TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|पुराण|गरूडपुराणम्|प्रेतकाण्डः (धर्मकाण्डः)|

प्रेतकाण्डः - अध्यायः ३

विष्णू पुराणाचा एक भाग असलेल्या गरूड पुराणात मृत्यूनंतरच्या स्थितीबद्दलची चर्चा आहे, शिवाय श्रद्धाळू हिंदू धर्मीयांमध्ये मृत्यूनंतर जी विविध क्रिया कर्मे केली जातात, त्याला गरूडपुराणाची पार्श्वभूमी आहे.


अध्यायः ३
सूत उवाच ।
एवमुत्साहितः पक्षी स्वरूपं निरयस्य तु ।
पप्रच्छनरकाण्येवं श्रुत्वा चोत्कूलितान्तरः ॥१॥

गरुड उवाच ।
नरकाणां स्वरूपं मे वद येषु विकर्मिणः ।
पात्यन्ते दुः खभूयिष्ठास्तेषां भेदांश्च कीर्तय ॥२॥

श्रीभगवानुवाच ।
नरकाणां सहस्राणि वर्तन्ते ह्यरुणानुज ।
शक्यं विस्तरतो नैव वक्तुं प्राधान्यतो ब्रुवे ॥३॥

रौरवं नाम नरकं मुख्यं तद्वैनिबोध मे ।
रौरवे कूटसाक्षी तु याति यश्चानृती नरः ॥४॥

योजनानां सहस्रे द्वे रौरवो हि प्रमाणतः ।
जानुमात्रप्रमाणं तु तत्र गर्तं सुदुस्तरम् ॥५॥

तत्राङ्गारचयौघेन कृतं तद्धरणीसमम् ।
तत्राग्निना सुतीव्रेण तापिताङ्गारभूमिना ॥६॥

तन्मध्ये पापकर्माणं विमुञ्चन्ति यमानुगाः ।
स दह्यमानस्तीव्रेण वह्निना परिधावति ॥७॥

पदेपदे च पादोऽस्य स्फुट्यते शीर्यते पुनः ।
अहोरात्रेणोद्धरणं पादन्यासेन गच्छति ॥८॥

एवं सहस्रं विस्तीर्णं योजनानां विमुच्यते ।
ततोऽन्यत्पापशुद्ध्यर्थं तादृङ्निरयमृच्छति ॥९॥

रौरवस्ते समाख्यातः प्रथमो नरको मया ।
महारौरवसंज्ञं तु शृणुष्व नरकं खग ॥१०॥

योजनानां सहस्राणि सन्ति पञ्च समन्ततः ।
तत्र ताम्रमयी भूमिरधस्तस्या हुताशनः ॥११॥

तया तपन्त्या सा सर्वा प्रोद्यद्विद्युत्समप्रभा ।
विभाव्यते महारौद्रा पापिनां दर्शनादिषु ॥१२॥

तस्यां बद्धकराभ्यां च पद्भ्यां चैव यमानुगैः ।
मुच्यते पापकृन्मध्ये लुण्ठमानः स गच्छति ॥१३॥

काकैर्बकैर्वृकोलूकैर्मशकैर्वृश्चिकैस्तथा ।
भक्ष्यमाणैस्तथा रौद्रैर्गतो मार्गे विकृष्यते ॥१४॥

दह्यमानो गतमतिर्भ्रान्तस्तातेति चाकुलः ।
वदत्यसकृदुद्वग्नो न शान्तिमधिगच्छति ॥१५॥

एवं तस्मान्नरैर्मोक्षस्त्वतिक्रान्तैरवाप्यते ।
वर्षायुतायुतैः पापं यैः कृतं दुष्टबुद्धिभिः ॥१६॥

तथान्यस्तु ततो नाम सोऽतिशीतः स्वभावतः ।
महारौरववद्दीर्घस्तथान्धतमसा वृतः ॥१७॥

शीतार्तास्तत्र बध्यन्ते नरास्तमसि दारुणे ।
परस्परं समासाद्य परिरभ्याश्रयन्ति ते ॥१८॥

दन्तास्तेषां च भज्यन्ते शीतार्तिपरिकम्पिताः ।
क्षुतृषातिबलाः पक्षिन्नथ तत्राप्युपदवाः ॥१९॥

हिमखण्डवहो वायुभिनत्त्यस्थीनि दारुणः ।
मज्जासृगस्थिगलितमश्रन्त्यत्र क्षुधान्विताः ॥२०॥

आलिङ्ग्यमाना भ्राम्यन्ते परस्परसमागमे ।
एवं तत्रापि सुमहान्क्लेशस्तमसि मानवैः ॥२१॥

प्राप्यते शकुनिश्रेष्ठ यो बहूकृतसञ्चयः ।
निकृन्तन इति ख्यातस्ततोऽन्यो नरकोत्तमः ॥२२॥

कुलालचक्राणि तत्र भ्राम्यन्त्यविरतं खग ।
तेष्वापाष्ये निकृष्यन्ते कालसूत्रेण मानवाः ॥२३॥

यमानुमाङ्गुलिस्थेन आपादतलमस्तकम् ।
न चैषां जीवितभ्रंशो जायते पक्षिसत्तम ॥२४॥

छिन्नानि तेषां शतशः खण्डान्यैक्यं व्रजन्ति हि ।
एवं वर्षसहस्राणि भ्राम्यन्ते पापकर्मिणः ॥२५॥

तावद्यावदशेषं च तत्पापं संक्षयं गतम् ।
अप्रातष्ठं च नरकं शृणुष्व गदतो मम ॥२६॥

तत्रस्थैर्नारकैर्दुः खमसह्यमनुभूयते ।
तान्येव तत्र चक्राणि घटीयन्त्राणि चान्यतः ॥२७॥

दुः खस्य हेतुभूतानि पापकर्मकृतां नृणाम् ।
चक्रेष्वारोपिताः केचिद्भाम्यन्ते तत्र मानवाः ॥२८॥

यावद्वर्षसहस्राणि न तेषां स्थितिरन्तरा ।
घटीयन्त्रेषु बद्वा ये बद्धा तोयवटी यथा ॥२९॥

भ्राम्यन्ते मानवा रक्तमुद्गिरन्तः पुनः पुनः ।
अन्त्रैर्मुखविनिष्क्रान्तैर्नेत्रैरन्त्रावलम्बिभैः ॥३०॥

दुः खानि प्राप्नुवन्तीह यान्यसह्यानि जन्तुभिः ।
असिपत्रवनं नाम नरकं शृणु चापरम् ॥३१॥

योजनानां सहस्रं यो ज्वलत्यग्न्याशृतावनिः ।
सप्ततीव्रकराश्चैण्डर्यत्र तीव्र सुदारुणे ॥३२॥

प्रतपन्ति सदा तत्र प्राणिनो नरकौकसः ।
तन्मध्ये चरणं शीतस्निग्धपत्रं विभाष्यते ॥३३॥

पत्राणि यत्र खण्डानि फलानां पक्षिसत्तम ।
श्वानश्च तत्र सुबलाश्चरन्त्यामिषभोजनाः ॥३४॥

महावक्त्रा महादंष्ट्रा व्याघ्रा इव महाबलाः ।
ततश्च वनमालोक्य शिशिरच्छायमग्रतः ॥३५॥

प्रयान्ति प्राणिनस्तत्र क्षुत्तापपरिपीडिताः ।
मातर्भ्रातस्तात इति क्रन्दमानाः सुदुः खिताः ॥३६॥

दह्यमानाङ्घ्रियुगला धरणिस्थेन वह्निना ।
तेषां गतानां तत्रापि अति शीतिः समीरणः ॥३७॥

प्रवाति तेन पात्यन्ते तेषां खड्गास्तथोपरि ।
छिन्नाः पतन्ति ते भूमौ ज्वलत्पावकसंचये ॥३८॥

लेलिह्यमाने चान्यत्र तप्ताशेषमहीतले ।
सारमेयाश्च ते शीघ्रं शातयन्ति शरीरतः ॥३९॥

तेषां खण्डान्यनेकानि रुदतामतिभीषणे ।
असिपत्रवनं तात मयैतत्परिकीर्तितम् ॥४०॥

अतः परं भीमतरं तप्तकुंभं निबोध मे ।
समन्ततस्तप्तकुम्भा वह्निज्वालासमन्विताः ॥४१॥

ज्वलदग्निचयास्तप्ततैलायश्चूर्णपूरिताः ।
एषु दुष्कृतकर्माणो याम्यैः क्षिप्ता ह्यधोमुखाः ॥४२॥

क्वाथ्यन्ते विस्फुटद्गात्रा गलन्मज्जाजलान्विताः ।
स्फुटत्कपालेनत्रास्थिच्छिद्यमाना विभीषणैः ॥४३॥

गृध्रैरुत्पाट्य मुच्यन्ते पुनस्तेष्वेव वेगितैः ।
पुनश्चिमचिमायन्ते तैलनैक्यं व्रजन्ति च ॥४४॥

द्रवीभूतैः शिरोगात्रैः स्नायुमांसत्वगास्थिभिः ।
ततो याम्यैर्नरैराशु दर्व्याघट्टनघट्टिताः ॥४५॥

कृतावर्ते महातैले क्वाथ्यन्ते पापकर्मिणः ।
एष ते विस्तरेणोक्तस्तप्तकुम्भो मया खग ॥४६॥

आदिमो रौरवः प्रोक्तो महारौरवकोऽपरः ।
अतिशीतस्तृतीयस्तु चतुर्थो हि निकृन्तनः ॥४७॥

अप्रतिष्ठः पञ्चमः स्यादसिपत्रवनोऽपरः ।
सप्तमस्तप्तकुम्भस्तु सप्तैते नरका मताः ॥४८॥

श्रूयन्तेन्यान्यपि तथा नरकाणि नराधमाः ।
कर्मणां तारतम्येन तेषुतेषु पतन्ति हि ॥४९॥

तथा हि नरको रोधः शूकरस्ताल एव च ।
तप्तकुम्भो महाज्वालः शबलोऽथ विमोहनः ॥५०॥

क्रिमिश्च क्रिमभक्षश्च लालाभक्षो विषञ्जनः ।
अधः शिराः पूयवहो रुधिरान्धश्च विड्रभुजः ॥५१॥

तथा वैतरणी सू (मू) मसिपत्रवनं तथा ।
अग्निज्वालो महाघोरः सन्दंशो वाप्यभोजनः ॥५२॥

तमश्च कालसूत्रं च लोहश्चाप्यभिदस्तथा ।
अप्रतिष्ठोऽप्यवीचिश्च नरका एवमादयः ॥५३॥

तामसा नरकाः सर्वे यमस्य विषये स्थिताः ।
येषु दुष्कृतकर्माणः पतन्ति हि पृथक्पृथक् ॥५४॥

भूमेरधस्तात्ते सर्वे रौरवाद्याः प्रकीर्तिताः ।
रोघो गोघ्नो भ्रूणहा च अग्निदाता नरः पतेत् ॥५५॥

सूकरे ब्रह्महा मज्जेत्सुरापः स्वर्णतस्करः ।
ताले पतेत्क्षत्त्रहन्ता हत्वा वैश्यं च दुर्गतिः ॥५६॥

ब्रह्महत्यां च यः कुर्याद्यश्च स्याद्गुरुतल्पगः ।
स्वसृगामी तप्तकुम्भी तथा राजभटोऽनृती ॥५७॥

तप्तलोहैश्च विक्रेता तथा बन्धनरक्षिता ।
माध्वी विक्रयकर्तां च यस्तु भक्तं परित्यजेत् ॥५८॥

महाज्वाली दुहितरं स्नुषां गच्छति यस्तु वै ।
वेदो विक्रीयते यैश्च वेदं दूषयते तु यः ॥५९॥

गुरुं चैवावमन्यन्ते वाक्शरैस्ताडयन्ति च ।
अगम्यागामी च नरो नरकं शबलं व्रजेत् ॥६०॥

विमोहे पतते शूरे मर्यादां यो भिनत्ति वै ।
दुरिष्टं कुरुते यस्तु कृमिभक्षं प्रपद्यते ॥६१॥

देवब्राह्मणविद्वेष्टा लालाभक्षे पतत्यपि ।
कुण्डकर्ता कुलालश्च न्यासहर्ता चिकित्सकः ॥६२॥

आरामेष्वग्निदाता च एते यान्ति विषञ्जने ।
असत्प्रतिग्रही यस्तु तथैवायाज्ययाजकः ॥६३॥

न क्षत्त्रैर्जोवते यस्तु नरो गच्छेदधोमुखम् ।
क्षीरं सुरां च मासं लाक्षां गन्धं रसं तिलान् ॥६४॥

एवमादीनि विक्रीणन् घोरे पूयवहे पतेत् ।
यः कुक्कुटान्निबध्नाति मार्जारान् सूकरांश्च तान् ।
पक्षिणश्च मृगांश्छा गान्सोऽप्येवं नरकं व्रजेत् ॥६५॥

आजाविको माहिषिकस्तथा चक्री ध्वजी च यः ।
रङ्गोपजीविको विप्रः शाकुनिर्ग्रामयाजकः ॥६६॥

अगारदाही गरदः कुण्डाशी सोमविक्रयी ।
सुरापो मांसभक्षी च तथा च पशुघातकः ॥६७॥

रुधिरान्धे पतन्त्येते पतन्त्येते एवमाहुर्मनीषिणः ।
उपविष्टन्त्वेकपङ्क्त्यां विषं सम्भोजयन्ति ये ॥६८॥

पतन्ति निरये घोरे विड्भुजे नात्र संशयः ।
मधुग्राहो वैतरणीमाक्रोशी मूत्रसंज्ञके ॥६९॥

असिपत्रवनेऽसौची क्रोधनश्च एतेदपि ।
अग्निज्वालां मृगव्याधो भोज्यते यत्र वायसैः ॥७०॥

इज्यायां व्रतलोपाच्च सन्दंशे नरके पतेत् ।
स्कन्दन्ते यदि वा स्वप्ने यतिनो ब्रह्मचारिणः ॥७१॥

पुत्रैरध्यापिता ये च पुत्रैराज्ञापिताश्च ये ।
ते सर्वे नरकं यान्ति निरयं चाप्यभोजनम् ॥७२॥

वर्णाश्रमविरुद्धानि क्रोधहर्षसमन्विताः ।
कर्माणि ये तु कुर्वन्ति सर्वे निरयवासिनः ॥७३॥

उपरिष्टात्स्थितो घोर उष्णात्मा रौरवो महान् ।
सुदारुणः सुशीतात्मा तस्या धस्तामसः स्मृतः ॥७४॥

एवमादिक्रमेणैव सर्वेऽधोऽधः परिस्थिताः ।
दुः खोत्कर्षश्च सर्वेषु कर्मस्वपि निमित्ततः ॥७५॥

सुखोत्कर्षश्च सर्वत्र धर्मस्येहनिमिततः ।
पश्यन्तिनरकान्देवा ह्यधोवक्त्रान्सुदारुणान् ॥७६॥

नारकाश्चापि ते देवान्सर्वान्पश्यन्ति ऊर्ध्वगान् ।
एतान्यान्यानि शतशो नरकाणि वियद्गते ॥७७॥

दिनेदिने तु नरके पच्यते दह्यतेन्यतः ।
शीर्यते भिद्यतेऽन्यत्र चूर्यते क्लिद्यतेन्यतः ॥७८॥

क्वथ्यते दीप्यतेऽन्यत्र तथा वातहतोऽन्यतः ।
एकं दिनं वर्षशतप्रमाणं नरके भवेत् ॥७९॥

ततः सर्वेषु निस्तीर्णः पापी तिर्यक्त्वमश्नते ।
कृमिकीटपतङ्गेषु स्थावरैकशफेषु च ॥८०॥

गत्वा वनगजाढ्येषु गोष्वषु तथैव च ।
खरोऽश्वोऽश्वतरो गौरः शरभश्चमरी तथा ॥८१॥

एते चैकशफाः षट्च शृणु पञ्चनखानतः ।
अन्यासु बहुपापासु दुः खदासु च यो निषु ॥८२॥

मानुष्यं प्राप्यते कुब्जो कुत्सितो वामनोऽपि वा ।
चण्डालपुक्कसाद्यासु नरयोनिषु जायते ॥८३॥

मुहुर्गर्भे वसन्त्येव म्रियन्ते च मुहुर्मुहुः ।
अवशिष्टेन पापेन पुण्येन च समन्वितः ॥८४॥

ततश्चारोहिणीं योनिं शूद्रवैश्यनृपादिकम् ।
विप्रदेवेन्द्रतां चापि कदाचिदधिरोहति ॥८५॥

एवं तु पापकर्माणो निरयेषु पतन्त्यधः ।
यथा पुण्यकृतो यान्ति तन्मे निगदतः शृणु ॥८६॥

ते यमेन विनिर्दिष्टां योनिं पुण्यगतिं नराः ।
प्रगीतगन्धर्वगणा नृत्योत्सवसमाकुलाः ॥८७॥

हारनूपुरमाधुर्यैः शोभितान्यमलानि तु ।
प्रयान्त्याशु विमानानि दिव्यगन्धस्रगुज्ज्वलाः ॥८८॥

तस्माच्च प्रच्युता राज्ञामन्येषां च महात्मनाम् ।
जायन्ते नीरुजां गेहे स द्वृत्तिपीरपालकाः ॥८९॥

भोगान्सम्प्राप्नुवन्त्युग्रांस्ततो यान्त्यूर्ध्वमन्यथा ।
अवरोहिणीं सम्प्राप्य पूर्ववद्यन्ति मानवाः ॥९०॥

जातस्य मृत्युलोके वै प्राणिनो मरणं ध्रुवम् ।
पापिष्ठानामदोमार्गाज्जीवो निष्क्रमते ध्रुवम् ॥९१॥

पृथिव्यां लीयते पृथ्वी आपश्चैव तथाप्सु च ।
तेजस्तेजसि लीयते समीरे च समीरणः ॥९२॥

आकाशे च तथाकाशं सर्वव्यापि निशाकरे ।
तत्र कामस्तथा क्रोधः काये पञ्चेन्द्रियाणि च ॥९३॥

एते तार्क्ष्य समाख्याता देहे तिष्ठन्ति तस्कराः ।
कामः क्रोधो ह्यहङ्कारो मनस्तत्रैव नायकः ॥९४॥

संहारश्चैव कालोऽसौ पुण्यपापेन संयुतः ।
पञ्चेन्द्रियसमायुक्तः सकलैर्विबुधैः सह ॥९५॥

प्रविशेत्स नवे देहे पृहे दरधे गुही यथा ।
शरीरे ये समासीनाः सर्वे वै सप्त धातवः ॥९६॥

षाट्कौशिको ह्ययं कायः सर्वे वाताश्च देहिनाम् ।
मूत्रं पुरीषं तद्योगाद्ये चान्ये व्याधयस्तथा ॥९७॥

पित्तं श्लेष्मा तथा मज्जा मांसं वै मेद एव च ।
अस्थि शुक्रं तथा स्नायुर्देहेन सह दह्यति ॥९८॥

एष ते कथितस्तार्क्ष्य विनासः सर्वदेहिनम् ।
कथयामि पुनस्तेषां शरीरं च यथा भवेत् ॥९९॥

एकस्तम्बंस्नायुबद्धं स्थूणात्रयविभूषणम् ।
इन्द्रियैश्च समायुक्तं नवद्वारं शरीरकम् ॥१००॥

विषयैश्च समाक्रान्तं कामक्रोधसमाकुलम् ।
रागद्वेषसमाकीर्णं तृष्णादुर्गमतस्करम् ॥१०१॥

लोभजालपरिच्छिन्नं मोहवस्त्रेण वेष्टितम् ।
सुबद्धं मायया चैतल्लोभेनाधिष्ठितं पुरम् ॥१०२॥

एतद्गुणसमाकीर्णं शरीरं सर्वदेहिनाम् ।
आत्मानं ये न जानन्ति ते नराः पशवः स्मृताः ॥१०३॥

एवमेव समाख्यातं शरीरं ते चतुर्विधम् ।
चतुरशीतिलक्षाणि निर्मिता योनयः पुरा ॥१०४॥

उद्भिज्जाः स्वेदजाश्चैव अण्डजाश्च जरायुजाः ।
एतत्ते सर्वमाख्यातं निरयस्य प्रपञ्चतः ॥१०५॥

अथयामि क्रमप्राप्तं प्रष्टु वा वर्तते स्पृहा ॥१०६॥

इति श्रीगारुडे महापुराणे धर्मकाण्डे द्वितीयांशे प्रेतकल्पे श्रीकृष्णगरुडसंवादे नरकतत्प्रवेशनिर्गमनादिवर्णनं नाम तृतीयोऽध्यायः

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:53:13.5200000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

अपहर्ता

  • वि. लुटणारा ; हिरावून घेणारा ; लुबाडणारा . [ सं . ] 
RANDOM WORD

Did you know?

मृतव्यक्तीच्या तेराव्याच्या जेवणात कोणकोणते पदार्थ करतात?
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.