TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|पुराण|गरूडपुराणम्|प्रेतकाण्डः (धर्मकाण्डः)|

प्रेतकाण्डः - अध्यायः २२

विष्णू पुराणाचा एक भाग असलेल्या गरूड पुराणात मृत्यूनंतरच्या स्थितीबद्दलची चर्चा आहे, शिवाय श्रद्धाळू हिंदू धर्मीयांमध्ये मृत्यूनंतर जी विविध क्रिया कर्मे केली जातात, त्याला गरूडपुराणाची पार्श्वभूमी आहे.


अध्यायः २२
गरुड उवाच ।
सम्भवन्ति कथं प्रेताः केन तेषां गतिर्भवेत् ।
कीदृक्तेषां भवेद्रूपं भोजनं किं भवेत्प्रभो ॥१॥

सुप्रीतास्ते कथं प्रेताः क्व तिष्ठन्ति सुरेश्वर ।
प्रसन्नः कृपया देव प्रश्रमेनं वदस्व मे ॥२॥

श्रीभगवानुवाच ।
पापकर्मरता ये वै पूर्वकर्मवशानुगाः ।
जायन्ते ते मृताः प्रेतास्ताञ्छृणुष्व वदाम्यहम् ॥३॥

वापीकूपतडागांश्च आरामं सुरमन्दिरम् ।
प्रपां सद्म सुवृक्षांश्च तथा भोजनशालिकाः ॥४॥

पितृपैतामहं धर्मं किक्रीणाति स पापभाक् ।
मृतः प्रेतत्वमाप्नोति यावदाभूतसंप्लवम् ॥५॥

गोचरं ग्रामसीमां तडागारामगह्वरम् ।
कर्षयन्ति च ये लोभात्प्रेतास्ते वै भवन्ति हि ॥६॥

चण्डालादुदकात्सर्पाद्ब्राह्मणाद्बैद्युताग्नितः ।
दंष्ट्रिभ्यश्च पशुभ्यश्च मरणं पापकर्मिणाम् ॥७॥

उद्बन्धनमृता ये च विषशस्त्रहताश्च ये ।
आत्मोपघातिनो ये च विषूच्यादिहतास्तथा ॥८॥

महारोगैर्मृता ये च पापरोगैश्च दस्युभिः ।
असंस्कृतप्रमीता ये विहिताचारवर्जिताः ॥९॥

वृषोत्सर्गादिलुप्ताश्चलुप्तमासिकपिण्डकाः ।
यस्यानयति शूद्रोग्निं तृणकाष्ठहवींषि सः ॥१०॥

पतनात्पर्वतानां च भित्तिपातेन ये मृताः ।
रजस्वलादिदोषैश्च न च भूमौ मताश्च ये ॥११॥

अन्तरिक्षे मृता ये च विष्णुस्मरणवर्जिताः ।
सूतकैः श्वादिसंपर्कैः प्रेतभावा इह क्षितौ ॥१२॥

एवमादिभिरन्यैश्च कुमृत्युवशगाश्च ये ।
ते सर्वे प्रेतयोनिस्था विचरन्ति मरुस्थले ॥१३॥

मातरं भगिनीं भार्यां स्नुषां दुहितरं तथा ।
अदृष्टदोषां त्यजति स प्रेतो जायतेध्रुवम् ॥१४॥

भ्रातृध्रुग्ब्रह्महा गोघ्नः सुरापो गुरुतल्पगः ।
हेमक्षौमहरस्तार्क्ष्य स वै प्रेतत्वमाप्नुयात् ॥१५॥

न्यासापहर्ता मित्रध्रुक्परदाररतस्तथा ।
विश्वासघाती क्रूरस्तु स प्रेतो जायते ध्रुवम् ॥१६॥

कुलमार्गांश्च सन्त्यज्य परधर्मरतस्तथा ।
विद्यावृत्तविहीनश्च स प्रेतो जायतेध्रुवम् ॥१७॥

अत्रैवोदाहरन्तीममितिहासं पुरातनम् ।
युधिष्ठिरस्य संवादं भीष्मेण सह सुव्रत ।
तदहं कथयिष्यामि यच्छ्रुत्वा सौख्यमाप्नुयात् ॥१८॥

युधिष्ठिर उवाच ।
केन कर्मविपाकेन प्रेतत्वमुपजायते ।
केन वा मुच्यते कस्मात्तन्मे ब्रूहि पितामह ।
यच्छ्रुत्वा न पुनर्मोहमेवं यास्या मि सुव्रत ॥१९॥

भीष्म उवाच ।
येनैव जायते प्रेतो येनैव स विमुच्यते ।
प्राप्नोति नरकं घोरं दुस्तरं दैवतैरपि ॥२०॥

सततं श्रवणाद्यस्य पुण्यश्रवणकीर्तनात् ।
मानवा विप्रमुच्यन्ते आपन्नाः प्रेतयोनिषु ॥२१॥

श्रूयते हि पुरा वत्स ब्राह्मणः शंसितव्रतः ।
नाम्ना सन्तप्तकः ख्यात स्तपोर्ऽथे वनमाश्रितः ॥२२॥

स्वाध्याययुक्तो होमेन यो (या) गयुक्तो दयान्वितः ।
यजन्स सकलान्यज्ञान्युक्त्या कालं च विक्षिपन् ॥२३॥

ब्रहामचर्यसमायुक्तो युक्तस्तपसि मार्दवे ।
परलोकभयोपेतः सत्यशौचैश्च निर्मलः ॥२४॥

युक्तोऽहि गुरुवाक्येन युक्तश्चातिथिपूजने ।
आत्मयोगे सदोद्युक्तः सर्वद्वन्द्वविवर्जितः ॥२५॥

योगाभ्यासे सदा युक्तः संसारविजिगीषया ।
एवंवृत्तः सदाचारो मोक्षकाङ्क्षी जितेन्द्रियः ॥२६॥

बहून्यब्दानि विजने वने तस्य गतानि वै ।
तस्य बुद्धिस्ततो जाता तीर्थानुगमनं प्रति ॥२७॥

पुण्यैस्तीर्थजलैरेव शोषयिष्ये कलेवरम् ।
स तीर्थेत्वरितं स्नात्वा तपस्वी भास्करोदये ।
कृतजाप्यनमस्कारो ह्यध्वानं प्रत्यपद्यत ॥२८॥

एकस्मिन्दिवसे विप्रो मार्गभ्रष्टो महातपाः ।
ददर्शाध्वनि गच्छन्स पञ्च प्रेतान् सुदारुणान् ॥२९॥

अरण्ये निर्जने देशे संकटे वृक्षवर्जिते ।
पञ्चैतान्विकृताकारान्दृष्ट्वा वै घोरदर्शनान् ।
ईषत्सन्त्रस्तहृदयोऽतिष्ठदुन्मील्य लोचने ॥३०॥

अवलम्ब्य ततो धैर्यं भयमुत्सृज्य दूरतः ।
पप्रच्छ मधुराभाषी के यूयं विकृताननाः ॥३१॥

किञ्चाशुभं कृतं कर्म येन प्राप्ताः स्थ वैकृतम् ।
कथं वा चैकतः कर्म प्रस्थिताः कुत्र निश्चितम् ॥३२॥

प्रेतराज उवाच ।
स्वैः स्वैस्तु कर्मभिः प्राप्तं प्रेतत्वं हि द्विजोत्तम ।
परद्रोहरताः सर्वे पापमृत्युवशं गताः ॥३३॥

क्षुत्पिपासार्दिता नित्यं प्रेतत्वं समुपागताः ।
हतवाक्या हतश्रीका हत संज्ञा विचेतसः ॥३४॥

न जानीमो दिशं तात विदिशं चातिदुः खिताः ।
क्व नु गच्छामहे मूढाः पिशाचाः कर्मजा वयम् ॥३५॥

न माता न पितास्माकं प्रेतत्वं कर्मभिः स्वकैः ।
प्राप्ताः स्म सहसा जातदुः खोद्वेगसमाकुलम् ॥३६॥

दर्शनेन च ते ब्रह्मन्मुदिताप्यायिता वयम् ।
मुहूर्तन्तिष्ठ वक्ष्यामि वृत्तान्तं सर्वमादितः ॥३७॥

अहं पर्युषितो नाम एष सूचीमुखस्तथा ।
शीघ्रगो रोघ (ह) कश्चैव पञ्चमो लेखकः स्मतृतः ॥३८॥

एवं नाम्ना च सर्वे वै संप्राप्ताः प्रेततां वयम् ।
ब्राह्मण उवाच ।
प्रेतानां कर्मजातानां कथं वै नामसम्भवः ।
किञ्चित्कारणमुदिश्य येन ब्रूयाः स्वनामकान् ॥३९॥

प्रेतराज उवाच ।
मया स्वादु सदा भुक्तं दत्तं पर्युषितं द्विज ॥४०॥

शीघ्रं गच्छति विप्रेण याचितः क्षुधितेन वै ।
एतत्कारणमुद्दिश्य नाम पर्युषितं मम ॥४१॥

शीघ्रं गच्छति विप्रेण याचितः क्षुधितेन वै ।
एतत्कारणमुद्दिश्य शीघ्रगोऽयं द्विजोत्तम ॥४२॥

सूचिता बहवोऽनेन विप्रा अन्नाधिकाङ्क्षया ।
एतत्कारणमुद्दिश्य एष सूचिमुखः स्मृतः ॥४३॥

एकाकी मिष्टमश्राति पोष्यवर्गमृते सदा ।
ब्राह्मणानामभावेन रोध (ह) कस्तेन चोच्यते ॥४४॥

पुरायं मौनमास्थाय याचितो विलिखेद्भुवम् ।
तेन कर्मविपाकेन लेखको नाम चोच्यते ॥४५॥

प्रेतत्वं कर्मभावेन प्राप्तं नामानि च द्विज ।
मेषाननो लेखकोऽयं रोध (ह) कः पर्वताननः ॥४६॥

शीघ्रगः पुशुवक्त्रश्च सूचकः सूचिवक्त्रवान् ।
दुःखिता नितरां स्वमिन्पश्य रूपविपर्ययम् ॥४७॥

कृत्वा मायामयं रूपं विचरामो महीतले ।
सर्वे च विकृताकारा लम्बोष्ठा विकृताननाः ॥४८॥

बृहच्छरीरिणो रौद्रा जाताः स्वेनैव कर्मणा ।
एतत्ते सर्वमाख्यातं प्रेतत्वे कारणं मया ॥४९॥

ज्ञानिनोऽपि वयं सर्वे जाताः स्म तव दर्शनात् ।
यत्र ते श्रवणे श्रद्धा तत्पृच्छ कथयामि ते ॥५०॥

ब्राह्मण उवाच ।
ये जीवा भुवि जीवन्ति सर्वेऽप्याहारमूलकाः ।
युष्माकमपिचाहारं श्रोतुमिच्छामि तत्त्वतः ॥५१॥

प्रेता ऊचुः ।
यदि ते श्रवणे श्रद्धा आहाराणां द्विजोत्तम ।
अस्माकं तु महीभाग शृणुत्वं सुसमाहितः ॥५२॥

ब्राह्मण उवाच ।
कथयन्तु महाप्रेता आहारं च पृथक्पृथक् ।
इत्युक्तां ब्राह्मणेनेममूचुः प्रेताः पृथकपृथक् ॥५३॥

प्रेता ऊचुः ।
शृणु चाहारमस्माकं सर्वसत्त्बविगर्हितम् ।
यच्छ्रुत्वा गर्हसे ब्रह्मन् भूयोभूयश्च गर्हितम् ॥५४॥

श्लेष्ममूत्रपुरीषोत्थं शरीराणां मलैः सह ।
उच्छिष्टैश्चैव चान्यैश्च प्रेतानां भोजनं भवेत् ॥५५॥

गृहाणि चाप्यशौचानि प्रकीर्णोपस्कराणि च ।
मलिनानि प्रसूतानि प्रेता भुञ्जन्ति तत्र वै ॥५६॥

नास्ति सत्यं गृहे यत्र न शौचं न च संयमः ।
पतितैर्दस्युभिः सङ्गः प्रेता भुञ्जन्ति तत्र वै ॥५७॥

बलिमन्त्रविहीनानि होमहीनानि यानि च ।
स्वाध्याय व्रतहीनानि प्रेता भुञ्जन्ति तत्र वै ॥५८॥

न लज्जा न च मर्यादा यदात्र स्त्रीजितो गृही ।
गुरवो यत्र पूज्या न प्रेता भुञ्जन्ति तत्र वै ॥५९॥

यत्र लोभस्तथा क्रोधो निद्रा शोको भयं मदः ।
आलस्यं कलहो नित्यं प्रेता भुञ्जन्ति तत्र वै ॥६०॥

भर्तृहीना च या नारी परवीर्यं निषेवते ।
बीजं मूत्रसमायुर्क्त प्रेता भुञ्जन्ति तत्तु वै ॥६१॥

लज्जा मे जायते तात वदतो भोजनं स्वकम् ।
यत्स्त्रीरजो योनिगतं प्रेता भुञ्जन्ति तत्तु वै ॥६२॥

निर्विण्णाः प्रेतभावेन पृच्छामि त्वां दृढव्रत ।
यथा न भविता प्रेतस्तन्मे वद तपोधन ।
नित्यं मृत्युर्वरं जन्तोः प्रेतत्वं मा भवेत्क्वचित् ॥६३॥

ब्राह्मण उवाच ।
उपवासपरो नित्यं कृच्छ्रचान्द्रायणे रतः ।
व्रतैश्च विविधैः पूतो न प्रेतो जायते नरः ॥६४॥

एकादश्यां व्रतं कुर्वञ्जागरेण समन्वितम् ।
अपरैः सुकृतैः पूतो न प्रेतो न प्रेतो जायते नरः ॥६५॥

इष्ट्वा वै वाश्वमेधादीन्दद्याद्दानानि यो नरः ।
आरामोद्यानवाप्यादेः प्रपायाश्चैव कारकः ॥६६॥

कुमारीं ब्राह्मणानां तु विवाहयति शक्तितः ।
विद्यादोऽभयदश्चैव न प्रेतो जायते नरः ॥६७॥

शूद्रान्नेन तु भुक्तेन जठरस्थेन यो मृतः ।
दुर्मृत्युना मृतो यश्च स प्रेतो जायते नरः ॥६८॥

अयाज्ययाजकश्चैव याज्यानां च विवर्जकः ।
कारुभिश्च रतो नित्यं स प्रेतो जायते नरः ॥६९॥

कृत्वा मद्यपसम्पर्कं मद्यपस्त्रीनिषेवणम् ।
अज्ञानाद्भक्षयन्मांसं स प्रेतो जायते नरः ॥७०॥

देवद्रव्यं च ब्रह्मस्वं गुरुद्रव्यं तथैव च ।
कन्यां ददाति शुल्केन स प्रेतो जायते नरः ॥७१॥

मातरं भगिनीं भार्यां स्नुषां दुहितरं तथाः ।
अदृष्टदोषास्त्यजति स प्रेतो जादृ ॥७२॥

न्यासापहर्ता मित्रध्रुक्परदाररतः सदा ।
विश्वासघाती कूटश्च स प्रेदृ ॥७३॥

भ्रातृध्रुग्ब्रह्महा गोघ्नः सुरापो गुरुतल्पगः ।
कुलमार्गं परित्यज्य ह्यनृतोक्तौ सदा रतः ।
हर्ता हेम्नश्च भूमेश्च स प्रेदृ ॥७४॥

भीष्म उवाच ।
एवं ब्रुवति वै विप्रे आकाशे दुन्दुभिस्वनः ।
अपतत्पुष्पवर्षं च देवर्मुक्तं द्विजोपरि ॥७५॥

पञ्च देवविमानानि प्रेतानामागतानि वै ।
स्वर्गं गता विमानैस्ते दिव्यैः संपृच्छ्य तं मुनिम् ॥७६॥

ज्ञानं विप्रस्य सम्भाषात्पुण्यसंकीर्तनेन च ।
प्रेताः पापविनिर्मुक्ताः परं पदमवाप्नुयुः ॥७७॥

सूत उवाच ।
इदमाख्यानकं श्रुत्वा कम्पितोऽश्वत्थपत्रवत् ।
मानुषाणां हितार्थाय गरुडः पृष्टवान्पुनः ॥७८॥

इति श्रीगारुडे महापुराणे उत्तरखण्डे द्वितीयांशे धर्मकाण्डे प्रेतकल्पे भीष्म युधिष्ठिरसंवादे प्रेतत्वोत्पत्तितन्मुक्तिपेञ्चप्रेतोपाख्यान निरूपणं नाम द्वाविंशोऽध्यायः

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:53:14.6130000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

न जावें सुंदरपणावर, आधीं गुण श्रवण कर

  • बाह्यरुपावर भुलून जाऊं नये, गुणांकडे लक्ष्य द्यावें. 
RANDOM WORD

Did you know?

दत्तकपुत्र घेण्याविषयी कांही धर्मशास्त्रीय निर्णय आहेत काय?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site