TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|पुराण|गरूडपुराणम्|प्रेतकाण्डः (धर्मकाण्डः)|

प्रेतकाण्डः - अध्यायः ३५

विष्णू पुराणाचा एक भाग असलेल्या गरूड पुराणात मृत्यूनंतरच्या स्थितीबद्दलची चर्चा आहे, शिवाय श्रद्धाळू हिंदू धर्मीयांमध्ये मृत्यूनंतर जी विविध क्रिया कर्मे केली जातात, त्याला गरूडपुराणाची पार्श्वभूमी आहे.


अध्यायः ३५
तर्क्ष्य उवाच ।
अपरं मम सन्देहं कथयस्व जनार्दन ।
पुरुषस्य च कस्यापि मता पञ्चत्वमागता ॥१॥

पितामही जीवति च तथा च प्रपितामही ।
वृद्धप्रपितामही तद्वन्मातृसक्तः पिता तथा ॥२॥

प्रमातामहश्च तथा वृद्धप्रमातामहस्तथा ।
केन सा मेल्यते माता एतत्कथय मे प्रभो ॥३॥

श्रीकृष्ण उवाच ।
पुनरुक्तं प्रवक्ष्यामि सपिण्डीकरणं खग ।
उमा लक्ष्मीश्च सावित्रीत्यताभिर्मेलयेद्ध्रुवम् ॥४॥

त्रयः पिण्डभुजो ज्ञेयास्त्यजाकाश्च त्रयः स्मृताः ।
त्रयः पिण्डानुलेपाश्च दशमः पङ्क्तिसंन्निधः ॥५॥

इत्येते पुरुषाः ख्याताः पितृमातृकुलेषु च ।
तारयेद्यजमानस्तु दश पूर्वान् दशावरान् ॥६॥

सपिण्डः स भवेदादौ सपिण्डीकरणे कृते ।
अन्त्यस्तु त्याजको ज्ञेयो यो वृद्धप्रपितामहः ॥७॥

अन्तिमस्त्याजको ज्ञेयो लेपकः प्रथमो भवेत् ।
लेपकस्त्वन्तिमो यस्तु स भवेत्पङ्क्तिसन्निधः ॥८॥

यजमानो भवेदेको दश पृर्त्वे दशावरे ।
इत्येते पितरो ज्ञेया एकविंशति संख्यकाः ॥९॥

विधिना कुरुते यस्तु संसारे श्राद्धमुत्तमम् ।
जायतेऽत्र न सन्देहः शृणु तस्यापि यत्फलम् ॥१०॥

पिता ददाति पुत्त्रान् वै विच्छिन्नसन्ततिः खग ।
होमदाता भवेत्सोपि यस्तस्य प्रपितामहः ॥११॥

कृते श्राद्धे गुणा ह्येते पितॄणां तपेणे स्मृताः ।
दद्याद्विपुलमन्नाद्यं वृद्धस्तु प्रपितामहः ॥१२॥

यस्य पुंसश्च मर्त्ये वै विच्छिन्ना सन्ततिः खग ।
स वसेन्नरके घोरे पङ्के मग्नः करी यथा ॥१३॥

योन्यन्तरेषु जायते यत्र वृक्षसरीसृपाः ।
न सन्ततिं विना सोऽत्र मुच्यते नरकाद्ध्रुवम् ॥१४॥

आचार्यस्तस्य शिष्यो वा यो दूरेऽपि हि गात्रेजः ।
नारायणबलिं कुर्यात्तस्याद्देशेन भक्तितः ॥१५॥

विशुद्धः सर्वपापेभ्यो मुक्तः स नरकाद्ध्रुवम् ।
निवसेन्नाकलोके च नात्र कार्या विचारणा ॥१६॥

आदौ कृत्वा धनिष्ठाञ्च एतन्नक्षत्रपञ्चकम् ।
रेवत्यन्तं सदा दूष्यमशुभं सर्वदा भवेत् ॥१७॥

दाह (बलि) स्तत्र न कर्तव्यो विप्रदिसर्वजातिषु ।
दीयते न जलं तत्र अशुभं जायते ध्रुवम् ।
लोकयात्रा न कर्तव्या दुः खार्तः स्वजनो यदि ॥१८॥

पञ्चकानन्तरं तस्य कर्तव्यं सर्वमन्यथा ।
पुत्राणां गोत्रिणां तस्य सन्तापोऽप्युपजायते ॥१९॥

गृहे हानिर्भवेत्तस्य ऋक्षेष्वेषु मृतश्च यः ।
अथवा ऋक्षमध्येऽपि दाहस्तस्य विधीयते ॥२०॥

क्रियते मानुषाणान्तु सद्य आहुतिकारणात् ।
सद्याहुतिकरं पुण्यं तीर्थे तद्दाह उत्तमः ॥२१॥

विप्रैर्नियमतः कार्यः समन्त्रो विधिपूर्वकः ।
शवस्य च समीपे तु क्षिप्यन्ते पुत्तलास्ततः ॥२२॥

दर्भमयाश्च चत्वारो विप्रा मन्त्राभिमन्त्रिताः ।
ततो दाहः प्रकर्तव्यः तैश्च पुत्तलकैः सह ॥२३॥

सूतकान्ते ततः पुत्रः कुर्याच्छान्तिकमुत्तमम् ॥२४॥

पञ्चकेषु मृतो योऽसौ न गतिं लभते नरः ।
तिलान् गाश्च सुवर्णं च तमुद्दिश्य घृतं ददेत् ॥२५॥

विप्राणां दीयते दानं सर्वोपद्रवनाशनम् ।
सूतकान्ते च सत्पुत्रैः स प्रेतो लभते गतिम् ॥२६॥

भाजनोपानहौ च्छत्रं हेममुद्राच वाससी ।
दक्षिणा दीयते विप्र सर्वपातकमोचनी ॥२७॥

बालवृद्धातुराणाञ्च मृतानां पञ्चकेषु हि ।
विधानं यो न कुर्वीत विघ्नस्तस्य प्रजायते ॥२८॥

अष्टादशैव वस्तूनि प्रेतश्राद्धे विवर्जयेत् ।
आशिषो द्विगुणान् दर्भान् प्रणवान्नैकपिण्डताम् ॥२९॥

अग्नौकरणमुच्छिष्टं श्राद्धं वै वैश्वदैविकम् ।
विकिरं च स्वधाकारं पितृशब्दं न चोच्चरेत् ॥३०॥

अनुशब्दं न कुर्वीत नावाहनमथोल्मुकम् ।
आसीमान्तं न कुर्वीत प्रदक्षिणविसर्जनम् ॥३१॥

न कुर्यात्तिलहोमञ्च द्विजः पूर्णाहुतिं तथा ।
न कुर्याद्वैश्वदेवं चेत्कर्ता गच्छत्यधोगतिम् ॥३२॥

मलिनश्राद्धसंज्ञानं पूर्वषोडशकं तथा ।
स्थाने द्वारे चार्धमार्गे चितायां शवहस्तके ॥३३॥

श्मशानवासिभूतेभ्यः पञ्चमं प्रतिवेश्यकम् ।
षष्ठं सञ्चयने प्रोक्तं दश पिण्डा दशाहिकाः ।
श्राद्धषोडषकञ्चैतत्प्रथमं परिकीर्तितम् ॥३४॥

अन्यच्च षोडशं मध्ये द्वितीयं तार्क्ष्य मे शृणु ।
कर्तव्यानीह विधिना श्राद्धान्येकादशैव तु ॥३५॥

ब्रह्मविष्णुशिवाद्यञ्च तथान्यच्छ्राद्धपञ्चकम् ।
एवं षोडशकं प्राहुरेतत्तत्त्वविदो जनाः ॥३६॥

द्वादश प्रतिमास्यानि श्राद्धमेकादशे तथा ।
त्रिपक्षसम्भवञ्चैव द्वे रिक्ते खग षोडश ॥३७॥

आद्यं शवविशुद्ध्यर्थं कृत्वान्यच्च त्रिषोडशम् ।
पितृपाङ्क्तिविशुद्ध्यर्थं शताद्धैंन तु योजयेत् ॥३८॥

शतार्धेन विहीनो यो मिलितः पङ्क्तिभाङ्न हि ।
चत्वारिंशत्तथैवाष्टश्राद्धं प्रेतत्वनाशनम् ॥३९॥

सकृदूनशतार्धेन सम्भवेत्पङ्क्तिसन्निधः ।
मेलनीयः शतार्धेन सन्धिः श्राद्धेन तत्त्वतः ॥४०॥

(अथ शवाविधिः) ।
शवस्य शिबिकायां करचरणबन्धनं तत्र कर्तव्यम् ।
एवं चेन्न विधानं विधीयते तत्पिशाचपरिभवनम् ॥४१॥

संजायते रजन्याञ्च शवनिर्गमने राष्ट्रं भयशून्यम् ।
शवं न मुञ्चेत मुच्यते चेत्दुः स्पर्शाद्दुर्गतिर्भवेत् ॥४२॥

ग्राममध्ये स्थिते प्रेते श्रुते भुङ्क्ते यदृच्छया ।
तदन्नं मांसवज्ज्ञेयं तत्तोयं रुधिरोपमम् ॥४३॥

ताम्बूलं दन्तकाष्ठञ्च भोजनं ऋतुसेवनम् ।
ग्राममध्ये स्थिते प्रेते वर्जयेत्पिण्डपातनम् ॥४२॥

स्नानं दानं जपो होमस्तर्पणं सुरपूजनम् ।
ग्राममध्ये स्थिते प्रेते शुद्ध्यर्थं ज्ञातिधर्मतः ॥४३॥

ज्ञातिसम्बन्धिनामेवं व्यवहारः खगेश्वर ।
विलुप्य ज्ञातिधर्मञ्च प्रेतपापेन लिप्यते ॥४४॥

इति श्रीगारुडे महापुराणे उत्तरखण्डे द्वितीदृ धदृप्रेतकल्पे श्रीकृष्णगरुडसंवादे सपिण्डनशवविध्योर्निरूपणं नाम पञ्चत्रिंशोऽध्यायः

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:53:15.3630000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

विरागी

  • a  Void of desire or passion. 
RANDOM WORD

Did you know?

कांही धर्मात प्रेताचे दहन तर कांहीत दफन कां करतात?
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site