TransLiteral Foundation
संस्कृत सूची|संस्कृत साहित्य|पुराण|गरूडपुराणम्|प्रेतकाण्डः (धर्मकाण्डः)|

प्रेतकाण्डः - अध्यायः १५

विष्णू पुराणाचा एक भाग असलेल्या गरूड पुराणात मृत्यूनंतरच्या स्थितीबद्दलची चर्चा आहे, शिवाय श्रद्धाळू हिंदू धर्मीयांमध्ये मृत्यूनंतर जी विविध क्रिया कर्मे केली जातात, त्याला गरूडपुराणाची पार्श्वभूमी आहे.


अध्यायः १५
गरुड उवाच ।
बगवन्ब्रूहि मे सर्वं यमलोकस्य निर्णयम् ।
जन्तोः प्रयाणमारभ्य माहात्म्यं वर्त्मविस्तरम् ॥१॥

श्रीभगवानुवाच ।
शृणु तार्क्ष्य प्रवक्ष्यामि यममार्गस्य निर्णयम् ।
प्रयाणकानि सर्वाणि नगराणि च षोडश ॥२॥

षाडशीतिसहस्राणि योजनानां प्रमाणतः ।
यमलोकस्य चोर्ध्वं वै अन्तरा मानुषस्य च ॥३॥

कुकृतं दुष्कृतं वापि भुक्त्वा लोके यथार्जितम् ।
कर्मयोगाद्यदा कश्चिद्व्याधिरुत्पद्यते खग ॥४॥

निमित्तमात्रं सर्वेषां कृतकर्मानुसारतः ।
यस्य यो विहितो मृत्युः स तं ध्रुवमवाप्नुयात् ॥५॥

कर्मयोगाद्यदा देही मुञ्चत्यत्र निजं वपुः ।
तदा भूमिगतं कुर्याद्गोमयेनोपलिप्य च ॥६॥

तिलान्दर्भान्विकीर्याथ मुखे स्वर्णं विनिः क्षिपेत् ।
तुलसींसन्निधौ कृत्वा शालग्रामशिलां तथा ॥७॥

सेतु (एवं) सामादिसूक्तैस्तु मरणं मुक्तिदायकम् ।
शलाकास्वर्णविक्षपैः प्रतप्राणिगृहेषुच ॥८॥

एका वक्त्रे तु दातव्या घ्राणयुग्मे तथा पुनः ।
अक्ष्णोश्च कर्णयोश्चैव द्वेद्वे देये यथाक्रमम् ॥९॥

अथ लिङ्गे तथा चैका त्वेकां ब्रह्माण्डकेक्षिपेत् ।
करयुग्मे च कण्ठे च तुलसीं च प्रदापयेत् ॥१०॥

वस्त्रयुग्मं च दातव्यं कङ्कुमैश्चाक्षतैर्यजेत् ।
पुष्पमालायुतं कुर्यादन्यद्वारेण सन्नयेत् ॥११॥

पुत्रस्तु बान्धवैः सार्धं विप्रस्तु पुरवासिभिः ।
पितुः प्रेतं स्वयं पुत्रः स्कन्धमारोप्य बान्धवैः ॥१२॥

गत्वा श्मशानदेशे तु प्राड्मुखश्चोत्तरामुखम् ।
अदग्धपूर्वा या भूमिश्चितां तत्रैव कारयेत् ॥१३॥

श्रीखण्डतुलसीकाष्ठसमित्पालाशसंभृताम् ।
विकलेन्द्रियसङ्घाते चैतन्ये जडतां गते ॥१४॥

प्रचलन्ति ततः प्राणा याम्यैर्निकटवर्तिभिः ।
एकीभूतं जगत्पश्येद्दैवी दृष्टिः प्रजायते ॥१५॥

बीभत्सं दारुणं रूपं प्रणैः कण्ठं समाश्रितैः ।
फेनमुद्गिरते कोपि मुखं लालाकुलं भवेत् ॥१६॥

दुरात्मानश्च ताड्यन्ते किङ्करैः पाशबन्धनैः ।
सुखेन कृतिनस्तत्र नीयन्ते नाकनायकैः ॥१७॥

दुः खेन पापिनो यान्ति यममार्गे च दुर्गमे ।
यमश्चतुर्भुजो भूत्वा शङ्खचक्रगदादिभृत् ॥१८॥

पुण्यकर्मरतान्सम्यक्शुभान्मित्रवदाचरेत् ।
आहूय पापिनः सर्वान्यमो दण्डेन रज्जयेत् ॥१९॥

प्रलयाम्बुदनिर्घोषस्त्वञ्जनाद्रिसमप्रभः ।
महिषस्थो दुराराध्यो विद्युत्तेजः समद्युतिः ॥२०॥

योजनत्रयविस्तारदेहो रौद्रोऽतिभीषणः ।
लोहदण्डधरो भीमः पाशपाणिर्दुराकृतिः ॥२१॥

वक्रनेत्रोऽतिभयदो दर्शनं याति पापिनाम् ।
अङ्गुष्ठमात्रः पुरुषो हाहा कुर्वन् कलेवरात् ॥२२॥

तदैव नीयते दूतैर्याम्यैर्वोक्षन्स्वकं गृहम् ।
निर्विचेष्टं शरीरं तु प्राणैर्मुक्तं जुगुप्सितम् ॥२३॥

अस्पृश्यं जायते तूर्णं दुर्गन्धं सर्वनिन्दितम् ।
त्रिधावस्था हि देहस्य कृमिविड्मस्मसंज्ञिता ॥२४॥

को गर्वः क्रियते तार्क्ष्य क्षणविध्वंसिभिर्नरैः ।
दानं वित्तादृता वाचः कीर्तिधर्मौ तथायुषः ॥२५॥

परोपकरणं कायादसतः सारमुद्धृतम् ।
तस्यैवं नीयमानस्य दूताः सन्तर्जयन्ति हि ॥२६॥

दर्शयन्तो भयं तीव्रं नरकाय पुनः पुनः ।
शीघ्रं प्रचल दुष्टात्मन् गतोऽसित्वं यमालये ॥२७॥

कुंभीपाकादिनरकांस्त्वां नेष्यामश्च मा चिरम् ।
एवं वाचस्तदा शृण्वन्बन्धूनां रुदितं तथा ॥२८॥

उच्चैर्हाहेति विलपन्नीयते यमकिङ्करैः ।
स्थाने श्राद्धं प्रकुर्वीत तथा चेकादशेऽहनि ॥२९॥

मृस्योत्क्रान्तिसमयात्षट्पिण्डान्क्रमशो ददेत् ।
मृतस्थाने तथा द्वारे चत्वरे तार्क्ष्य कारणात् ॥३०॥

विश्रामे काष्ठचयने तथा सञ्चयने च षट् ।
शृणु तत्कारणं तार्क्ष्य षट्पिण्डपरिकल्पने ॥३१॥

मृतस्थाने शवो नाम तेन नाम्ना प्रदीयते ।
तेन दत्तेन तृप्यन्ति गृहवास्त्वधिदेवताः ॥३२॥

तेन भूमिर्भवेत्तुष्टातदधिष्ठातृदेवता ।
द्वारे तु पिण्डं देयं च पान्थमित्यभिधाय तु ॥३३॥

दत्तेन तेन प्रीणन्ति द्वारस्था गृहदेवताः ।
चत्वरे खेचरो नाम तमुद्दिश्य प्रदापयेत् ॥३४॥

न चोपघातं कुर्वन्ति भूताद्या देवयोनयः ।
विश्रामे भूतसंज्ञोऽयं तेन तत्र प्रदापयेत् ॥३५॥

पिशाचा राक्षसा यक्षा ये चान्ये दिशि वासिनः ।
तस्य होतव्यदेहस्यनैवायोग्यत्वकारकाः ॥३६॥

चितापिण्ढप्रभृतितः प्रेतत्वमुपजायते ।
चितायां साधकं नाम वदन्त्येके खगेश्वर ॥३७॥

केचित्तं प्रेतमेवाहुर्यथा कल्पविदो बुधाः ।
तदादि तत्रतत्रापि प्रेतनाम्ना प्रदीयते ॥३८॥

इत्येवं पञ्चभिः पिण्डैः शवस्याहुतियोग्यता ।
अन्यथा चोपघाताय पूर्वोक्तास्ते भवन्ति हि ॥३९॥

उत्क्रामे प्रथमं पिण्डं तथा चार्धपयेपि च ।
चितायां तु तृतीयं स्यात्त्रयः पिण्डाश्च कल्पिताः ॥४०॥

विधाता प्रथमे पिण्डे द्वितीये गरुडध्वजः ।
तृतीये यमदूताश्च प्रयोगः परिकीर्तितः ॥४१॥

दत्ते तृतीये पिण्डेऽस्मिन्देहदोषैः प्रमुच्यते ।
आधारभूतजीवश्चज्वलनैर्ज्वालयेच्चिताम् ॥४२॥

संमृज्य चोपलिप्याथ उल्लिख्योद्धृत्य वेदिकाम् ।
अभ्युक्ष्योपसमाधाय वह्निं तत्रः विधानतः ॥४३॥

पुष्पाक्षतैश्च सम्पूज्य देवं क्रव्यादसंज्ञकम् ।
त्वं भूतकृज्जगद्योने त्वं लोकपरिपालकः ॥४४॥

उपसंहारकस्तस्मादेनं स्वर्गं मृतं नय ।
इति क्रव्यादमभ्यर्च्य शरीराहुतिमाचरेत् ॥४५॥

अर्धदग्धे तथा देहे दद्यादाज्याहुतिं ततः ।
लोमभ्यः स्वोतिवाक्येन कुर्याद्धोमं यथाविधि ॥४६॥

चितामारोप्य तं प्रेतं हुनेदाज्याहुतिं ततः ।
यमाय चान्तकायेति मृत्यवे ब्रह्मणे तथा ॥४७॥

जातवेदोमुके देया एका प्रेतमुखे तथा ।
ऊर्ध्वं तु ज्वालयेद्वह्निं पूर्वभागे चितां पुनः ॥४८॥

अस्मात्त्वमधिजातोसि त्वदयं जायतां पुनः ।
असौ स्वर्गाय लोकाय स्वाहा ज्वलति पावकः ॥४९॥

एवमाज्याहुतिं दत्त्वा तिलमिश्रां समन्त्रकाम् ।
ततो दाहः प्रकर्तव्यः पुत्रेण किल निश्चितम् ॥५०॥

रोदितव्यं ततो गाढमेवं तस्य सुखं भवेत् ।
दाहस्यानन्तरं तत्र कृत्वा सञ्चयनक्रियाम् ॥५१॥

प्रेतपिण्डं प्रदद्याच्च दाहार्तिशमनं खग ।
तावद्भूताः प्रतीक्षन्ते तं प्रेतं बान्धवार्थिनम् ॥५२॥

दाहस्यानन्तरं कार्यं पुत्रैः स्नानं सचैलकम् ।
तिलोदकं ततो दद्यान्नामगोत्रेण तिष्ठतु ॥५३॥

ततो जनपदैः सर्वैर्दातव्या करतालिका ।
विष्णुर्विष्णुरिति ब्रूयाद्गुणैः प्रेतमुदीरयेत् ॥५४॥

जनाः सर्वे समास्तस्य गृहमागत्य सर्वशः ।
द्वारस्य दक्षिणे भागे गोमयं गौरसर्षपान् ॥५५॥

निधाय वरुणं देवमन्तर्धाय स्ववेश्मनि ।
भक्षयेन्निम्बपत्राणि घृतं प्राश्य गृहं व्रजेत् ॥५६॥

केचिद्दुग्धेन सिञ्चन्ति चितास्थानं खगेश्वर ।
अश्रुपातं न कुर्वीत दद्यादस्मै जलाञ्जलीन् ॥५७॥

श्लेष्माश्रु बान्धवैर्मुक्तं प्रेतो भुङ्क्ते यतोऽवशः ।
अतो न रोदितव्यं हि क्रियाः कार्याः स्वशक्तितः ॥५८॥

दुग्धं च मृन्मये पात्रे तोयं दद्याद्दिनत्रयम् ।
सूर्ये चास्तं गते तार्क्ष्य वलभ्यां चत्वरेऽपि वा ॥५९॥

बद्धः संमूढहृदयो देहमिच्छन्कृतानुगः ।
श्मशानं चत्वरं गेहं वीक्षन्याम्यैः स नीयते ॥६०॥

गर्ते पिण्डा दशाहं च दातव्याश्च दिनेदिने ।
जलाञ्जलीः प्रदातव्याः प्रेतमुद्दिश्य नित्यशः ॥६१॥

तावद्वृद्धिश्च कर्तव्या यावत्पिण्डं दशाहिकम् ।
पुत्त्रेण हि क्रिया कार्या भार्यया तदभावतः ॥६२॥

तदभावे च शिष्येण तदभावे सहोदरः ।
श्मशाने चान्यतीर्थे वा जलं पिण्डं च दापयेत् ॥६३॥

ओदनानि च सक्तूंश्च शाकमूलफलादिना ।
प्रथमेऽहनि यद्दद्यात्तद्दद्यादुत्तरेऽहनि ॥६४॥

दिनानि दश पिण्डांश्च कुर्वन्त्यत्र सुतादयः ।
प्रत्यहं ते विभज्यन्ते चतुर्भागाः खगेश्वर ॥६५॥

भागद्वयं तु देहार्थं प्रीतिदं भूतपञ्चके ।
तृतीयं यमदूतानां चतुर्थं चोपजीव्यति ॥६६॥

अहोरात्रैस्तु नवभिः प्रेतो निष्पत्तिमाप्नुयात् ।
जन्तोर्निष्पन्नदेहस्य दशमे वलवत्क्षुधा ॥६७॥

न विधिर्नैव मन्त्रश्च न स्वधावाहनाशिषः ।
नाम गोत्रं समुच्चार्य यद्दत्तं तद्दशाहिकम् ॥६८॥

दग्धे देहे पुनर्देहमेवमुत्पद्यते खग ।
प्रथमेऽहनि यः पिण्डस्तेन मूर्धा प्रजायते ॥६९॥

ग्रीवा स्कन्धौ द्वितीये च तृतीये हृदयं भवेत् ।
चतुर्थेन भवेत्पृष्ठं पञ्चमे नाभिरेव च ॥७०॥

षट्सप्तमे कटी गुह्यमृरू चाप्यष्टमे तथा ।
तालू पादौ च नवमे दशमेऽह्नि क्षुधा भवेत् ॥७१॥

देहं प्राप्तः क्षुधाविष्टो गृहे द्वारे च तिष्ठति ।
दशमेऽहनि यः पिण्डस्तं दद्यादामिषेण तु ॥७२॥

यतो देहे समुत्पन्ने प्रेतोऽतीव क्षुधान्वितः ।
अतस्त्वामिषबाह्येन क्षुधा तस्य न नश्यति ॥७३॥

एकादशे द्वादशाहे प्रेतो भुङ्क्ते दिनद्वयम् ।
योषितः पुरुषास्यापि प्रेतशब्दं समुच्चरेत् ॥७४॥

दीपमन्नं जलं वस्त्रं यत्किञ्चिद्वस्तु दीयते ।
प्रेतशब्देन तद्देयं मृस्यानन्ददायकम् ॥७५॥

त्रयोदशेऽह्नि स प्रेतो नीयते च महापथे ।
पिण्डजं देहमाश्रित्य दिवा नक्तं बुभुक्षितः ॥७६॥

शीतोष्णशङ्कुक्रव्यादवह्निमार्गस्तु पापिनाम् ।
क्षुधा तृष्णात्मिका चैव सव्व सौम्यं कृतात्मनाम् ॥७७॥

मार्गे चैतानि दुः खानि असिपत्रवनान्विते ।
क्षुत्पिपासार्दितो नित्यं यमदृतैः प्रपीडितः ॥७८॥

अहन्यहनि वै प्रेतो योजनानां शतद्वयम् ।
चत्वारिंशत्तथा सप्त अहोरात्रेण गच्छति ॥७९॥

गृहीतो यमपाशैश्च हाहेति रुदिते तु सः ।
स्वगृहं तु परित्यज्य याम्यं पुरमनुव्रजेत् ॥८०॥

क्रमेण याति स प्रेतः पुरं याम्यं शुभाशुभम् ।
अतीत्य तानितान्येव मार्गे पुरवराणि च ॥८१॥

याम्यं सौरिपुरं नगेन्द्रभवनं गन्धर्वशैलागमौ ।
क्रोञ्चं क्रूरपुरं विचित्रभवनं बह्वापदं दुः खदम् ॥८२॥

नानाक्रन्दपुरं सुतप्रभवनं रौद्रं पयोवर्षणं शीताढ्यं बहुधर्मभीतभवनं याम्यं पुरं चाग्रतः ॥८३॥

त्रयोदशेऽह्नि स प्रेतो गृहीतो यमकिङ्करैः ।
तस्मिन्मार्गे ब्रजत्येको गृहीत इव मर्कटः ॥८४॥

तथव स व्रजन्मार्गे पुत्रपुत्रेति च ब्रुवन् ।
हाहेति क्रन्दते नित्यं कीदृशं तु मया कृतम् ॥८५॥

मानुष्यं लभ्यते कस्मादिति ब्रूते प्रसर्पति ।
महता पुण्ययोगेन मानुष्यं जन्म लभ्यते ॥८६॥

न तत्प्राप्य प्रदत्तं हि याचकेभ्यः स्वकं धनम् ।
पराधीनं तदभवदिति ब्रूते (रौति) सगद्गदः ॥८७॥

किङ्करैः पीड्यतेऽत्यर्थं स्मरते पूर्वदैहिकम् ॥८८॥

सुखस्य दुः खस्य न कोपि दाता परो ददातीति कुबुद्धिरेषा ।
पुरा कृतं कर्म सदैव भुज्यते देहिन्क्वचिन्निस्तर यत्त्वया कृतम् ॥८९॥

मया न दत्तं न हुतं हुताशने तपो न तप्तं हिमशैलगह्वरे ।
न सेवितं गाङ्गमहो महाजलं देहिन्क्वचिन्निस्तर यत्त्वया कृतम् ॥९०॥

न नित्यदानं न गावाह्निकं कृतं न वेददानं न च शास्त्रपुस्तकम् ।
पुरा नदृष्टं न च सेवितोऽध्वा देहिन्क्वचिन्निस्तर यत्त्वया कृतम् ॥९१॥

जलाशयो नैव कृतो हि निर्जले मनुष्यहेतोः पशुपक्षिहेतवे ।
गोतृप्तिहेतोर्न कृतं हि गोचरं देहिन्क्वचिन्नस्तर यत्त्वया कृतम् ॥९२॥

मया न भुक्तं पतिसङ्गसौख्यं वह्निप्रवेशो न कृतो मृते सति ।
तस्मिन्मृते तद्व्रतपालनं वा देहिन्क्वचिन्निस्तर यत्त्वया कृतम् ॥९३॥

मासोपवासैर्न विशोषितं वपुश्चान्द्रायणैर्वा नियमैश्च संहतैः ।
नारीशरीरं बहुदुः खभाजनं लब्धं मया पूर्वकृतैर्विकर्मभिः ॥९४॥

उक्तानि वाच्यानि मया नराणामतः शृणुष्वावहितोऽपि पक्षिन् ।
स्त्रीणां शरीरं प्रतिलभ्य देही ब्रवीति कर्माणि कृतानि पूर्वम् ॥९५॥

इति श्रीगारुडे महापुराणे उत्तरखण्डे द्वितीयांशे धर्मदृप्रेतकल्पे श्रीकृष्णगरुडसंवादे यमलोकविस्तारतन्माहात्म्यतद्याननिरूपणं नाम पञ्चदशोऽध्यायः

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2013-09-18T23:02:19.6570000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

Intermediate payment

  • मध्यंतरीचे प्रदान 
  • अंतःकालीन अदायगी 
  • तात्पुरती रक्कम देणे 
RANDOM WORD

Did you know?

Are the advertisements necessary on your pages?
Category : About us!
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site