।
केनैव पुण्येन मुदं प्रयान्ति तिष्ठन्ति केनैव कुलं बलं वयः ॥२॥

सूत उवाच ।
श्रुत्वाथ देवो गरुडं त्ववोचत्स्मृत्वा वपुः कर्मभयञ्च रूपम् ।
सृष्टा धरा येन चराचरं जगत्स येन शस्ता विहितो यमो विभुः ॥३॥

श्रीभगवानुवाच ।
धर्मार्थकामं चिरमोक्षसञ्चयमन्यं द्वितीयं यममार्गगामिनाम् ।
प्रविश्यचाङ्गुष्ठसमे स तत्र वै तं प्राप्य देहं स्वमन्दिरम्? ॥४॥

गृहीतपाशो रुदते पुनः पुनर्देशे सुपुण्ये द्विज देहसंस्थितः ।
देवेन्द्रपूजा पितृदेवतृप्तिदं मोहान्न चेष्टं न च पुत्त्रसन्ततिः ॥५॥

न मेऽस्ति बन्धुर्यममार्गगामिनो मया न कृत्यं द्विजदेहलिप्सया ।
सम्प्राप्य विप्रत्वमतीव दुर्लभं नाधीतवान्वेदपुराणसंहिताः ।
प्राप्तं सुरत्नं करसंस्थितं गतं देहन्क्वचिन्निस्तर यत्त्वया कृतम् ॥६॥

यः क्षत्त्रियो बाहुबलेन संयुगे ललाटदेशाद्रुधिरं मुखे पपौ ।
तत्सोमपानं हि कृतं महामखे जीवन्मृतः सोऽपि हि याति मुक्तिक् ॥७॥

स्थानान्यनेकानि कृतानि तानि पीतान्यनेकान्यपि गर्हितानि ।
शस्त्रं गृहीत्वा समरे रिपूणां यः संमुखं याति स मुक्तपापः ॥८॥

क्षत्त्रान्वयो वापि विशोन्वयो वा शूद्रान्वयो वापि हि नीचवर्णः ।
संग्रामदेवद्विजबालघाती स्त्रीवृद्धहा दीनतपस्विहन्ता ॥९॥

उपद्रुतेष्वेषु पराङ्मुखो यः स्युस्तस्य देवाः सकलाः पराङ्मुखाः ।
तिलोदकं नैव पिबन्ति पूर्वे हुतं न गृह्णाति हुताशनोपि तत् ॥१०॥

द्वेषाद्भयाद्वा समरे समागते शस्त्रं गृहीत्वा परसैन्यसंमुखः ।
न याति पक्षीन्द्र मृश्च पश्चात्क्षात्त्रं बलं तस्य गतं तथैव ।
द्विजाय दत्त्वा कनकं महीमिमां भूयः स पश्चाद्भवतीह लोके ॥११॥

दानं प्रदत्तं ग्रहणे द्विजेन्द्रे स्नानं कृतं तेन सदा सुतीर्थे ।
गत्वा गयायां पितृपिण्डदानं कृतं सदा यो म्रियते तु युद्धे ॥१२॥

यः क्षात्त्रदेहन्तु विहाय शोचते रणाङ्गणे स्वामिवधे च गोग्रहे ।
स्त्रीबालघाते पथि सार्थहेतवे मया स्वकोशं न हतं न पातितम् ॥१३॥

वैश्यः स्वकर्माणि विशोचते तदा गृहीतपाशो न मयापि सञ्चितम् ।
सत्यं न चोक्तं क्रय विक्रयेण मोहाद्विमूढेन कुटुम्बहेतवे ॥१४॥

शूद्रं वपुः प्राप्य यशस्करं सदा दानं द्विजेभ्यो न कृतं द्विजार्चनम् ।
च्दृदद्यत्दद्वड्ढ ढद्धदृथ्र्ददृध्ड्ढथ्र्डड्ढद्ध
जलाशयो नैव कृतो धरातले असंस्कृतो विप्रवरो न संस्कृतः ॥१५॥

त्यक्त्वा स्वकर्माणि मदेन सुस्थितं मया सुतीर्थे स्ववपुर्न चोज्झितम् ।
धर्मोर्जितो नैव न देवपूजनं कृतं मया चैव विमुक्तिहेतवे ॥१६॥

देहं समासाद्य तथैव पिण्डजं वर्णांस्तथैवान्त्यजम्लेच्छसंज्ञितान् ।
मरुन्मयं देहमिमे विशन्ति नैवेहमानाः पथि धर्मसंकुले ॥१७॥

परस्परं धर्मकृन्तं स्वकीयं सम्पाद्य लक्ष्यं पथि सञ्चरन्त्स्वम् ।
पक्षीन्द्र वाक्यानि शृणुष्व तानि मनोरमाणि प्रवदन्ति यानि ॥१८॥

सारा हि लोकेषु भवेत्त्रिलोकी द्वीपेषु सर्वेषु च जम्बुकाख्यम् ।
देशेषु सर्वेष्वपि देवदेशः जीवेषु सर्वेषु मनुष्य एव ॥१९॥

वर्णाश्च चत्वार इह प्रशस्ताः वर्णेषु धर्मिष्ठनराः प्रशस्ताः ।
धर्मेण सौख्यं समुपैति सर्वं ज्ञानं समाप्नोति महापथे स्थितः ॥२०॥

देहं परित्यज्य यदा गतायुः पक्षिन् स्थितोऽहं कृमिकीटसंस्थितः ।
सरीसृपोऽहं मशको विनिर्मितश्चतुष्पदोऽहं वनसूकरोऽहम् ॥२१॥

सर्वं विजानाति हि गर्भसंस्थितो जातश्च सद्यस्तदिदञ्च विस्मरेत् ।
यच्चिन्तितं गर्भसमागतेन वै बालो युवा वृद्धवया बभूव ॥२२॥

मोहाद्विनाष्टं यदि गर्भचिन्तितं स्मृतं पुनर्मृत्युगते चदेहे ।
तस्मिन्प्रनष्टे हृदि चिन्तितं गतं स्मृतं पुनर्गर्भगते च देहे ॥२३॥

तस्मिन्प्रनष्टे हृदि चिन्तितं पुनर्मया स्वकोशे परवञ्चनं कृतम् ।
द्यूतैश्छलेनापि च चौर्यवृत्त्या धर्मं व्यतिक्रम्य शरीररक्षणे ॥२४॥

कृच्छ्रेण लक्ष्मीः समुपार्जिता स्वयं मया न भुक्तं मनसेप्सितं धनम् ।
ताम्बूलमन्नं मधुरं सगोरसं दत्त्वाग्निदेवातिथिबन्धुवर्गे ॥२५॥

सोमग्रहे सूर्यसमागमेपि वा न सेवितं तीर्थवरिष्ठमुत्तमम् ।
कोशं स्वकीयं मलमूत्रपूरितं देहिन्क्वचिन्निस्तर यत्त्वया कृतम् ॥२६॥

मया न दृष्टा न नता न पूजिता त्रैविक्रमी मूर्तिरिह स्थिता भुवि ।
प्रभासनाथो न च भक्तिसंस्तुतो देहिन्क्वचिन्निस्तर यत्त्वया कृतम् ॥२७॥

गत्वा वरिष्ठे भुवि तीर्थसन्निधौ धनं न दत्तं विदुषां करे मया ।
आप्लुत्य देहं विधिना द्विजे गुरौ दिहिन्क्वचिन्निस्तर यत्त्वया कृतम् ॥२८॥

न मातृपूजा न च विष्णुशङ्करौ गणेशचणड्यौ न च भास्करोऽपि वा ।
यञ्चोपचारैर्बलियुक्तचन्दनैर्देहिन्क्वचिन्निस्तर यत्त्वया कृतम् ॥२९॥

लब्धा मया मानवदेवतोपमा मोहाद्गता सर्वमिदञ्च पार्थिव ।
गतिं न वीक्षेत स वै विमूढधीर्देहिन्क्वचिन्निस्तर यत्त्वया कृतम् ॥३०॥

एतानि पक्षिन्मनसा विचिन्त्य वाक्यानि धर्मार्थयशस्कराणि ।
मुक्तिं समायान्ति मनुष्यलोके वसन्ति ये धर्मरताः सुदेशे ॥३१॥

इति ब्रुवाणैर्यमधूतवर्गैर्विहन्यते कालमयैश्च मुद्गरैः ।
हा दैव हा दैव इति स्मरन् वै धनं न दत्तं स्वयमर्जितं यत् ॥३२॥

न भूमिदानं न च गोप्रदानं न वारिदानं न च वस्त्रदानम् ।
फलं सताम्बूलविलेपनं वा त्वया न दत्तं भुवि शोचसे कथम् ॥३३॥

पिता मृतस्ते च पितामहः सा यया धृतो वाप्युदरे स्वकीये ।
मृतोऽप्यसौ बन्धुजनः समस्तो दृष्टं त्वया सर्वमिदं गतायः ॥३४॥

कोशं त्वदीयं ज्वलितञ्च वह्निना पुत्त्रैर्गृहीतो धनधान्य सञ्चयः ।
सुभाषितं धर्मचयं कृतञ्च यत्तदेव गच्छेत्तव पृष्ठसंस्थम् ॥३५॥

न दृश्यते कोऽपि मृतः समागतो राजा यतिर्वा द्विजपुङ्गवोऽपि वा ।
यो वै मृतः साहसिकः स मर्त्यको नाशं योऽपि धरातले स्थितः ॥३६॥

एवं गणास्ते ब्रुवते सकिन्नरा धैर्यं समालम्ब्य विपादपूरितः ।
श्रुत्वा गणानां वचनं महाद्भुतं ब्रवीति पक्षीन्द्र मनुष्यतां गतः ॥३७॥

दानप्रभावेण विमानसंस्थितो धर्मः पिता मातृदयानुरूपिणी ।
वाणी कलत्रं मधुरार्थभाषिणी स्नानं सुतीर्थे च सुबन्धवर्गः ॥३८॥

करार्पितं यत्सुकृतं समस्तं स्वर्गस्तदा स्यात्तव किङ्करोपमः ।
यो धर्मवान् प्राप्स्यति सोऽतिसौख्यं पापी समस्तं विविधञ्च दुःखम् ॥३९॥

यो धर्मशीलो जितमानरोषो विद्याविनीतो न परोपतापी ।
स्वदारतुष्टः परदारदूरःस वै नरो नो भुवि वन्दनीयः ॥४०॥

मिष्टान्नदाता चरिताग्निहोत्रो वेदान्तविच्चन्द्रसहस्रजीवी ।
मासोपवासी च पतिव्रता चषड्जीवलोके मम वन्दनीयाः ॥४१॥

एवं समाचारयुतो नरोऽपि वापीं सकूपां सजलं तडागम् ।
प्रपाशुभं हृद्गृहदेवमन्दिरं कृतं नरेणैव स धर्मौत्तमः ॥४२॥

वर्षाशनं वेदविदे च दत्तं कन्याविवाहस्त्वृणमोचनं द्विजे ।
भूमिः सुकृष्टापि तृषार्तिहेतोस्तदेवमेतं सुकृतत्समस्तम् ॥४३॥

अध्यायमेनं सुकृतस्य सारं शृणोति गायत्यपि भावशुद्ध्या ।
स वै कुलीनः स च धर्मयुक्तो विश्वालयं याति परं स नूनम् ॥४४॥

इति श्रीगारुडे महापुराणे उत्तरखण्डे द्वितीयांशे धर्मकाण्डे प्रेतकल्पे श्रीकृष्णगरुडसंवादे मनुष्यस्य सुखदुः खप्रापकधर्माधर्मनिरूपणं नामाष्टचत्वारिंशत्तमोऽध्यायः

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:53:16.4730000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

अतिताई

  • स्त्री. अतताई पहा . 
RANDOM WORD

Did you know?

श्रीयंत्र स्थापना व मुहूर्त याबद्दल माहिती द्यावी.
Category : Hindu - Puja Vidhi
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site