TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|पुराण|गरूडपुराणम्|प्रेतकाण्डः (धर्मकाण्डः)|

प्रेतकाण्डः - अध्यायः २६

विष्णू पुराणाचा एक भाग असलेल्या गरूड पुराणात मृत्यूनंतरच्या स्थितीबद्दलची चर्चा आहे, शिवाय श्रद्धाळू हिंदू धर्मीयांमध्ये मृत्यूनंतर जी विविध क्रिया कर्मे केली जातात, त्याला गरूडपुराणाची पार्श्वभूमी आहे.


अध्यायः २६
गरुड उवाच ।
सत्यं ब्रूहि सुरश्रेष्ठ कृपां कृत्वा मयि प्रभो ।
मृतानां चैव जन्तूनां कदा कुर्यात्सपिण्डनम् ॥१॥

सपिण्डत्वे कुतो यान्ति असपिण्डे कुतो गतिः ।
केनैव सहपिण्डत्वं स्त्रीपुसोर्वक्तुमर्हसि ॥२॥

स्त्रीपुमांशौ सहैकत्वं पाप्नुतः कथमुत्तमम् ।
जीवेद्भर्तरि नारीणां सपिण्डीकरणं कुतः ॥३॥

भर्तृलोकं कथं यान्ति स्वर्गलोकं सुरेश्वर ।
अग्न्यारोहे कथं श्राद्धं वृषोत्सर्गः कथं भवेत् ॥४॥

घटदानं कथं कार्यं सपिण्डीकरणे कृते ।
कथयस्व प्रसादेन हीताय जगतां प्रभो ॥५॥

श्रीभगवानुवाच ।
यथावत्कथयिष्यामि सपिण्डीकरणं खग ।
वर्षं यावत्खगश्रेष्ठ यदाचरति मानवः ॥६॥

सपिण्डने ततो वृत्ते पितृलोकं स गच्छति ।
तस्मात्पुत्त्रेण कर्तव्यं सपिण्डीकरणं पितुः ॥७॥

संवत्सरे तु सम्पूर्णे कुर्यात्पिण्ड प्रवेशनम् ।
पिण्डप्रवेशविधना तस्य नित्यं मृताह्निकम् ॥८॥

निश्चितं पक्षिशार्दूल वर्षान्ते पिण्डमेलनम् ।
सहपिण्डे कृते प्रेतस्ततो याति परां गतिम् ।
तन्नाम सम्परित्यज्य ततः पितृगणो भवेत् ॥९॥

त्रिपक्षे वापि षण्मासे मेलयेत्प्रपितामहैः ।
ज्ञात्वा वृद्धिविवाहादि स्वगोत्रविहितानि च ॥१०॥

विवाहं नैव कुर्वीत मृते च गृहमेधिनि ।
भिक्षुर्भिक्षां न गृह्णाति यावत्कुर्यात्सपिण्डनम् ॥११॥

स्वगोत्रेऽप्यशुचिस्तावद्यावत्पिण्डं न मेलयेत् ।
मेलनात्प्रेतशब्दस्तु निवर्तेत खगेश्वर ॥१२॥

आनन्त्यात्कुलधर्माणां पुंसाञ्चैवायुषः क्षयात् ।
अस्थिरत्वाच्छरीरस्य द्वादशाहः प्रशस्यते ॥१३॥

निरग्निकः साग्निको वा द्वादशाहे सपिण्डयेत् ॥१४॥

द्वादशाहे त्रिपक्षे वा षण्मासे वत्सरेऽपि वा ।
सपिण्डीकरणं प्रोक्तमृषिभिस्तत्त्वदर्शिभिः ॥१५॥

सपुत्त्रस्य न कर्तव्यमेकोद्दिष्टं कदाचन ।
सपिण्डीकरणादूर्ध्वं यत्रयत्र प्रदीयते ॥१६॥

तत्रतत्र त्रयं कार्यमन्यथा पितृघातकः ।
त्रिभिः कुर्यादशक्तश्च पार्वणं मुनिनोदितम् ॥१७॥

तद्दिने तद्दिने कुर्यात्पितामहमुखान्यतः ।
अज्ञानाद्दिनमासानां तस्मात्पार्वणमिष्यते ॥१८॥

अनुत्पन्नशरीरस्य न दानं पितृभिः सह ।
एतैः षोडशभिः श्राद्धैः प्रेतो मुक्तस्तु जायते ॥१९॥

अपुत्त्रस्य सपिण्डत्वं नैव कुर्यात्स्त्रियोऽपि वा ।
यावज्जीव च सद्भत्र्या न कुर्यात्सहपिण्डताम् ॥२०॥

ब्राह्मादिषु विवाहेषु या वधूरिह संस्कृता ।
भर्तृगोत्रेण कर्तव्यास्तस्याः पिण्डोदकक्रियाः ॥२१॥

आसुरादिविवा हेषु या व्यूढा कन्यका भवेत् ।
तस्यास्तु पितृगोत्रेण कुर्यात्पिण्डोदकक्रियाः ॥२२॥

पितुः पुत्त्रेण कर्तव्यं सपिण्डीकरणं सदा ।
पुत्त्राभावे तु पत्नी स्यात्पत्न्यभावे सहोदरः ॥२३॥

भ्राता वा भ्रातृपुत्त्रो वा सपिण्डः शिष्य एव वा ।
सपिण्डनक्रियां कृत्वा कुर्यान्नान्दीमुखं ततः ॥२४॥

ज्येष्ठस्यैव कनिष्ठेन भ्रातृपुत्त्रेण भार्यया ।
सपिण्डीकरणं कार्यं पुत्रहीने नरे खग ॥२५॥

भ्रातॄणामेकजातानामेकश्चेत्पुत्रवान् भवेत् ।
सर्वेते तेन पुत्रेण पुत्रिणो मनुरब्रवीत् ॥२६॥

सर्वेषां पुत्रहीनानां पत्नी कुर्यात्सपिण्डनम् ।
ऋत्विजा कारयेद्वापि पुरोहितमथापि वा ॥२७॥

कृतचूडोपनीतश्च पितुः श्राद्धं समाचरेत् ।
उच्चारयेत्स्वधाकारं न तु वेदाक्षराण्यसौ ॥२८॥

भर्त्रादिभिस्त्रिभिः कार्यं सपिण्डीकरणं स्त्रियाः ।
पितृव्यभ्रातृपुत्रेण सोदरेण कनीयसा ॥२९॥

अर्वाक्संवत्सरात्सन्धौ पूर्णे संवत्सरेऽपि वा ।
ये सपिण्डीकृताः प्रेतास्तेषां न स्यात्पृथक्क्रिया ॥३०॥

सपिण्डने कृते वत्स पृथक्त्वं तु विगर्हितम् ।
यस्तु कुर्यात्पृथक्पिण्डं पितृहा सोऽभिजायते ॥३१॥

सपिण्डीकरणे वृत्ते पृथक्त्वं नोपपद्यते ।
पृथक्पिण्डे कृते पश्चात्पुनः कुर्यात्सपिण्डनम् ॥३२॥

सपिण्डीकरणं कृत्वा एकोद्दिष्टं करोति यः ।
आत्मानं च तथा प्रेतं स नयेद्दमशासनम् ॥३३॥

वर्षं यावक्त्रिया कार्या नामगोत्रेण धीमता ।
घटादि भोजनं नित्यं पददानानि यानि च ।
सपिण्डीकरणे वृत्ते एकस्यैव तु दापयेत् ॥३४॥

अन्नं पानीयसहितं संख्यां कृत्वाब्दिकस्य च ।
दातव्यं ब्राह्मणे पक्षिञ्जलपूर्णघटादिकम् ॥३५॥

पिण्डान्ते तस्य सकला वर्षवृत्तिः स्वशक्तितः ।
दिव्यदेहो विमानस्थः सुखं याति यमालयम् ॥३६॥

जीवमाने च पितरि न हि पुत्त्रे सपिण्डता ।
स्त्रीणां सपिण्डनं नास्ति तथा भर्तरि जीवति ॥३७॥

हुताशं या समारूढा चतुर्थेऽह्नि पतिव्रता ।
तस्या भर्तृदिने कार्यं वृषोत्सर्गादिकं च यत् ॥३८॥

पुत्त्रिका पतिगोत्रा स्यादधस्तात्पुत्रजन्मनः ।
पुत्रोत्पत्तेः परस्तात्सा पितृगोत्रं व्रजेत्पुनः ॥३९॥

पतिपत्न्योः सदैकत्वं हुताशं याधिरोहति ।
पुत्रेणैव पृथक्श्राद्धं क्षयाख्ये तस्य वासरे ॥४०॥

अपुत्त्रौ चेन्मृतौ स्यातामेकचित्यां समेऽहनि ।
पृथक्श्राद्धानि कुर्वीत सापिड्यं पतिना सह ॥४१॥

पृथक्पृथक्च पिण्डेन दम्पती पतिना सह ।
न लिप्यते महादोषैरेतत्सत्यं वचो मम ॥४२॥

एकचित्यां समारूढौ दम्पती निधनं गतौ ।
एकपाकं प्रकुर्वीत पिण्डान्दद्यात्पृथक्पृथक् ॥४३॥

एकादशे वृषोत्सर्गं प्रेतश्राद्धानि षोडश ।
घटादिपददानानि महादानानि यानि च ।
वर्षं यावत्पृथक्कुर्यात्प्रेतस्तृप्तिं व्रजेच्चिरम् ॥४४॥

एकगोत्रे मृतानां तु स्त्रिया वा पुरुषस्य वा ।
स्थण्डिलं चैकतः कुर्याद्धोमं कुर्यात्पृथक्पृथक् ॥४५॥

एकादशेऽह्नि यच्छ्राद्धं पृथक्पिण्डाश्च भोजनम् ।
पाकैरेन पतिस्त्रीणामन्येषां च विगर्हितम् ॥४६॥

एकेनैव तु पाकेन श्राद्धानि कुरुते सुतः ।
एकं तु विकिरं कुर्यात्पिण्डान्दद्यद्बहूनपि ।
तीर्थे चापरपक्षे वा चन्द्रसूर्यग्रहेऽपि वा ॥४७॥

नारी भर्तारमासाद्य कुणपं दहते यदा ।
अग्निर्दहति गात्राणि आत्मानं नैव पीडयेत् ॥४८॥

दह्यते ध्मायमानानां धातूनां हि यथा मलम् ।
तथा नारी दहेद्देहं हुताशे ह्यमृतोपमे ॥४९॥

दिव्यादौ दिव्यदेहस्तु शुद्धो भवति पूरुषः ।
तप्ततैलेन लोहेन वह्निना नैव दह्यते ॥५०॥

तथा सा पतिसंयुक्ता दह्यते न कदाचन ।
अन्तरात्मा मृते तस्मिन्मृतोऽप्येकत्वमागतः ॥५१॥

भर्तृसंगं परित्यज्य अन्यत्र म्रियते यदि ।
भर्तृलोकं न सा याति यावदाभूतसंप्लवम् ॥५२॥

लक्ष्मीयुतान्परित्यज्य मातरं पितरं तथा ।
मृतं पतिमनुव्रज्य सा चिरं सुखमेधते ॥५३॥

दिव्यवर्षप्रमाणेन तिस्रः कोट्योर्ऽद्धकोटयः ।
तावत्कालं वसेत्स्वर्गे नक्षत्रैः सह सर्वदा ॥५४॥

तदन्ते चरते लोके कुले भवति भोगिनाम् ।
सा हि लब्धमहाप्रीतिर्भर्त्रा सह पतिव्रता ॥५५॥

एवं न कुरुते नारी धर्मोढा पतिसंगमम् ।
जन्मजन्मनि दुः खार्तादुः शीलाप्रियवादिनी ॥५६॥

वल्गुली गृहसोधा वा गोधा वा द्विमुखी भवेत् ।
स्वभर्तारं परित्यज्य परपुंसोनुवर्तिनी ॥५७॥

तस्मात्सर्वप्रयत्नेन स्वपतिं स्त्री निषेवते ।
मनसा कर्मणा वाचा मृतं जीवन्तमेव वा ॥५८॥

जीवमाने मृते वापि किल्बिषं कुरुते तु या ।
स च वैधव्यमाप्नोति जन्मजन्मनि दुर्भगा ॥५९॥

यद्देवेभ्यो यत्पितृभ्यः श्रद्धयैव प्रदीयते ।
तत्फलं भर्तृपूजातः कुर्याद्भर्त्रर्चनं ततः ॥६०॥

एवं कृते खगश्रेष्ठ पितृलोके चिरं वसेत् ।
यावदादित्यचन्द्रौ च तावद्देवसमा दिवि ॥६१॥

पुनश्चिरायुषो भूत्त्वा जायन्ते विपुले कुले ।
पतिव्रता यथा नारी भर्तृदुःखं न विन्दति ॥६२॥

सर्वमेतद्धि कथितं मया तव खगेश्वर ।
विशेषं कथयिष्यामि मृतस्यैव सुखप्रदम् ॥६३॥

द्वादशाहे कृतं सर्वं वर्षं यावत्सपिण्डनम् ।
पुनः कुर्यात्सदा नित्यं घटान्नं प्रतिमासिकम् ॥६४॥

कृतस्य करणं नास्ति प्रेतकार्यादृते खग ।
यः करोति नरः कश्चित्कृत्पूर्वं विनश्यति ॥६५॥

मृतस्यैव पुनः कुर्यात्प्रेतोऽक्षय्यमवाप्नुयात् ।
प्रतिमासं घटा देया सोदना जलपूरिताः ॥६६॥

अर्वाक्च वृद्धेः करणाच्च तार्क्ष्य सपिण्डनं यः कुरुते हि पुत्रः ।
तथापि मासं प्रतिपिण्डमेकमन्नं च कुम्भं सजलं च दद्यात् ॥६७॥

इति श्रीगारुडे महापुराणे उत्तरखण्डेद्वितीयांशे धर्मकाण्डे श्रीकृष्णगरुडसंवादे प्रेतकल्पे सपिण्डननिरूपणं नाम षड्विंशोऽध्यायः

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:53:14.8330000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

samara(, समर)

  • Bot.(a single seeded, dry indehiscent fruit, having a wing like extension of the pericarp) सपक्ष (न.) (फळ) 
  • न. पंखी 
  • सपक्ष कृत्स्नफल 
  • सपक्ष कृत्स्नफळ, सपक्षफल 
More meanings
RANDOM WORD

Did you know?

देवक म्हणजे काय ? त्याचे महत्व काय ?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site