TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|पुराण|गरूडपुराणम्|प्रेतकाण्डः (धर्मकाण्डः)|

प्रेतकाण्डः - अध्यायः २७

विष्णू पुराणाचा एक भाग असलेल्या गरूड पुराणात मृत्यूनंतरच्या स्थितीबद्दलची चर्चा आहे, शिवाय श्रद्धाळू हिंदू धर्मीयांमध्ये मृत्यूनंतर जी विविध क्रिया कर्मे केली जातात, त्याला गरूडपुराणाची पार्श्वभूमी आहे.


अध्यायः २७
तार्क्ष्य उवाच ।
कथं प्रेता वसन्त्यत्र कीदृग्रूपा भवन्ति ते ।
महाप्रेताः पिशाचाश्च कैःकैः कर्मफलैर्विभो ।
सर्वेषामनुकम्पार्थं ब्रूहि मे मधुसूदन ॥१॥

प्रेतत्वान्मुच्यते येन दानेन च शुभे न च ।
तन्मे कथय देवेश मम चेदिच्छसि प्रियम् ॥२॥

श्रीकृष्ण उवाच ।
साधु पृष्टं त्वया तार्क्ष्य मानुषाणां हिताय वै ।
शृणुचावहितो भूत्वा यद्वच्मि प्रेतलक्षणम् ॥३॥

गुह्यद्गुह्यतरं ह्येतन्नाख्येयं यस्य कस्यचित् ।
भक्तस्त्वं हि महाबाहो तेन ते कथयाम्यहम् ॥४॥

पुरा त्रेतायुगे तात राजासीद्बभ्रुवाहनः ।
महोदयपुरे रम्ये धर्मनिष्ठो महाबलः ॥५॥

यज्वा दानपतिः श्रीमान्ब्रह्मण्यः साधुसंमतः ।
शीलाचारगुणोपेतो दयादाक्षिण्यसंयुतः ॥६॥

प्रजाः पालयते नित्यं पुत्रानिव महाबलः ।
क्षत्त्रधर्मरतो नित्यं स दण्ड्यान्दण्डयन्नृपः ॥७॥

स कदाचिन्महाबाहुः ससैन्योमृगयां गतः ।
वनं विवेश गहनं नानावृक्षसमन्वितम् ॥८॥

शार्दूलशतसंजुष्टं नानापक्षिनिनादितम् ।
वनमध्ये तदा राजा मृगं दूरादपश्यत ॥९॥

तेन विद्धो मृगोऽतीव बाणेन सुदृढेन च ।
बाणमादाय तं तस्य स वनेऽदर्शनं ययौ ॥१०॥

कक्षे तच्छोणितस्त्रावात्स राजानुजगाम तम् ।
ततो मृगप्रसङ्गेन वनमन्यद्विवेश सः ॥११॥

क्षुत्क्षामकण्ठो नृपतिः श्रमसन्तापमूर्छितः ।
जलस्थानं समासाद्य साश्व एवावगाहत ॥१२॥

पीत्वा तदु दकं शीतं पद्मगन्धाधिवासितम् ।
तत उत्तीर्य सलिलाद्विमलाद्बभ्रुवाहनः ॥१३॥

न्यग्रोधवृक्षमासाद्य शीतच्छायं मनोहरम् ।
महाविटपिनं हृद्यं पक्षिसङ्घातनादितम् ॥१४॥

वनस्य तस्य सर्वस्य केतुभूतमिवोच्छ्रितम् ।
तं महातरुमासाद्य निषसाद महीपतिः ॥१५॥

अथ प्रेतं ददर्शासौ क्षुत्तृष्णाव्याकुलेन्द्रियम् ।
उत्कचं मलिनं कुब्जं (रूक्षं) निर्मांसं भीमदर्शनम् ॥१६॥

स्नायुबद्धास्थिचरणं धावमानमितस्ततः ।
अन्यैश्च बहुभिः प्रेतैः समन्तात्परिवारितम् ॥१७॥

तं दृष्ट्वा विकृतं घोरं विस्मितो बभ्रुवाहनः ।
प्रेतोऽपि दृष्ट्वा तां घोरामटवीमागतं नृपम् ॥१८॥

तदा हृष्टमना भूत्वा तस्यान्तिकमुपागतः ।
अब्रवीत्स तदा तार्क्ष्य प्रेतराजो नृपं वचः ॥१९॥

प्रेतभावो मया त्यक्तः प्राप्तोऽस्मि परमां गतिम् ।
त्वत्संयोगान्महाबाहो नास्तिधन्यतरो मम ॥२०॥

नृपतिरुवाच ।
कृष्णवर्णः करालास्यस्त्वं प्रेत इव लक्ष्यसे ।
कथयस्व मम प्रीत्या यथैवं चासि तत्त्वतः ॥२१॥

तथा पृष्टः स वै राज्ञा प्रोवाच सकलं स्वकम् ॥२२॥

प्रेत उवाच ।
कथयामि नृपश्रेष्ठ सर्वमेवादितस्तव ।
प्रेतत्वे कारणं श्रुत्वा दयां कर्तुं ममार्हसि ॥२३॥

वैदिशं नाम नगरं सर्वसम्पत्समन्वितम् ।
नानाजनपदाकीर्णं नानारत्नसमाकुलम् ।
नानापुण्यसमायुक्तं नानावृक्षसमाकुलम् ॥२४॥

तत्राहं न्यवसं भूयो देवार्चनरतः सदा ।
वैश्यो जात्या सुदेवोऽहं नाम्ना विदितमस्तु ते ॥२५॥

हव्येन तर्पिता देवाः कव्येन पितरस्तथा ।
विविधैर्दानयोगैश्च विप्राः सन्तर्पिता मया ॥२६॥

आवाहाश्च विवाहाश्च मया वै सुनिवेशिताः ।
दीनानाथविशिष्टेभ्यो मया दत्तमनेकधा ॥२७॥

तत्सर्वं विफलं तात मम दैवादुपागतम् ।
यथा मे निष्फलं जातं सुकृतं तद्वदामि ते ॥२८॥

न मेऽस्ति सन्ततिस्तात न सुहृन्न च बान्धवः ।
न च मित्रं हि मे तादृग्यः कुर्यादौर्ध्वदैहिकम् ॥२९॥

प्रेतत्वं सुस्थिरं तेन मम जातं नृपोत्तम ।
एकादशं त्रिपक्षं च षाण्मासिकमथाब्दिकम् ।
प्रतिमास्यानि चान्यानि एवं श्राद्धानि षोडश ॥३०॥

यस्यैतानि न दीयन्ते प्रेतश्राद्धानि भूपते ।
प्रेतत्वं सुस्थिरं तस्य दत्तैः श्राद्धशतैरपि ॥३१॥

एवं ज्ञात्वा महाराज प्रेतत्वादुद्धरस्व माम् ।
वर्णानां चापि सर्वेषां राजा बन्धुरिहोच्यते ॥३२॥

तन्मां तारय राजेन्द्र मणिरत्नं ददामि ते ।
यथा मम शुभावाप्तिर्भवेन्नृपवरोत्तम ॥३३॥

तथा कार्यं महाबाहो कृपा यदि मयीष्यते ।
आत्मनश्च कुरु क्षिप्रं सर्वमेवौर्ध्वेदैहिकम् ॥३४॥

नृपतिरुवाच ।
कथं प्रेता भवन्तीह कृतैरप्यौर्ध्वदैहिकैः ।
पिशाचाश्च भवन्तीह कर्मभिः कैश्च तद्वद ॥३५॥

प्रेत उवाच ।
देवद्रव्यं च ब्रह्मस्वं स्त्रीबालधनसञ्चयम् ।
ये हरन्ति नृपश्रेष्ठ प्रेतयोनिं व्रजन्ति ते ॥३६॥

तापसीं च सगोत्रां च अगम्यां ये भजन्ति हि ।
भवन्ति ते महाप्रेता अम्बुजानि हरन्ति ये ॥३७॥

प्रवालवज्रहर्तारो ये च वस्त्रापहारकाः ।
तथा हिरण्यहर्तारः संयुगेऽसन्मुखागताः ॥३८॥

कृतघ्ना नास्तिका रौद्रास्तथा साहसिका नराः ।
पञ्चयज्ञविनिर्मुक्ता महादानरताश्च ये ॥३९॥

स्वामिद्रोहकरा मित्रब्राह्मद्रोहकराश्च ये ।
तीर्थपापकरा राजञ्जायन्ते प्रेतयोनयः ।
एवमाद्या महाराज जायन्ते प्रेतयोनयः ॥४०॥

राजोवाच ।
कथं मुक्ता भवन्तीह प्रेतत्वात्त्वं च तेऽपि च ।
कथं चापि मया कार्यमौर्ध्वदैहिकमात्मनः ।
विधिना केन तत्कार्यं सर्वमेतद्वदस्व मे ॥४१॥

प्रेत उवाच ।
शृणु राजेन्द्र संक्षेपाद्विधिं नारायणात्मकम् ।
सच्छास्त्रश्रवणं विष्णोः पूजा सज्जनसंगतिः ॥४२॥

प्रेतयोनिविनाशाय भवन्तीति मया श्रुतम् ।
अतो वक्ष्यामि ते विष्णुपूजां प्रेतत्वनाशिनीम् ॥४३॥

सुवर्णद्वयमाहृत्य मूर्तिं भूप प्रकल्पयेत् ।
नारायणस्य देवस्य सर्वाभरणभूषिताम् ॥४४॥

पीतवस्त्रयुगाच्छन्नां चन्दनागुरुचर्चिताम् ।
स्नापयेद्विविधैस्तोयैरधिवास्य यजेत्ततः ॥४५॥

पूर्वे तु श्रीधरं देवं दक्षिणे मधुसूदनम् ।
पश्चिमे वानमं देवमुत्तरे च गदाधरम् ॥४६॥

मध्ये पितामहं पूज्य तथा देवं महेश्वरम् ।
पूजयेच्च विधानेन गन्धपुष्पादिभिः पृथक् ॥४७॥

ततः प्रदक्षिणीकृत्य अग्नौ सन्तर्प्य देवताः ।
घृतेन दध्ना क्षीरेण विश्वान्देवांस्तथा नृप ॥४८॥

ततः स्नातो विनीतात्मा यजमानः समाहितः ।
नारायणाग्रे विधिवत्स्वक्रियामौर्ध्वदैहिकीम् ॥४९॥

आरभेत विनीतात्मा क्रोधलोभविवर्जितः ।
श्राद्धानि कुर्यात्सर्वाणि वृषस्योत्सर्जनं तथा ॥५०॥

त्रयोदशानां विप्राणां वस्त्रच्छत्राण्युपानहौ ।
अङ्गुलीयकमुक्तानि भाजनासनभोजनैः ॥५१॥

सान्नाश्च सोदका देया घटाः प्रेतहिताय वै ।
शय्यादानमथो दत्त्वा घटं प्रेतस्य निर्वपेत् ॥५२॥

नारायणेति सन्नाम संपुटस्थं समर्चयेत् ।
एवं कृत्वाथ विधिवच्छुभाशुभफलं लभेत् ॥५३॥

राजोवाच ।
कथं प्रेतघटं कुर्याद्दद्यात्केन विधानतः ।
ब्रूहि सर्वानुकम्पार्थं घटं प्रेतविमुक्तिदम् ॥५४॥

प्रेत उवाच ।
साधु पृष्टं महाराज कथयामि निबोध ते ।
प्रेतत्वं न भवेद्येन दानेन सुदृढेन च ॥५५॥

दानं प्रेतघटं नाम सर्वाशुभविनाशनम् ।
दुर्लभं सर्वलोकानां दुर्गतिक्षयकारकम् ॥५६॥

सन्तप्तहाटकमयं तु घटं विधाय ब्रह्मोशकेशवयुतं सह लोकपालैः ।
क्षीराज्यपूर्णविवरं प्रणिपत्य भक्त्या विप्राय देहि तव दानशतैः किमन्यैः ॥५७॥

ब्रह्मा मध्ये तथा विष्णुः शङ्करः शङ्करोऽव्ययः ।
प्राच्यादिषु च तत्कण्ठे लोकपालान्क्रमेण तु ॥५८॥

सम्पूज्य विधिवद्राजन्धूपैः कुसुमचन्दनैः ।
ततो दुग्धाज्यसहितं घटं देयं हिरण्मयम् ॥५९॥

सर्वदानाधिकञ्चैतन्महापातकनाशनम् ।
कर्तव्यं श्रद्धया राजन्प्रेतत्वविनिवृत्तये ॥६०॥

श्रीभागवानुवाच ।
एवं संजल्षतस्तस्य प्रेतेन नियतात्मनः ।
सेनाजगामानुपदं हस्त्यश्वरथसंकुला ॥६१॥

ततो बले समायाते दत्त्वा राज्ञे महामणिम् ।
नमस्कृत्य पुनः प्रार्थ्य प्रेतोऽदर्शनमीयिवान् ॥६२॥

तस्माद्वनाद्विनिष्क्रम्य राजापि स्वपुरं ययौ ।
स्वपुरं स समासाद्य सर्वं तत्प्रेतभाषितम् ॥६३॥

चकार विधिवत्पक्षिन्नौर्ध्वदेहादिकं विधिम् ।
तस्य पुण्यप्रदानेन प्रेतो मुक्तो दिवं ययौ ॥६४॥

श्राद्धेन परदत्तेन गतः प्रेतोऽपि सद्गतिम् ।
किं पुनः पुत्रदत्तेन पिता यातीति चात्भुतम् ॥६५॥

इतिहासमिमं पुण्यं शृणोति श्रावयेच्च यः ।
न तौ प्रेतत्वमायातः पापाचारयुतावपि ॥६६॥

इति श्रीगारुडे महापुराणे उत्तरखण्डे द्वितीयांशे धर्मकाण्डे प्रेतकल्पे श्रीकृष्णगरुडसंवादे बभ्रुवाहनप्रेतसंवादे प्रेतत्वहेतुतन्निवृत्त्युपायनिरूपणं नाम सप्तविंशोऽध्यायः

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:53:14.8970000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

Brown Book

  • राज्य पंचवार्षिक योजनांतर्गत योजनांचे तपशीलवार अंदाज 
RANDOM WORD

Did you know?

श्रीयंत्र स्थापना व मुहूर्त याबद्दल माहिती द्यावी.
Category : Hindu - Puja Vidhi
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.