TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|पुराण|गरूडपुराणम्|प्रेतकाण्डः (धर्मकाण्डः)|

प्रेतकाण्डः - अध्यायः ३४

विष्णू पुराणाचा एक भाग असलेल्या गरूड पुराणात मृत्यूनंतरच्या स्थितीबद्दलची चर्चा आहे, शिवाय श्रद्धाळू हिंदू धर्मीयांमध्ये मृत्यूनंतर जी विविध क्रिया कर्मे केली जातात, त्याला गरूडपुराणाची पार्श्वभूमी आहे.


अध्यायः ३४
श्रीकृष्ण उवाच ।
शृणु तार्क्ष्य यथान्यायं धर्माधर्म्स्य लक्षणम् ।
सुकृतं दुष्कृतं नॄणामग्रे धावति धावताम् ॥१॥

कृते तपः प्रशंसन्ति त्रेतायां ज्ञानसाधनम् ।
द्वापरे यज्ञदाने च दानमेकं कलौ युगे ॥२॥

गृहस्थानां स्मृतो धर्म उत्तमानां विचक्षणैः ।
इष्टापूर्ते स्वशक्त्या हि कुर्वतां नास्ति पातकम् ॥३॥

वृक्षस्तु रोपितो येन खनिकूपजलाशयाः ।
यममार्गे सुखं तस्य व्रजतो नितरां भवेत् ॥४॥

अग्नितापप्रदातारे यैः शीतपीडिते द्विजे ।
तप्यमानाः सुखं यान्ति सर्व कामैः प्रपूरिताः ॥५॥

सुवर्णमणिमुक्तादि वस्त्राण्याभरणानि च ।
तेन सर्वमिदं दत्तं येन दत्ता वसुन्धरा ॥६॥

यानियानि च भूतानि दत्तानि भुवि मानवैः ।
यमलोकपथे तानि तिष्ठन्त्येषां समीपतः ॥७॥

व्यञ्जनानि विचित्राणि भक्ष्यभोज्यानि यानि च ।
ददाति विधिना पुत्र प्रेते तदु पतिष्ठति ॥८॥

आत्मा वै पुत्रनामास्ति पुत्रस्त्राता यमालये ।
तारयेत्पितरं घोरात्तेन पुत्त्रः प्रवक्ष्यते ॥९॥

अतो देयञ्च पुत्रेण श्राद्धमाजी वितावधि ।
अतिवाहस्तदा प्रेतो भोगान् वै लभते हि सः ॥१०॥

दह्यमानस्य प्रेतस्य स्वजनैर्यो जलाञ्जलिः ।
दीयते प्रेतरूपोऽसौ प्रीतो याति यमालये ॥११॥

अपक्वे मृन्मये पात्रे दुग्धं दत्तं दिनत्रयम् ।
काष्ठत्रयं गुणैर्बद्ध्वा प्रीत्यै रात्रौ चतुष्पथे ॥१२॥

प्रथमेऽह्नि द्वितीये च तृतीये च तथा खग ।
आकाशस्थं पिबेद्दुग्धं प्रेतो वायुवपुर्धरः ॥१३॥

चतुर्थे सञ्चयः कार्यः चतुर्थे?वापि साग्निके ।
अस्थिसञ्चयनं कार्यं दद्यादापाञ्जलिं ततः ॥१४॥

न पूर्वाह्ने न मध्याह्ने नापराह्ने न सन्धिषु ।
याते प्रथमयामे तु दद्यादापजलाञ्जंलीन् ॥१५॥

पुत्त्रेण दत्ते ते सर्वे गोत्रिणो हितबान्धवाः ।
स्वजात्यैः परजात्यैश्च देयो नद्यां जलाञ्जलिः ॥१६॥

गन्तव्यं नैव विप्रेण दातुं शीघ्रं जलाञ्जलिम् ।
निवृत्ताश्च यदा नार्यो लोकाचारः सदाभवेत् ॥१७॥

पञ्चत्वञ्च गते शूद्रे यः काष्ठं नयते चिताम् ।
अनुव्रजेद्यदा विप्रस्त्रिरात्रमशुचिर्भवेत् ॥१८॥

त्रिरात्रे च ततः पूर्णे नदीं गच्छेत्समुद्रगाम् ।
प्राणायामशतं कृत्वा घृतं प्राश्य विशुध्यति ॥१९॥

शूद्रो गच्छति सर्वत्र वैश्यस्त्रिषु द्वयोः परः ।
गच्छति स्वीयवर्णेषु दातुं प्रेते जलाञ्जलिम् ॥२०॥

दत्ते जलाञ्जलौ पश्चाद्विदध्याद्दन्तधावनम् ।
त्यजन्ति गोत्रिणः सर्वे दिनानि नव काश्यप ॥२१॥

जलाञ्जलिं तथा दातुं गच्छन्ति द्विजसत्तमाः ।
यत्र स्थाने मृतो यस्तु अध्वन्यपि गृहेऽपि वा ।
विश्लेषस्तु ततः स्थानान्न क्वचिद्विहितो बुधैः ॥२२॥

स्त्रीजनश्चाग्रतो गच्छेत्पृष्ठतो नवसञ्चयः ।
आचमनं विधातव्यं पाषाणोपरि संस्थितैः ॥२३॥

यवांश्च सर्षपान् दूर्वाः पूर्णपात्रे विलोकयेत् ।
प्राशयेन्निम्बपत्राणि स्नेहस्नानं समाचरेत् ॥२४॥

गोत्रिभिर्न च कर्तव्यं गृहान्नञ्च न भोजयेत् ।
भुञ्जीत मृन्मये पात्रे उत्तानञ्च विवर्जयेत् ॥२५॥

मृतकस्य गुणा ग्राह्या यमगाथां समुद्गिरेत् ।
शुभाशुभे च ध्यातव्ये पूर्वकर्मोपसञ्चिते ॥२६॥

लब्धेनैव च देहेन भुङ्क्ते सुकृतदुष्कृते ।
वायुरूपो भ्रमत्येव वायुरूर्ध्वं स गच्छति ॥२७॥

दशाहकर्मक्रियया कुटी निष्पाद्यते ध्रुवम् ।
नवकैः षोडशश्राद्धैः प्रयाति हि कुटीं नरः ॥२८॥

तिलैर्दर्भैश्च भूम्यां वै कुटी धातुमयी भवेत् ।
पञ्च रत्नानि वक्त्रे तु येन जीवः प्ररोहति ॥२९॥

यदा पुष्पं प्रनष्टं हि तदा गर्भं न धारयेत् ।
आदराच्च ततो भूमौ तिलदर्भान्विनिः क्षिपेत् ॥३०॥

पशुत्वे स्थावरत्वे च यत्र क्वापि स जायते ।
तत्रैव जन्तुरुत्पन्नः श्राद्धं तत्रोपतिष्ठति ॥३१॥

धन्विना लक्ष्यमुद्दिश्य मुक्तो बाणस्तदाप्नुयात् ।
यथा श्राद्धं यमुद्दिश्य कृतं तस्योपतिष्ठति ॥३२॥

यावन्नोत्पादितो देहस्तावच्छ्राद्धैर्न प्रीणनम् ।
क्षुधाविभ्रममापन्नो दशाहेन च तर्पितः ॥३३॥

पिण्डदानं न यस्याभूदाकाशे भ्रमते तु सः ।
दिनत्रयं वसंस्तोये अग्नावपि दिनत्रयम् ।
आकाशे वसते त्रीणि दिनमेकन्तु वासके ॥३४॥

दग्धे देहे च वह्नौ च जलेनैव तु तर्पितः ।
स्नेहस्नानं जलेनैव पूपकैः कृशरैर्गृहे ॥३५॥

प्रथमेऽह्नि तृतीये च पञ्चमे सप्तमेऽपि वा ।
नवमैकादशे चैव श्राद्धं नवकमुच्यते ॥३६॥

गृहद्वारे श्मशाने वा तीर्थे देवालयेऽपि वा ।
यत्राद्यो दीयते पिण्डस्तत्र सर्वान् समापयेत् ॥३७॥

एकादशाहे यच्छ्राद्धं तत्सामान्यमुदाहृतम् ।
चतुर्णामेकवर्णानां शुद्ध्यर्थं स्नानमुच्यते ॥३८॥

कृत्वा चैकादशाहञ्च पुनः स्नात्वा शुचिर्भवेत् ।
दद्याद्विप्राय यः शय्यां यथोक्तं प्रेतमोक्षदाम् ॥३९॥

न भवेत्यदा स गोत्रो परोऽपि विधिमाचरेत् ।
भार्या वा पुरुषः कश्चित्तुष्टश्च कुरुते स्त्रियः ॥४०॥

प्रथमेऽहनि यः पिण्डो दीयते विधिपूर्वकम् ।
अन्नाद्येन च तेनैव सर्वश्राद्धानि कारयेत् ॥४१॥

अमन्त्रं कारयेच्छ्राद्धं दशाहं नामगोत्रतः ।
श्राद्धं कृतन्तु यैर्वस्त्रैस्तानि त्यक्त्वा गृहं विशेत् ॥४२॥

असगोत्रः सगोत्रो वा यदि स्त्री यदि वा पुमान् ।
प्रथमेऽहनि यः कुर्यात्स दशाहं समापयेत् ॥४३॥

जीवस्य दशभिः पिण्डैर्देहो निष्पाद्यते ध्रुवम् ।
वृद्धिश्च दशभिर्मासैर्गर्भस्थस्य यथा भवेत् ॥४४॥

आशौचं यावदेतस्य तावत्पिण्डोदकक्रिया ।
चतुर्णामपि वर्णानामेष एव विधिः स्मृतः ॥४५॥

यत्र त्रिरात्रमाशौचं तत्रादौ त्रीन् प्रदापयेत् ।
चतुरस्तु द्वितीयेऽह्नि तृतीये त्रींश्तथैव च ॥४६॥

पृथक्शरावयोर्दद्यादेकाहं क्षीरमम्बु च ।
एकोद्दिष्टन्तु वै श्राद्धं चतुर्थेऽहनि कारयेत् ॥४७॥

प्रथमेऽहनि यः पिण्डस्तेन मूर्धा प्रजायते ।
चक्षुः श्रोत्रञ्च नासा च द्वितीयेऽह्नि प्रजायते ॥४८॥

गण्डौ वक्त्रं तथा ग्रीवा तृतीयेऽहनि जायते ।
हृदयं कुक्षिरुदरं चतुर्थे तद्वदेव हि ॥४९॥

कटिपृष्ठं गुदञ्चापि पञ्चमेऽहनि जायते ।
षष्ठे ऊरू च विज्ञेये सप्तमे गुल्फसम्भवः ॥५०॥

अष्टमे दिवसे प्राप्ते जङ्घे च भवतोऽण्डज ।
पादौ च नवमे ज्ञेयौ दशमे बलवत्क्षुधा ॥५१॥

एकादशाहे यः पिण्डस्तं दद्यादामिषेण तु ।
सिद्धान्नं तस्य दातव्यं कृशराः पूपकाः पयः ।
प्रक्षाल्य विप्रचरणावर्घ्यं धूपञ्च दीपक्रम् ॥५२॥

द्वादश प्रतिमास्यानि श्राद्धान्यैकादशे तथा ।
त्रिपक्षञ्चापि षण्मासे द्वे श्राद्धानि च षोडश ॥५३॥

प्रति मासं प्रदातव्यं मृताहे या तिथिर्भवेत् ।
स मासः प्रथमो ज्ञेय इति वेदविदो विदुः ॥५४॥

शवहस्ते च यच्छ्राद्धं मृतिस्थाने द्विजासने ।
तदेव प्रथमं श्राद्धं तत्स्यादेकादशेऽहनि ॥५५॥

सा तिथिर्मासिके श्राद्धे मृतो यस्मिन् दिने नरः ।
रिक्तयोश्च त्रिपक्षे च सा तिथिर्नाद्रियेत वै ॥५६॥

पौर्णमास्यां मृतो योऽसौ चतुर्थी तस्य चोनका ।
चतुर्थ्यान्तु मृतो यस्तु नवमी तस्य चोनका ॥५७॥

नवम्याञ्च मृतो यश्च रिक्ता तस्य चतुर्दशी ।
एता रिक्ताश्च विज्ञेया अन्त्येष्टौ कुशलेन च ॥५८॥

एकादशाहे यच्छ्राद्धं नवकं तत्प्रकीर्तितम् ।
चतुष्पथे त्यजेदन्नं पुनः स्नानं समाचरेत् ॥५९॥

एकादशाहादारभ्य घटस्यान्नं जलान्वितम् ।
दिनेदिने च दातव्यमब्दं यावद्द्विजोत्तमे ॥६०॥

मानुषस्य शरीरे तु विद्यते ह्यस्थिसञ्चयः ।
तत्संख्यः सर्वदेहेषु षष्ट्यधिकशतत्रयम् ॥६१॥

उदकुम्भेन पुष्टानि तान्यस्थीनि भवन्ति हि ।
एतस्माद्दीयते कुम्भः प्रीतिः प्रेतस्य जायते ॥६२॥

यस्मिन् दिने मृतो जन्तुरटव्यां विषमेऽपि वा ।
यदा तदा भवेद्दाहः सूतकं मृतवासरात् ॥६३॥

तिलपात्रं तथान्नाद्यं गन्धधपादिकञ्च यत् ।
एकादशाहे दातव्यं तेन शूद्धो द्विजो भवेत् ॥६४॥

क्षत्त्रियो द्वादशाहे तु वैश्यः पञ्चदशे तथा ।
शुद्धिः शूद्रस्य मासेन मृतके जातसूतके ॥६५॥

मासत्रये त्रिरात्रं स्यात्षण्मासेन तु पक्षिणी ।
अहः संवत्सरादर्ब्वाक्पूर्णे दत्त्वोदकं शुचिः ।
अनेनैवा नुसारेण शुद्धिः स्यात्सार्ववर्णिकी ॥६६॥

एकादशाहप्रभृति पुरतः प्रतिवत्सरम् ।
विश्वेदेवांस्तु सम्पूज्य पिण्डमेकञ्च निर्वपेत् ॥६७॥

यथा तारागणाः सर्वे च्छाद्यन्ते रविरश्मिभिः ।
एवं प्रच्छाद्यते सर्वं न प्रेतो भवति क्वचित् ॥६८॥

शय्यादानं प्रशंसन्ति सर्वदैव द्विजोत्तमाः ।
अनित्यं जीवनं य्समात्पश्चात्को नु प्रदास्यति ॥६९॥

तावद्वन्धुः पिता तावद्यावज्जीवति मानवः ।
मृते मृत इति ज्ञात्वा क्षणात्स्नेहो निवर्तते ॥७०॥

आत्मैव ह्यात्मनो बन्धुरेवं ज्ञात्वा मुहुर्मुहुः ।
जीवन्नपीति सञ्चिन्त्य स्वीयं हितमनुस्तमरेत् ॥७१॥

मृतानां कः सुतो दद्याद्द्विजेशय्यां सतूलिकाम् ।
एवं जानन्निदं सर्वं स्वहस्तेनैव दापयेत् ॥७२॥

तस्माच्छय्यां समासाद्य सारदारुमर्यो दृढाम् ।
दन्तादिरुचिरां रम्यां हेमपट्टै रलङ्कृताम् ।
तस्यां संस्थाप्य हैमञ्च हरिं लक्ष्म्या समन्वितम् ॥७३॥

घृतपूर्णञ्च कलशं परिकल्पयेत् ।
विज्ञेयो गरुड प्रीत्यै स निद्राकलशो बुधैः ॥७४॥

ताम्बूलकुङ्कुमक्षोदकर्पूरागुरुचन्दनम् ।
दीपिकोपानहच्छत्रचामरासनभाजनम् ॥७५॥

पार्श्वेषु स्थापयेच्छक्त्या सप्तधान्यानि चैवहि ।
शयनस्थस्य भवति यच्चान्यदुपकारकम् ॥७६॥

भृङ्गारकरकादर्शं पञ्चवर्णं वितानकम् ।
शय्यामेवंविधां कृत्वा ब्राह्मणाय निवेदयेत् ॥७७॥

सपत्नीकाय सम्पूज्य स्वर्लोकसुखदायिनीम् ।
वस्त्रैः सुशोभनैः पूज्य चैलकं परिधापयेत् ॥७८॥

कर्णकण्ठाङ्गुलीबाहुभूषणैश्चित्रभूषणैः ।
गृहोपकरणैर्युक्तं गृहं धेन्वा समन्वितम् ॥७९॥

ततोर्ऽघः सम्प्रदातव्यः पञ्चरत्नफलाक्षतैः ॥८०॥

यथा न कृष्णशयनं शून्यं सागरकन्यया ।
शय्या ममाप्यशून्यास्तु तथा जन्मनिजन्मनि ॥८१॥

दत्त्वैवं तल्पममलं क्षमाप्य च विसर्जयेत् ।
तथा चैकादशाहे तु विधिरेष प्रकीर्तितः ॥८२॥

ददाति यो हि धर्मार्थे बान्धवो बान्धवे मृते ।
विशेषमत्र पक्षे तु कथ्यमानं मया शृणु ॥८३॥

उपयुक्तञ्च तस्यासीत्यत्किञ्चित्स्वगृहे पुरा ।
तस्य यद्गात्रसं लग्नं वस्त्रं भाजनवाहनम् ।
यदभीष्टञ्च तस्यासीत्तत्सर्वं परिकल्पयेत् ॥८४॥

स्थापयेत्पुरुषं हैमं शय्योपरि शुभं बुधः ।
पूजयित्वा प्रदातव्या मृतशय्या यथोदिता ॥८५॥

पुरन्दरगृहे सर्वं सूर्यपुत्रालये तथा ।
उपतिष्ठेत्सुखं जन्तोः शय्यादानप्रभावतः ॥८६॥

पीडयन्ति न तं याम्याः पुरुषा भीषणाननाः ।
न घर्मेण न शीतेन बाध्यते स नरः क्वचित् ॥८७॥

शय्यादानप्रभावेण प्रेतो मुच्यते बन्धनात् ।
अपिः पापसमायुक्तः स्वर्गलोकं स गच्छति ॥८८॥

विमानवरमारूढः सेव्यमानोऽप्सरोगणैः ।
आभूतसंप्लवं यावत्तिष्ठेत्पातकवर्जितः ॥८९॥

नवकं षोडशश्राद्धं शय्या सांवत्सरं तथा ।
भर्तुर्या कुरुते नारी तस्याः श्रेयो ह्यनन्तकम् ॥९०॥

उपकाराय सा भर्तुर्जीवन्ती न मृता तथा ।
उद्धरेज्जीवमाना सा सती सत्यवती प्रियम् ॥९१॥

स्त्रिया दध्यन्नशयने हेमकुङ्कुममञ्जनम् ।
वस्त्रभूषा तथा शय्या सर्वमेतद्धि दापयेत् ॥९२॥

उपकारकरं स्त्रीणां यद्भवोदिह किञ्चन ।
भूषणं गात्रलग्नञ्च वस्तु भोग्यादिकञ्च यत् ॥९३॥

तत्सर्वं मेलयित्वा तु स्वेस्वे स्थाने नियोजयेत् ।
पूजयेल्लोकपालांश्च ग्रहान् देवीं विनायकम् ॥९४॥

ततः शुक्लाम्बरधरो गृहीतकुसुमाञ्जलिः ।
इममुच्चारयेन्मन्त्रं विप्रस्य पुरतो बुधः ॥९५॥

प्रेतस्य प्रतिमा ह्येषा सर्वोपकरणैर्युता ।
सर्वरत्नसमायुक्ता तव विप्रनिवेदिता ॥९६॥

आत्मा शम्भुः शिवा गौरी शक्रः सुरगणैः सह ।
तस्माच्छय्याप्रदानेन सैष आत्मा प्रसीदतु ॥९७॥

आचार्याय प्रदातव्या ब्राह्मणाय कुटुम्बिने ।
गृहीते ब्राह्मणस्तत्र कोऽदादिति च कीर्तयेत् ॥९८॥

ततः प्रदक्षिणीकृत्य प्रणिपत्य विसर्जयेत् ।
विधिनानेन वै पक्षिन् दानमेकस्य दापयेत् ॥९९॥

बहुभ्यो न प्रदेयानि गौर्गृहं शयनं स्त्रियः ।
विभक्तदक्षिणा ह्येते दातारं पातयन्ति हि ॥१००॥

एवं यो वितरेत्तार्क्ष्य शृणु तस्य च यत्फलम् ।
साग्रं वर्षशतं दिव्यं स्वर्गलोके महीयते ॥१०१॥

यत्पुण्यन्तु व्यतीपाते कार्तिक्यामयनद्वये ।
द्वारकायान्तु यत्पुण्यं चन्द्रसूर्यग्रहे तथा ॥१०२॥

प्रयागे नैमिषे यच्च कुरुक्षेत्रे तर्थाबुदे ।
गङ्गायां यमुनायाञ्च सिन्धुसागरसंगमे ॥१०३॥

तेषु यद्दीयते दानं तस्मादप्यधिकन्त्विदम् ।
एतच्छय्याप्रदानस्य नाप्नोति षोडशीं कलाम् ॥१०४॥

यत्रासौ जायते प्राणी भुङ्क्ते तत्रैव तत्फलम् ।
कर्मक्षये क्षितौ याति मानुषः शुभदर्शनः ॥१०५॥

महाधनी च धर्मज्ञः सर्वशास्त्रविशारदः ।
पुनः स याति वैकुण्ठं मृतोऽसौ नरपुङ्गवः ॥१०६॥

दिव्यं विमानमारुह्य अप्सरोभिः समावृतः ।
अहोऽसौ हव्यकव्येषु पितृभिः सह मोदते ॥१०७॥

अष्टकासु कृतं श्राद्धममावास्यादिने तथा ।
मघासु पितृपर्वाणि यानियानि च तेषु च ॥१०८॥

शृणु तार्क्ष्य यथान्यायं प्रेतत्वे पितरो यदि ।
नोपतिष्ठन्ति श्राद्धानि सपिण्डीकरणं विना ॥१०९॥

सपिण्डीकरणं कार्यं पूर्णे वर्षे न संशयः ।
आद्यन्तु शवशुद्ध्यर्थं कृत्वा चैवाक्ष षोडशीम् ॥११०॥

पितृपाङ्क्तिविशुर्ध्यं शतार्धेन? तु योजयेत् ।
वृद्धिं प्राप्याग्रतः कुर्याच्छूद्रस्य स्वच्छयैव हि ॥१११॥

साम्प्रतं साग्निके कार्यं द्वादशाहे सपिण्डनम् ।
न चासौ कुरुते यावत्प्रेत एव स वह्निमान् ।
द्वादशाहे ततः कार्यं साग्निकेन सपिण्डनम् ॥११२॥

अस्थिपोक्षे गयाश्राद्धं श्राद्धञ्चापरपक्षिकम् ।
अब्दमध्ये न कुर्वीत सपिण्डीकरणं विना ॥११३॥

सपत्न्यो यदि बह्व्यः स्युरेका पुत्रवती भवेत् ।
सर्वास्ताः पुत्रवत्यः स्युस्तेनैकेनात्मजेन हि ॥११४॥

नासपिण्डोग्निमान् पुत्रः पितृयज्ञं समाचरेत् ।
समाचाराद्भवेत्पापी पितृहा चापि जायते ॥११५॥

मृते भर्तरि या नारी प्राणांश्चैव परित्यजेत् ।
भर्त्रैव हि समं तस्याः प्रकुर्वीत सपिण्डनम् ॥११६॥

अस्थानिकापि या व्यूढा वैश्या वा क्षत्त्रियापि वा ।
याः पत्न्यो वै पितुः कश्चित्कुर्यात्पुत्रः सपिण्डनम् ॥११७॥

विप्रेणैव यदा शूद्रा परिणीता प्रमादतः ।
एकोद्दिष्टन्तु तच्छ्राद्ध सा तु तेनैव युज्यते ॥११८॥

अन्ये तु दश ये पुत्रा जाता वर्ण चतुष्टये ।
ते तासुतासु योक्त्वयाः सपिण्डीकरणे सदा ॥११९॥

अन्वष्टकासु यच्छ्राद्ध यच्छ्राद्धं वृद्धिहेतुकम् ।
पितुः पृथक्प्रदाव्यं स्त्रियाः पिण्डं सपिण्डने ॥१२०॥

पितामह्या समं मातुः पितुः सहपितामहैः ।
सपिण्डीकरणं कार्यमिति तार्क्ष्य मतं मम ॥१२१॥

अपुत्रायां मृतायां तु पतिः कुर्यात्सपिण्डनम् ।
मात्रादितिसृभिः सार्धमेवं धर्मेण योजयेत् ॥१२२॥

पुत्रो नास्ति न भर्ता च स्त्रीणां तार्क्ष्य सपिण्डनम् ।
कारयेद्वृद्धिसमये भ्रातृदायाददेवरैः ॥१२३॥

पतिपुत्रविहीनानां गोत्री नास्ति न देवरः ।
एकोद्दिष्टेन दातव्यं परेण सह भ्रातृभिः ॥१२४॥

अज्ञानाद्विघ्नतो वापि न कृतञ्चेत्सपिण्डनम् ।
नवकं षोडशश्राद्धमाब्दिकं कारयेत्ततः ॥१२५॥

अदाहे न च कर्तव्यं सदाहे कारयेद्बुधः ।
दर्भपुत्तलकं कृत्वा वह्निना दाहयेच्छवम् ॥१२६॥

पितुः पुत्रेण कर्तव्यं न कुर्ब्वीत पिता सुते ।
अतिस्नेहान्न कर्तव्यं सपिण्डीकरणं सते ॥१२७॥

बहवोऽपि यदा पुत्रा विधिमेकः समाचरेत् ।
नवश्राद्धं सपिण्डत्वं श्राद्धान्यन्यानि षोडश ॥१२८॥

एकेनैव तु कार्यांणि अविभक्तधनेष्वपि ।
अन्त्येष्टिं कुरुते ह्येको मुनिभैः समुदाहृतम् ॥१२९॥

विभक्तैश्च पृथक्कार्या क्रिया सांवत्सरादिका ।
एकैकेन च कर्तव्या पुत्रेण च स्वयंस्वयम् ॥१३०॥

यस्यैतानि न दत्तानि प्रेतश्राद्धानि षोडश ।
पिशाचत्वंस्थिरं तस्य कृतैः श्राद्धशतैरपि ॥१३१॥

भ्राता वा भ्रातृपुत्रो वा सपिण्डः शिष्य एव वा ।
सपिण्डीकरणं कुर्यात्पुत्रहीने खगेश्वर ॥१३२॥

सर्वेषां पुत्रहीनानां पत्री कुर्यात्सपिण्डनम् ।
ऋत्विजं करायेद्वाथ पुरोहितमथापि वा ॥१३३॥

मृते पितर्यब्दमध्ये ह्युपरागो यदा भवेत् ।
पार्वणं न सुतैः कार्यं श्राद्धं नान्दीमुखं न च ॥१३४॥

तीर्थश्राद्धं गयाश्राद्धं श्राद्धमन्यच्च पैतृकम् ।
अब्दमध्ये न कुर्वीत महागुरुविपत्तिषु ॥१३५॥

यमके च गजच्छायामन्वादिषु युगादिषु ।
पितृपिण्डो न दातव्यः सपिण्डीकरणं विना ॥१३६॥

यज्ञपुरुषस्य यद्दानं देवादीनाञ्च यत्तथा ।
अपूर्णेऽप्यब्दमध्येपि कर्तव्यमिति के च न ॥१३७॥

पितृभ्योपि हि यद्दत्तमर्घपिण्डविवर्जितम् ।
कर्तव्यं तच्च वै सर्वमेष एव विधिः स्मृतः ॥१३८॥

देवानां पितरो देवा पितॄणामृषयस्तथा ।
ऋषीणां पितरो देवाः पिता जयति तेन वै ॥१३९॥

पितृदेवमनुष्याणां यज्ञनथो विभुर्भवेत् ।
यज्ञनाथस्य यद्दत्तं तद्दत्तं सर्वदेहिनाम् ॥१४०॥

मृते पितर्यब्दमध्ये यः श्राद्धं कारयेत्सुतः ।
सप्तजन्मकृता धर्माथीयते नात्र संशयः ॥१४१॥

प्रेतीभूतास्तु पितरो लुप्तपिण्डोदकक्रियाः ।
भ्रमन्ति वायुना सर्वे क्षुत्तृड्भ्यां परिपीडिताः ॥१४२॥

पितरि प्रेततापन्ने लुप्यते पैतृकी क्रिया ।
अथ मातुर्विपत्तिः स्यात्पितृकार्यं न लुप्यते ॥१४३॥

मृता माता पिता तिष्ठेज्जीवन्ती च पितामही ।
सपिण्डनन्तु कर्तव्यं पितामह्या सहैव तु ॥१४४॥

सत्यंसत्यं पुनः सत्यं श्रूयतां वचनं मम ।
न पिण्डो मिलितो येषां मृतानान्तु नृणां भुवि ॥१४५॥

उपतिष्ठेन्न वे तेषां पुत्रैर्दत्तमनेकधा ।
हन्तकारस्तदुद्देशे श्राद्धं नैव जलाञ्जलिः ॥१४६॥

इति श्रीगारुडे महापुराणे उत्तरखण्डे द्वितीयांशे धर्मकाण्डे प्रेतकल्पे श्रीकृष्णगरुडसंवादे और्ध्वदेहिकादिनिरूपणं नाम चतुस्त्रिंशोऽध्यायः

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:53:15.3030000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

केश काढणें

  • श्मश्रु करणें 
  • वपन करणें. 
RANDOM WORD

Did you know?

Are the advertisements necessary on your pages?
Category : About us!
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site