TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|पुराण|गरूडपुराणम्|प्रेतकाण्डः (धर्मकाण्डः)|

प्रेतकाण्डः - अध्यायः १६

विष्णू पुराणाचा एक भाग असलेल्या गरूड पुराणात मृत्यूनंतरच्या स्थितीबद्दलची चर्चा आहे, शिवाय श्रद्धाळू हिंदू धर्मीयांमध्ये मृत्यूनंतर जी विविध क्रिया कर्मे केली जातात, त्याला गरूडपुराणाची पार्श्वभूमी आहे.


अध्यायः १६
श्रीभगवानुवाच ।
एवं विलपतस्तस्य प्रेतस्यैवं खगेश्वर ।
क्रन्दमानस्य नितरां पीडितस्य च किङ्करैः ॥१॥

सप्तदश दिनान्येको वायुमार्गे विकृष्यते ।
अष्टादशे त्वहोरात्रे पूर्वं याम्यपुरं व्रजेत् ॥२॥

तस्मिन्पुरवरे रम्ये प्रेतानां च गणो महान् ।
पुष्पभद्रा नदी तत्रन्यग्रोधः प्रियदर्शनः ॥३॥

पुरे स तत्र विश्रामं प्राप्यते यमकिङ्करैः ।
जायापुत्रादिकं सौख्यं स्मरेत्तत्र सुदुः खितः ॥४॥

रुदते करुणैर्वाक्यै स्तृषार्तः श्रमपीडितः ।
स्वधनं स्वकलत्राणि गृहं पुत्राः सुखानि च ॥५॥

भृत्यमित्राणि चान्यच्च सर्वं शोचति वै तदा ।
क्षुधार्तस्य पुरे तस्मिन्किङ्करैस्तस्य चोच्यते ॥६॥

किङ्करा ऊचुः ।
क्व धनं क्व सुता जाया क्व गृहं क्व त्वमीदृशः ।
स्वकर्मोपार्जितं भुङ्क्ष्व चिरं गच्छ महापथे ॥७॥

जानासि शंबलवशं बलमध्वगानां नो शंबलः प्रयतते परलोकपान्थ ।
गन्तव्यमस्ति तव निश्चितमेव तेन मार्गेण यत्र भवतः क्रयविक्रयौ न ॥८॥

यमदूतोदितं वाक्यं पक्षिन्नैवं त्वया श्रुतम् ।
एवमुक्तस्ततः सर्वैर्हन्यमानः स मुद्गरैः ॥९॥

अत्र दत्तं सुतैः पात्रे (त्रैः) स्नेहाद्वा कृपयाथ वा ।
मासिकं पिण्डमश्राति ततः सौरिपुरं व्रजेत् ॥१०॥

तत्र नाम्ना तु राजा वै जङ्गमः कालरूपधृक् ।
तं दृष्ट्वा भयभीतस्तु विश्रामे कुरुते मतिम् ॥११॥

उदकं चान्नसंयुक्तं भुङ्क्ते तस्मिन्पुरे गतः ।
त्रैपक्षिके तु यद्दत्तं तत्पुरं स व्यतिक्रमेत् ॥१२॥

नगेन्द्रनगरे रम्ये प्रेतो याति दिवानिशम् ।
गच्छन्वनानि रौद्राणि दृष्ट्वा क्रन्दति तत्र सः ॥१३॥

भीषणैः क्लिश्यमानस्तु रुदते च पुनः पुनः ।
मासद्वयावसाने तु तत्पुरं सोऽतिगच्छति ॥१४॥

भुक्त्वा चान्नं जलं पीत्वा यद्दत्तं वान्धवैरिह ।
क्लिश्यमानस्ततः पाशैर्नोयते यमकिङ्करैः ॥१५॥

तृतीये मासि सम्प्राप्ते गन्धर्वनगरं शुभम् ।
तृतीयं मासिकं भुक्त्वा तत्र गच्छत्यसौ पुरः ॥१६॥

शैलागमं चतुर्थे स मासे प्राप्नोति वै पुरम् ।
पाषाणास्तत्र वर्षन्ति प्रेतस्योपरि संस्थिताः ॥१७॥

चतुर्थमासिके श्राद्धं भुक्ते तत्र सुखी भवेत् ॥१८॥

ततो याति पुरं प्रेतः क्रूरं मासे तु पञ्चमे ।
इह दत्तं सुतैर्भुङ्क्ते प्रेतो वै तत्पुरे स्थितः ।
षष्ठे मासि ततः प्रेतो याति क्रौञ्चाबिधं पुरम् ॥१९॥

तत्र दत्तेन पिण्डेन श्राद्धेनाप्यायितः पुरे ।
मुहूर्तार्धं तु विश्रम्य कम्पमानः सुदुः खितः ॥२०॥

तत्पुरं स व्यतिक्रम्य तर्जितो यमकिङ्करैः ।
प्रयाति चित्रनगरं विचित्रो यत्र पार्थिवः ॥२१॥

यमस्यैवानुजः सौरिर्यत्र राज्यं प्रशास्ति हि ।
मासैस्तु पञ्चभिः सार्धैरूपषाण्मासिकं भवेत् ॥२२॥

ऊनषाण्मासिकं तत्र भुङ्क्ते याम्यसमाहतः ।
मार्गे पुनः पुनस्तस्य बुभुक्षा पीडयत्यलम् ॥२३॥

सन्तिष्ठते मृते कोऽपि मदीयः सुतबान्धवः ।
सौख्यं यो मे जनयति पततः शोकसागरे ॥२४॥

एवं मार्गे विलपति वार्यमाणश्च किङ्करैः ।
आयान्ति संमुखास्तत्र कैवर्तास्तु सहस्रशः ॥२५॥

वयं ते तर्तुकामाय महावैतरणीं नदीम् ।
शतयोजनविस्तीर्णां पूयशोणितसंकुलाम् ॥२६॥

नानाझषसमाकीर्णां नानापक्षिगणैर्वृताम् ।
वयं त्वां तारयिष्यामः सुखेनेति वदन्ति ते ॥२७॥

अन्तरं देहि भो पान्थ बहुला चेद्रुचिस्तव ।
तेन तत्र प्रदत्ता गौस्तया नावा प्रसर्पति ।
मनुजानां हितं दानमन्ते वैतरणी स्मृता ॥२८॥

परापापं दहेत्सर्वं विष्णुलोकं च सा नयेत् ।
न दत्ता चेत्खगश्रेष्ठ तां समेत्य समज्जति ॥२९॥

स्वस्थावस्थे शरीरेऽत्र वैतरण्या व्रतं चरेत् ।
देया च विदुषे धेनुस्तां नदीं तर्तुमिच्छता ॥३०॥

अवदन्मज्जमानस्तु निन्दत्यात्मानमात्मना ।
पाथेयार्थं मया किञ्चिन्न प्रदत्तं द्विजायच ॥३१॥

न दत्तं न हुतं जप्तं न स्नातं न कृतं स्तुतम् ।
यादृशं कर्म चरितं मूढ भुङ्क्ष्वेति तादृशम् ॥३२॥

तदैव हृदि संमूढस्ताडितो भाषते भटैः ।
वैतरण्याः परतटे भुङ्क्ते दत्तं घटादिकम् ॥३३॥

ऊनषाण्मासिकश्राद्धं भुक्त्वा गच्छति चाग्रतः ।
तार्क्ष्य तत्र विशेषेण भोजयीत द्विजाञ्छुभान् ॥३४॥

चत्वारिंशत्तथा सप्त योजनानि शतद्वयम् ।
प्रयाति प्रत्यहं तार्क्ष्य अहोरात्रेण कर्शितः ॥३५॥

सप्तमे मासि सम्प्राप्ते पुरं बह्वापदं व्रजेत् ।
तत्र भुक्त्व प्रदत्तं यच्छ्राद्धं सप्तममासिकम् ॥३६॥

अष्टमे मासि सम्प्राप्ते नानाक्रन्दपुरं व्रजेत् ।
नानाक्रन्दगणान्दृष्ट्वा क्रन्दमानान्सुदारुणम् ॥३७॥

स्वयं च शून्यहृदयः समाक्रन्दति दुः खितः ।
तन्मासिकं च यच्छ्राद्धं भुक्त्वा तत्र सुखी भवेत् ॥३८॥

विहाय तत्पुरं प्रेतो याति तप्तपुरं प्रति ।
सुतप्तनगरं प्राप्य नवमे मासि सोऽश्नुते ।
द्विजभोज्यं पिण्डदानं कृतं श्राद्धं सुतेन यत् ॥३९॥

मासि वै दशमे प्राप्ते रौद्रं स्थानं स गच्छति ।
दशमे मासि यद्दत्तं तद्भुक्त्वा च प्रयाति सः ॥४०॥

दशैकमासिकं भुक्त्वा पयोवर्षणमृच्छति ।
मेघास्तत्र प्रवर्षन्ति प्रेतानां दुः खदायकाः ॥४१॥

(ततः प्रचलितो पोतो बहुर्घमतृषार्दितः) ।
द्वादशे मासि यच्छ्राद्धं तत्र भुङ्क्ते सुदुः शितः ॥४२॥

किञ्चिन्न्यूने ततो वर्षे सार्धे चैकादशेऽथ वा ।
याति शीतपुरं तत्र शीतं यत्रातिदुः खदम् ॥४३॥

शीतार्तः क्षुधितः सोऽथ वीक्षते हि दिशो दश ।
तिष्ठेत्तु बान्धवः कोऽपि यो मे दुःखं व्यपोहति ॥४४॥

किङ्करास्तं वदन्त्येवं क्व ते पुण्यं हि तादृशम् ।
श्रुत्वा तेषां तु तद्वाक्यं हा दैव इति भाषते ॥४५॥

दैवं हि पूर्वसुकृतं तन्मया नैव सञ्चितम् ।
एवं सञ्चिन्त्य बहुशो धैर्यमालम्बते पुनः ॥४६॥

चत्वारिंशद्योजनानि चतुर्युक्तानि वै ततः ।
धर्मराजपुरं रम्यं गन्धर्वाप्सराकुलम् ॥४७॥

चतुरशीतिलक्षैश्च मूर्तामूर्तैरधिष्ठितम् ।
त्रयोदश प्रतीहारा धर्मराजपुरे स्थिताः ॥४८॥

शुभाशुभं तु यत्कर्म ते विचार्य पुनः पुनः ।
श्रवणा ब्रह्मणः पुत्रा मनुष्याणां च चेष्टितम् ।
कथयन्ति तदा लोके पूजिताः पूजिताः स्वयम् ॥४९॥

नरैस्तुष्टैश्च पुष्टैश्च यत्प्रोक्तं च कृतं च यत् ।
सर्वमावेदयन्ति स्म चित्रगुप्ते यमे च तत् ॥५०॥

दूराच्छ्रवणविज्ञाना दूराद्दर्शनगोचराः ।
एवञ्चेष्टास्तु ते ह्यष्टौ स्वर्भूपातालचारिणः ॥५१॥

तेषां पत्न्यस्तथै वोग्रा श्रवण्यः पृथगाह्वयाः ।
एवं तेषां शक्तिरस्ति यर्त्ये मर्त्याधिकारिणः ॥५२॥

व्रतैर्दानैस्तवैर्यश्च पूजयेदिह मानवः ।
जायन्ते तस्य ते सौम्याः सुखमृत्युप्रदायिनः ॥५३॥

इति श्रीगारुडे महापुराणे उत्तरखण्डे द्वितीयांशे धर्मकाण्डे प्रेतकल्पे श्रीकृष्णगरुडसंवादे प्रेतयात्रादिनिरूपणं नाम षोडशोऽध्यायः

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:53:14.2870000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

डाव पडणें

  • प्राप्त होणें 
  • घडणें. 
  • अनुकूल परिस्‍थिति येणें 
  • लाभाची गोष्‍ट घडणें. 
More meanings
RANDOM WORD

Did you know?

गणपतीची पूजा आणि व्रत फक्त पुरूषच करतात, मग फक्त स्त्रियांसाठी गणेश व्रत आहे काय?
Category : Hindu - Puja Vidhi
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.