TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|पुराण|गरूडपुराणम्|प्रेतकाण्डः (धर्मकाण्डः)|

प्रेतकाण्डः - अध्यायः १०

विष्णू पुराणाचा एक भाग असलेल्या गरूड पुराणात मृत्यूनंतरच्या स्थितीबद्दलची चर्चा आहे, शिवाय श्रद्धाळू हिंदू धर्मीयांमध्ये मृत्यूनंतर जी विविध क्रिया कर्मे केली जातात, त्याला गरूडपुराणाची पार्श्वभूमी आहे.


अध्यायः १०
गरुड उवाच ।
सपिण्डीकरण जाते आब्दिके च स्वकर्मभिः ।
देवत्वं वा मनुष्यत्वं पक्षित्वं वाप्नुयुर्नराः ॥१॥

तेषां विभिन्नाहाराणां श्राद्धं वै तृप्तिदं कथम् ।
यदप्यन्यैर्द्विजैर्भुक्तं हूयते यदि वानले ॥२॥

शुभाशुभात्मकैः प्रेतस्तद्दत्तं भुज्यते कथम् ।
श्राद्धस्यावश्यकत्वन्तु आमावास्यादिषु श्रुतम् ॥३॥

श्रीभगवानुवाच ।
प्रेतानां शृणु पक्षीन्द्र यथा श्राद्धन्तु तृप्तिदम् ।
देवो यदपि जातोऽयं मनुष्यः कर्मयोगतः ॥४॥

तस्यान्नममृतं भूत्वा देवत्वेऽप्यनुयाति च ।
गान्धव्ये भोगरूपेण पशुत्वे च तृणं भवेत् ॥५॥

श्राद्धं हि वायुरूपेण नागत्वेऽप्यनुगच्छति ।
फलं भवति पक्षित्वे राक्षसेषु तथामिषम् ॥६॥

दानवत्वे तथा मांसं प्रेतत्वेरुधिरं तथा ।
मनुष्यत्वेऽन्नपानादि बाल्ये भोगरसो भवेत् ॥७॥

गरुड उवाच ।
कथं कव्यानि दत्तानि हव्यानि च जनैरिह ।
गच्छन्ति पितृलोकं वा प्रापकः कोऽत्र गद्यते ॥८॥

मृतानामपि जन्तूनां श्राद्धमाप्यायनं यदि ।
निर्वाणस्य प्रदीपस्य तैलं संवर्धयेच्छिखाम् ॥९॥

मृताश्च पुरुषाः स्वामिन् स्वकर्मजनितां गतिम् ।
गाहन्तः के कथं स्वस्य सुतस्य श्रेय आप्नुयुः ॥१०॥

श्रीभगवानुवाच ।
श्रुतेः प्रत्यक्षतस्तार्क्ष्य प्रामाण्यं बलवत्तरम् ।
श्रुत्या तुः बोधितार्थस्य पीयूषत्वादिरूपता ॥११॥

नामगोत्रं पितॄणां वै प्रापकं हव्यकव्ययोः ।
श्राद्धस्य मन्त्रास्तद्वत्तु प्रापकाश्चैव भक्तितः ॥१२॥

अचेतनानि चैतानि प्रापयन्ति कथन्त्विति ।
सुपर्ण नावगन्तव्यं प्रापकं वच्मि तेऽपरम् ॥१३॥

अग्निष्वात्तादयस्तेषा माधिपत्ये व्यवस्थिताः ।
काले न्यायागतं पात्रे विधिना प्रतिपादितम् ॥१४॥

अन्नं नयन्ति तत्रैते जन्तुर्यत्रावतिष्ठते ।
नाम गोत्रञ्च मन्त्राश्च दत्तमन्नं नयन्ति ते ॥१५॥

अपि योनिशतं प्राप्तांस्तांस्तृप्तिरुपतिष्ठति ।
तेषां लोकान्तरस्थानां विविधैर्नामगोत्रकैः ॥१६॥

अपसव्यं क्षितौ दर्भे दत्ताः पिण्डास्त्रयस्तु वै ।
यान्ति तांस्तर्पयन्त्येवं प्रेतस्थानस्थितान्पितॄन् ॥१७॥

अप्राप्तयातनास्थानाः श्रेष्ठा ये भुवि पञ्चधा ।
नानारूपास्तु जाता ये तिर्यग्योन्यादिजातिषु ॥१८॥

यदाहारा भवन्त्येते पितरो यत्र योनिषु ।
तासुतासु तदाहारः श्राद्धा अवतिष्ठति ॥१९॥

यथा गोषु प्रनष्टासु वत्सो विन्दति मातरम् ।
तथान्नं नयते विप्र जन्तुर्यत्रावतिष्ठते ॥२०॥

पितरः श्राद्धमोक्तारो विश्वेर्देवैः सदा सह ।
एते श्राद्धं सदा भुक्त्वा पितॄन्सन्तर्पयन्त्यतः ॥२१॥

वसुरुद्रादितिसुताः पितरः श्राद्धदेवताः ।
प्रीणयाते मनुष्याणां पितॄञ्श्राद्धेषु तर्पिताः ॥२२॥

आत्मानं गुर्विणी गर्भमपि प्रीणाति वै यथा ।
दोहदेन तथा देवाः श्राद्धैः स्वांश्च पितॄन्नृणाम् ॥२३॥

हृष्यन्ति पितरः श्रुत्वा श्राद्धकालमुपस्थितम् ।
अन्योन्यं मनसा ध्यात्वा सम्पतन्ति मनोजवम् ॥२४॥

ब्राह्मणैः सह चाश्रन्ति पितरो ह्यन्तरिक्षगाः ।
वायुभूताश्च तिष्ठन्ति भुक्त्वा यान्ति परां गतिम् ॥२५॥

निमन्त्रितास्तु ये विप्राः श्राद्धपूर्वदिनेः खग ।
प्रविश्य पितरस्तेषु भुक्त्वा यान्ति स्वमालयम् ॥२६॥

श्राद्धकर्त्रा तु यद्येकः श्राद्धे विप्रो निमन्त्रितः ।
उदरस्थः पिता तस्य वामपार्श्वे पितामहः ॥२७॥

प्रपितामहो दक्षिणतः पृष्ठतः पिण्डभक्षकः ।
श्राद्धकाले यमः प्रेतान्पितॄंश्चापि यमालयात् ॥२८॥

विसर्जयति मानुष्ये निरयस्थांश्च काश्यप ।
क्षुधार्ताः कीर्तयन्तश्च दुष्कृतञ्च स्वयङ्कृतम् ॥२९॥

काङ्क्षन्ति पुत्रपौत्रेभ्यः पायसं मधुसंयुतम् ।
तस्मात्तांस्तत्र विधिना तर्पयेत्पायसेन तु ॥३०॥

गरुड उवाच ।
स्वामिन्केनापि ते दृष्टा आगताः पितरो द्विज ।
लोकादमुष्मादागत्य भुञ्जन्तो भुवि मानद ॥३१॥

श्रीभगवानुवाच ।
गरुत्मञ्छृणु वक्ष्यामि यथा दृष्टास्तु सीतया ।
पितरो विप्रदेहे वै श्वशुराद्यास्त्रयः क्वचित् ॥३२॥

गृहीत्वा पितुराज्ञां वै रामो वनमुपागमत् ।
ततः पुष्करयात्रार्थं रामोऽयात्सीतया सह ॥३३॥

तीर्थं चापि समागत्य श्राद्धं प्रारब्ध वांस्तु सः ।
फलं पक्वन्तु जानक्या सिद्धं रामे निवेदितम् ॥३४॥

स्नातप्रियोक्तवाक्यात्तु सुस्नाता नमपालयत् ।
नभोमध्यगते सूर्ये काले कुतुप आगते ॥३५॥

अयाता ऋःषयः सर्वे ये रामेण निमन्त्रिताः ।
तान्मुनीनागतान्दृष्ट्वा वैदेही जनकात्मका ॥३६॥

रामाज्ञयान्नमादाय परिवेष्टुमुपागता ।
अपासर्पत्ततो दूरे विप्रमध्ये तु संस्थिता ॥३७॥

गुल्मैराच्छाद्य चात्मानं निगूढं सा स्थिता तदा ।
एकान्ते तु तदा सीतां ज्ञात्वा राघवनन्दनः ॥३८॥

विमृश्य सुचिरं कालमिदं किमिति सत्वरम् ।
किञ्चित्क्वचिद्गता साध्वी त्रपायाः कारणेन हि ॥३९॥

किं वा न भोजयन्विप्रान्सी तामन्वेषयाम्यहम् ।
विमृशन्नेवमेवं स स्वयं विप्रानभोजयत् ॥४०॥

गतेषु द्विजमुख्येषु प्रियां रामोऽब्रवीदिदम् ।
कथं तलासु लीना त्वं मुनीन्दृष्ट्वा समागतान् ॥४१॥

तत्सर्वं मम तन्वङ्गि कारणं वद मा चिरम् ।
एवमुक्ता तदा भर्त्रा सीता साधोमुखी स्थिता ।
मुञ्चन्ती चाश्रुसंघातं राघवं वाक्यमब्रवीत् ॥४२॥

सीतोवाच ।
शृणु त्वं नाथ यद्दृष्टमाश्चर्यमिह यादृशम् ॥४३॥

पिता तव मया दृष्टो ब्राह्मणाग्रे तु राघवः ।
सर्वाभरणसंयुक्तोद्वौ चान्यौ च तथाविधौ ॥४४॥

दृष्ट्वा त्वत्पितरञ्चाहमपक्रान्ता तवान्तिकात् ।
वल्कलाजिनसंवीता कथं राज्ञः पुरः प्रभो ॥४५॥

भवामि रिपुवीरघ्न सत्यमेतदुहाहृतम् ।
स्वहस्तेन कथं देयं राज्ञे वा भोजनं मया ॥४६॥

दासानामपि ये दासा नोपभुञ्जन्ति कर्हिचित् ।
तृणपात्रे कथं तस्मै अन्नं दातुं हि शक्रुयाम् ॥४७॥

याहं राज्ञा पुरा दृष्टा सर्वाभरणभूषिता ।
सा स्वेदमलदिग्धाङ्गी कथं यास्यामि भूपतिम् ।
अपकृष्टास्मि तेनाहं त्रपया रघुनन्दन ।
श्रीभागवानुवाच ॥४८॥

इति श्रुत्वा प्रियावाक्यं रामो विस्मितमानसः ॥४९॥

आश्चर्यमिति तज्ज्ञात्वा तदा स्वस्थानमागमत् ।
सीतया पितरो दृष्टा यथा तत्ते निवेदितम् ॥५०॥

अपरं श्राद्धमाहात्म्यं किञ्चिच्छृणु समासतः ।
अमावस्यादिने प्राप्ते गृहद्वारे समास्थिताः ॥५१॥

वायुभूताः प्रवाञ्छन्ति श्राद्धं पितृगणा नृणाम् ।
यावदस्तमयं भानोः क्षुत्पिपासासमाकुलाः ॥५२॥

ततश्चास्तं गते सूर्ये निराशा दुः खसंयुताः ।
निः श्वसन्तश्चिरं यान्ति गर्हयन्तस्तु वंशजम् ॥५३॥

तस्माच्छ्राद्धं प्रयत्नेन अमायां कर्तुमर्हति ।
यदि श्राद्धं प्रकुर्वन्ति पुत्राद्यास्तस्य बान्धवाः ॥५४॥

उद्धृता ये गयाश्राद्धे ब्रह्मलोकञ्च तैः सह ।
भजन्ते क्षुत्पिपासा वा न तेषां जायते क्वचित् ॥५५॥

तस्माच्छ्राद्धं प्रयत्नेन सम्यक्कुर्याद्विचक्षणः ।
तस्माच्छ्राद्धं चरेद्भक्त्या शाकैरपि यथाविधि ॥५६॥

कुर्वीत समये श्राद्धं कुले कश्चिन्न सीदति ।
आयुः पुत्रान्यशः स्वर्गं कीर्तिं पुष्टिं बलं श्रियम् ॥५७॥

पशून्सारैव्यं धनं धान्यं प्राप्नुयात्पितृपूजनात् ।
देवकार्यादपि सदा पितृकार्यं विशिष्यते ॥५८॥

देवताभ्यः पितॄणां हि पूर्वमाप्यायनं शुभम् ।
ये यजन्ति पितॄन्देवान्ब्राह्मणांश्च हुताशनम् ॥५९॥

सर्वभूतान्तरात्मानं मामेव हि यजन्ति ते ।
स्मार्तेन विधिना श्राद्धं कृत्वा स्वविभवोचितम् ॥६०॥

आब्राह्मस्तम्बपर्यन्तं जगत्प्रीणाति मानवः ।
अन्नप्रकिरणं यत्तु मनुष्यैः क्रियते भुवि ॥६१॥

तेन तुप्तिमुपायान्ति ये पिशाचत्वमागताः ।
यच्चाम्बुः स्नानवस्त्रेभ्यो भूमौ पतति खेचर ॥६२॥

तेन ये तरुतां प्राप्तास्तेषां तृप्तिः प्रजायते ।
यानि गन्धाम्बूनि चैव पतन्ति धरणीतले ॥६३॥

तेन चाप्यायनं तेषां ये देवत्वमुपागताः ।
ये चापि स्वकुलाद्बाह्याः क्रियायोग्या ह्यसंस्कृताः ॥६४॥

विपन्नास्ते तु विकिरसंमार्जनजलाशिनः ।
भुक्त्वा चाचमनं यच्च जलं यच्चाह्नि सेवितम् ॥६५॥

ब्राह्मणानां तथैवान्यत्तेन तृप्तिं प्रयान्ति वै ।
पिशाचत्वमनुप्राप्ताः कृमिकीटत्वमेव ये ॥६६॥

उद्धृतेष्वन्नपिण्डेषु भुवि ये चान्नकाङ्क्षिणः ।
तैरेवाप्यायनं तेषां ये मनुष्यत्वमागताः ॥६७॥

एवं वै क्रियमाणानां तेषां चैव द्विजन्मनाम् ।
कश्चिज्जलान्नविक्षेपः शुचिरुच्छिष्ट एव वा ॥६८॥

तेनान्नेन कुले तेषां ये वै जात्यन्तरं गताः ।
भवत्याप्यायनं तेषां सम्यक्श्राद्धे कृते सति ॥६९॥

अन्यायोपार्जितैर्द्रव्यैर्यच्छ्राद्धं क्रियते नरैः ।
तकृप्यन्ति तेन चण्डालाः पुक्कसाद्युपयोनिषु ॥७०॥

एवं संप्राप्यते पक्षिन् यद्दत्तमिह बान्धवैः ।
श्राद्धं कुर्वद्भिरन्नाम्वुशाकैस्तृप्तिर्हि जायते ॥७१॥

एतत्ते सर्वमाख्यातं यन्मां त्वं परिपृच्छसि ।
सद्यो देहान्तरप्राप्तिर्विलंबेनावनीतले ॥७२॥

पृष्टवानसि तत्तेऽहं प्रवक्ष्यामि समासतः ।
सद्यो विलम्बतञ्चैवोभयथापि कलेवरम् ॥७३॥

यतो हि मर्त्यः प्राप्नोति तद्विशेषञ्च मे शृणु ।
अधूमकज्योतिरिवाङ्गुष्ठमात्रः पुमांस्ततः ॥७४॥

देहमेकं सद्य एव वायवीयं प्रपद्यते ।
यथा नृणजलौका हि पश्चत्पादं तदोद्धरेत् ॥७५॥

स्थितिरग्र्यस्य पादस्य यदा जाता दृढा भवेत् ।
एवं देही पूर्वदेहं समुत्सृजति तं यदा ॥७६॥

भोगार्थमग्रे स्याद्देहो वायवीय उपस्थितः ।
विषयग्राहकं यद्वन्म्रियमाणस्य चेन्द्रियम् ॥७७॥

निर्व्यापारं तच्च देहे वायुनैव स गच्छति ।
शरीरं यदवाप्नोति तच्चाप्युत्क्वम्यति स्वयम् ॥७८॥

गृहीत्वा स्वं विनिर्याति जीवो गर्भ ईवाशयात् ।
उत्क्रामन्तं स्थितं वापि भुञ्जानं वा गुणान्वितम् ॥७९॥

विमूढा नानुपश्यन्ति पश्यन्ति ज्ञानचक्षुषः ।
आतिवाहिकमित्येवं वायवीयं वदन्ति हि ॥८०॥

एवं तु यातुधानानां तमेव च वदन्ति हि ।
सुपर्ण ईदृशो देहो नृणां भवति पिण्डजः ॥८१॥

पुत्रादिभिः कृताश्चेत्स्युः पिण्डा दश दशाहिकाः ।
पिण्डजेन तु देहेन वायुजश्चैकतां व्रजेत् ॥८२॥

पिण्डजो यदि नैव स्याद्वायुजोर्ऽहति यातनाम् ।
देहिनोऽस्मिन्यथा देहे कौमारं यौवनं जरा ।
तथा देहान्तरप्राप्तिः पक्षीन्द्रेत्यवधारय ॥८३॥

वासांसि जीर्णानि यथा विहाय नवानि गृह्णाति नरोपराणि ।
तथा शरीराणि विहाय जीर्णान्यन्यानि संयाति नवानि देही ॥८४॥

नैनं छिन्दन्ति शस्त्राणि नैनं दहति पावकः ।
न चैनं क्लेदयन्त्यापो न शोषयति मारुतः ॥८५॥

वायवीयां तनुं याति सद्य इत्युक्तमेव ते ।
प्राप्तिर्विलंबतो यस्य तं देहं खलु मे शृणु ॥८६॥

क्वचिद्विलंबतो देहं पिण्डजं स समाप्नुयात् ।
अथो गतो याम्यलोकं स्वीयकर्मानुसारतः ॥८७॥

चित्रगुप्तस्यवाक्येन निरयाणि भुनक्ति सः ।
यातनाःसमवाप्याथ पशुपक्ष्यादिकीं तनुम् ॥८८॥

या गृह्णाति नरः सा स्यान्मोहेन ममतास्पदम् ।
शुभाशुभं कर्मफलं भुक्त्वा मुच्यते मानवः ॥८९॥

गरुड उवाच ।
तीर्त्वा दुः खभवाम्भोधिं भवन्तं कथमाप्नुयात् ।
बहुपातकयुक्तोऽपि तद्वदस्व दयानिधे ॥९०॥

भूयो दुः खस्य संसर्गो नरस्य न भवेद्यथा ।
ब्रूहि शुश्रूषमाणस्य पृच्छतो मे रमापते ॥९१॥

श्रीकृष्ण उवाच ।
स्वेस्वे कर्मण्यभिरतः संसिद्धिं लभते नरः ।
स्वकर्मनिरतः सिद्धिं यथा विन्दति तच्छृणु ॥९२॥

कर्मविभ्रष्टकालुष्यो वासुदेवानुचिन्तया ।
बुद्ध्या विशुद्धया युक्तो धृत्यात्मानं नियम्य च ॥९३॥

शब्दादीन्विषयांस्त्यक्त्वा रागद्वेषौ व्युदस्य च ।
विरक्तसेवी लब्ध्वाशी यतवाक्कायमानसः ॥९४॥

ध्यानयोगपरो नित्यं वैरग्यं समुपाश्रितः ।
अहङ्कारं बलं दर्पं कामं क्रोधं परिग्रहम् ॥९५॥

विमुच्य निर्ममः शान्तो ब्रह्मभूयाय कल्पते ।
अतः परं नृणां कृत्यं नास्ति कश्यपनन्दन ॥९६॥

इति श्रीगारुडे महापु उत्तरखण्डे द्वितीदृधर्मदृप्रेतकल्पे श्रीकृष्णगरुडसंवादे श्राद्धस्य तृप्तिदत्वादिनिरूपणं नाम दशमोऽध्यायः

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:53:13.9430000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

Did you know?

Every hindu follows different traditions, can you explain how?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.