TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|पुराण|गरूडपुराणम्|प्रेतकाण्डः (धर्मकाण्डः)|

प्रेतकाण्डः - अध्यायः २४

विष्णू पुराणाचा एक भाग असलेल्या गरूड पुराणात मृत्यूनंतरच्या स्थितीबद्दलची चर्चा आहे, शिवाय श्रद्धाळू हिंदू धर्मीयांमध्ये मृत्यूनंतर जी विविध क्रिया कर्मे केली जातात, त्याला गरूडपुराणाची पार्श्वभूमी आहे.


अध्यायः २४
गरुड उवाच ।
नाकाले म्रियते कश्चिदिति वेदानुशासनम् ।
कस्मान्मृत्युमवाप्नोति राजा वा श्रोत्रियोपि वा ॥१॥

यदुक्तं ब्राह्मणा पूर्वमनृतं तद्धि दृश्यते ।
वेदैरुक्तं तु यद्वाक्यं शतं जीवति मानुषे ॥२॥

जीवन्ति मानुषे लोके सर्वे वर्णा द्विजातयः ।
अन्त्यजाम्लेच्छजाश्चैव खण्डे भारतसंज्ञके ॥३॥

न दृश्यते कलौ तच्च कस्माद्देव समादिश ।
(आधानान्मृत्युमाप्नोति बालो वा स्थविरो युबा ॥४॥

सधनो निर्धनो वापि सुकुमारः सुरूपवान् ।
अविद्वांश्चैव विद्वांश्च ब्राह्मणस्त्वितरो जनः ॥५॥

तपोरतो योगशीलो महाज्ञानी च यो नरः ।
सर्वज्ञानरतः श्रीमान्धर्मात्मातुलविक्रमः ॥६॥
)
सर्वमेतदशषेण जायते वसुधातले ।
कस्मान्मृत्युमवाप्नोति राजा वा श्रोत्रियोऽपि वा ॥७॥

श्रीभगवानुवाच ।
साधुसाधु महाप्राज्ञ यस्त्वं भक्तोऽसि मे प्रियः ।
श्रूयतां वचनं गुह्यं नानादेशविनाशनम् ॥८॥

विधातृविहितो मृत्युः शीघ्रमादाय गच्छति ।
ततो वक्ष्यामि पक्षीन्द्र काश्यपेय महाद्युते ॥९॥

मानुषः शतजीवीति पुरा वेदेन भाषितम् ।
विकर्मणः प्रभावेण शीघ्रं चापि विनश्यति ॥१०॥

वेदानभ्यसनेनैव कुलाचारं न सेवते ।
आलस्यात्कर्मणां त्यागो निषिद्धेऽप्यादरः सदा ॥११॥

यत्र तत्र गृहेऽश्राति परक्षेत्ररतस्तथा ।
एतैरन्यैर्महादोषैर्जायते चायुषः क्षयः ॥१२॥

अश्रद्दधानमशुचिं नास्तिकं त्यक्तमङ्गलम् ।
परद्रोहानृतरं ब्राह्मणं यत (म) मन्दिरम् ॥१३॥

अरक्षितारं राजानं नित्यं धर्मविवर्जितम् ।
क्रूरं व्यसनिनं मूर्खं वेदवादबहिष्कृतम् ।
प्रजापीडनकर्तारं राजानं यमशासनम् ॥१४॥

प्रापयन्ति वशं मृत्योस्ततो याति च यातनाम् ।
स्वकर्माणि परित्यज्य मुख्यवृत्तानि यानि च ॥१५॥

परकर्मरतो नित्यं यमलोकं स गच्छति ।
शूद्रः करोतिः यत्किञ्चिद्विजशुश्रूषणं विना ॥१६॥

उत्तमाधममध्ये वा यमलोके स पच्यते ।
स्नानं दानं जपो होमो स्वाध्यायो दवर्ताच्चनम् ॥१७॥

यस्मिन्दिने न सेव्यन्ते स वृथा दिवसो नृणाम् ।
अनित्यमध्रुवं देहमनाधारं रसोद्भवम् ॥१८॥

अन्नोदकमये देहे गुणानेतान्वदाम्यहम् ।
यत्प्रातः संस्कृतं सायं नूनमन्नं विनश्यति ॥१९॥

तदीयरससम्पुष्टकाये का बत नित्यता ।
गतं ज्ञात्वा तु पक्षीन्द्र वपुरर्धं स्वकर्मभिः ॥२०॥

नरः पापविनाशाय कुर्वीत परमौषधम् ।
देहः किमन्नदातुः स्विन्निषेक्तुर्मातुरेव वा ॥२१॥

उभयोर्वा प्रभोर्वापि बालनोग्नेः शुनोऽपि वा ।
कस्तत्र परमो यज्ञः कृमिविड्भस्मसंज्ञके ॥२२॥

कर्तव्यः परमो यत्नः पातकस्य विनाशने ।
अनेकभवसम्भूतं पातकं तु त्रिधा कृतम् ॥२३॥

यदा प्राप्नोति मानुष्यं तदा सर्वं तपत्यपि ।
सर्वजन्मानि संस्मृत्य विषादी कृतचेतनः ॥२४॥

अवेक्ष्य गर्भवासांश्च कर्मजा गतयस्तथा ।
मानुषोदरवासी चेत्तदा भवति पातकी ॥२५॥

अण्डजादिषु भूतेषु यत्रयत्र प्रसर्पति ।
आधयो व्याधयः क्लेशा जरारूपविपर्ययः ॥२६॥

गर्भवासाद्विनिर्मुक्तस्त्वज्ञानतिमिरावृतः ।
न जानातिः खगश्रेष्ठ बालभावं समाश्रितः ॥२७॥

यौवने तिमिरान्धश्च यः पश्यति स मुक्तिभाक् ।
आधानान्मृत्युमाप्नोति बालो वा स्थविरो युवा ॥२८॥

सधनो निर्धनश्चैव सुकुमारः कुरूपवान् ।
अविद्वांश्चैव विद्वांश्च ब्राह्मणास्त्वितरो जनः ॥२९॥

तपोरतो योगशीलो महाज्ञानी च यो नरः ।
महादानरतः श्रीमान्धर्मात्मातुलविक्रमः ।
विना मानुपदेहं तु सुखं दुः खं न विन्दति ॥३०॥

प्राकृतैः कर्मपाशैस्तु मृत्युमाप्नोति मानवः ।
आधानात्पञ्च वर्षाणि स्वल्पपापैर्विपच्यते ॥३१॥

पञ्चवर्षाधिको भूत्वा महापापैर्विपच्यते ।
योनिं पूरयते यस्मान्मृतोऽप्यायाति याति च ॥३२॥

मृतो दानप्रभावेण जीवन्मर्त्यश्चिरं भुवि ।
सूत उवाच ।
इति कृष्णवचः श्रुत्वा गरुडो वाक्यमब्रवीत् ॥३३॥

गरुड उवाच ।
मृते बाले कथं कुर्यात्पिण्डदानादिकाः क्रियाः ।
गर्भेषु च विपन्नानामाचूडाकरणाच्छिशोः ॥३४॥

कथं किं केन दातव्यं मृतान्ते को विधिः स्मृतः ।
गरुडोक्तमिति श्रुत्वा विष्णुर्वाक्यमथाब्रवीत् ॥३५॥

श्रीविष्णुरुवाच ।
यदि गर्भो विपद्यते स्त्रवते वापि योषितः ।
यावन्मासं स्थितो गर्भस्तावद्दिनमशौचकम् ॥३६॥

तस्य किञ्चिन्न कर्तव्यमात्मनः श्रेय इच्छता ।
ततो जाते विपन्ने तु आ चूडाकरणाच्छिशोः ॥३७॥

दुग्धं भोज्यं ताशक्ति बालानां च प्रदीयते ।
आ चूडात्पञ्चवर्षे तु देहदाहो विधीयते ॥३८॥

दुग्धं तस्य प्रदेयं स्याद्बालानां भोजनं शुभम् ।
पञ्चवर्षाधिके प्रेते स्वजातिविहितानि च ॥३९॥

कुर्यात्कर्माणि सर्वाणि चोदकुम्भादि पायसम् ।
दातव्यं तु खगश्रेष्ठ ऋणसम्बन्धकस्तु सः ॥४०॥

जातस्य हि ध्रुवो मृत्युर्ध्रुवं जन्म मृतस्य च ।
कर्तव्यं पक्षिशार्दूल पुनर्देहक्षयाय वै ॥४१॥

तस्मै यद्रोचते देयमदत्त्वा निर्धने कुले ।
स्वल्पायुर्निर्धनो भूत्वा रतिभक्तिविवर्जितः ॥४२॥

पुनर्जन्माप्नुयान्मर्त्यस्तस्माद्देयमृते शिशोः ।
पुराणे गीयते गाथा सर्वथा प्रतिभाति मे ॥४३॥

मिष्टान्नं भोजनं देयं दाने शक्तिस्तु दुर्लभा ।
भोज्ये भोजनशक्तिश्च रतिशक्तिर्वरस्त्रियः ॥४४॥

विभवे दानशक्तिश्च नाल्पस्य तपसः फलम् ।
दानाद्भोगानवाप्नोति सौख्यं तीर्थस्य सेवनात् ।
सुभाषणान्मृतो यस्तु स विद्वान्धर्मवित्तमः ॥४५॥

अदत्तदानाच्च भवेद्दरिद्रो दरिद्रभावाच्च करोतिपापम् ।
पापप्रभावान्नरकं प्रयाति पुनर्दरिद्रः पुनरेव पापी ॥४६॥

इति श्रीगारुडे महापुराणे उत्तरखण्डे द्वितीयांशाख्ये धर्मकाण्डे प्रेतकल्पे श्रीकृष्णगरुडसंवादेऽल्पायुर्मरणहे तुबालान्त्येष्ट्योर्निरूपणं नाम चतुर्विशोऽध्यायः

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:53:14.7230000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

winding drum

  • कुंडल विरंभ 
RANDOM WORD

Did you know?

pl. kartiksnanache ani kakadariche mahatva sangave ?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site