TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|पुराण|गरूडपुराणम्|प्रेतकाण्डः (धर्मकाण्डः)|

प्रेतकाण्डः - अध्यायः ३०

विष्णू पुराणाचा एक भाग असलेल्या गरूड पुराणात मृत्यूनंतरच्या स्थितीबद्दलची चर्चा आहे, शिवाय श्रद्धाळू हिंदू धर्मीयांमध्ये मृत्यूनंतर जी विविध क्रिया कर्मे केली जातात, त्याला गरूडपुराणाची पार्श्वभूमी आहे.


अध्यायः ३०
श्रीकृष्ण उवाच ।
शृणु तार्क्ष्य परं गुह्यं दानानां दानमुत्तमम् ।
परमं सर्वदानानां परं गोप्यं दिवौकसाम् ॥१॥

देयमेकं महादानं कार्पासं चोत्तमोत्तमम् ।
येन दत्तेन प्रीयन्ते भूर्भुवः स्वरिति क्रमात् ॥२॥

ब्रह्माद्या देवताः सर्वाः कार्याच्च प्रीतिमाप्नुयुः ।
देयमेतन्महादानं प्रेतोद्धरणहेतवे ॥३॥

चिरं वसेद्रुद्रलोके ततो राजा भवेदिह ।
रूपवान्सुभगो वाग्मी श्रीमानतुल विक्रमः ।
यमलोकं विनिर्जित्य स्वर्गं ताक्ष्य स गच्छति ॥४॥

गां तिलांश्च क्षितं हेम यो ददाति द्विजन्मने ।
तस्य जन्मार्जिर्त पापं तत्क्षणादेवनश्यति ॥५॥

तिला गावो महादानं महापातकनाशनम् ।
तद्द्वयं दीयते विप्रे नान्यवर्णे कदाचन ॥६॥

कल्पितं दीयते दानं तिला गावश्चमेदिनी ।
अन्येषु नैव वर्णेषु पोष्यवर्गे कदाचन ॥७॥

पोष्यवर्गे तथा स्त्रीषु दानं देयमकल्पितम् ।
आतुरे वोपरागे च द्वयं दानं विशिष्यते ।
आतुरे दीयते दानं तत्काले चोपतिष्ठति ॥८॥

जीवतस्तु पुनर्दत्तमुपतिष्ठत्यसंस्कृतम् ।
सत्यंसत्यं पुनः सत्यं यद्दत्तं विकलेन्द्रिये ॥९॥

यच्चानु मोदते पुत्रस्तच्च दानमनन्तकम् ।
अतो दद्यात्स पुत्रो वा यावज्जीवत्ससौ चिरम् ।
अतिवाहस्तथा प्रेतो भोगांश्च लभते यतः ॥१०॥

अस्वस्था तुरकाले तु देहपाते क्षितिस्थिते ।
देहे तथातिवाहस्य परतः प्रीणनं भवेत् ॥११॥

पङ्गावन्धे च काणे च ह्यर्धोन्मीलितलोचने ।
तिलेषु दर्भान्संस्तीर्य दानमुक्तं तदक्षयम् ॥१२॥

तिला लौहं हिरण्यञ्च कार्पासं लवणं तथा ।
सप्तधान्यं क्षितिर्गाव एकैकं पावनं स्मृतम् ॥१३॥

लोहदानाद्यमस्तुष्येद्धर्म राजस्तिलार्पणात् ।
लवणे दीयमाने तु न भयं विद्यते यमात् ॥१४॥

कर्पासस्य तु दानेन न भूतेभ्यो भयं भवेत् ।
तारयन्ति नरं गावस्त्रिविधाश्चैव पातकात् ॥१५॥

हेमदानात्सुखं स्वर्गे भूमिदानान्नृपो भवेत् ।
हेमभूमिप्रदानाच्च न पीडा नरके भवेत् ॥१६॥

सर्वेऽपि यमदूताश्च यमरूपा विभीषणाः ।
सर्वे ते वरदा यान्ति सप्तधान्येन प्रीणिताः ॥१७॥

विष्णोः स्मरणमात्रेण प्राप्यते परमा गतिः ।
एतत्ते सर्वमाख्यातं मर्त्यैर्या गतिराप्यते ॥१८॥

तस्मात्पुत्रं प्रशंसन्ति ददाति पितुराज्ञया ।
भूमिष्ठं पितरं दृष्ट्वा ह्यर्धोन्मीलितलोचनम् ॥१९॥

तस्मिन् काले सुतो यस्तु सर्वदानानि दापयेत् ।
गयाश्राद्धाद्विशिष्येत स पुत्रः कुलनन्दनः ॥२०॥

स्वस्थानाच्चलितश्चासौ विकलस्य पितुस्तदा ।
पुत्रैर्यत्नेन कर्तव्या पितरं तारयन्ति ते ॥२१॥

किं दत्तैर्बहुभिर्दानैः पितुरन्त्येष्टिमाचरेत् ।
अश्वमेधो महायज्ञः कलां नार्हति षोडशीम् ॥२२॥

धर्मात्मा स नु पुत्रो वैदेवैरपि सुपूज्यते ।
दापयेद्यस्तु दानानि ह्यातुरं पितरं भुवि ॥२३॥

लोहदानञ्च दातव्यं भूमियुक्तेन पाणिना ।
यमं भीमञ्च नाप्नोति न गच्छेत्तस्य वेश्मनि ॥२४॥

कुठारो मुसलो दण्डः खड्गश्च च्छुरिका तथा ।
एतानि यमहस्तेषु दृश्यानि पापकर्मिणाम् ॥२५॥

तस्माल्लोहस्य दानन्तु ब्राह्मणायातुरो ददेत् ।
यमायुधानां सन्तुष्ट्यै दानमेतदुदाहृतम् ॥२६॥

गर्भस्थाः शिशवो ये च युवानः स्थविरास्तथा ।
एभिर्दानविशेषैस्तु निर्दहेयुः स्वपातकम् ॥२७॥

छुरिणः श्यामशबलौ षण्डामर्का उदुम्बराः ।
शबला श्यामदूता ये लोहदानेन प्रीणिताः ॥२८॥

पुत्राः पौत्रास्तथा बन्धुः सगोत्राः सुहहृदस्तथा ।
ददते नातुरे दानं ब्रह्मघ्नैस्तु समा हि ते ॥२९॥

पञ्चत्वे भूमियुक्तस्य शृणु तस्य च या गतिः ।
अतिवाहः पुनः प्रेतोवर्षोर्ध्वं सुकृतं लभेत् ॥३०॥

अग्नित्रयं त्रयो लोकास्त्रयो वेदास्त्रयोऽमराः ।
कालत्रयं त्रिसन्ध्यं च त्रयो वर्णास्त्रिशक्तयः ॥३१॥

पादादूर्ध्वं कटिं यावत्तावद्ब्रह्याधितिष्ठति ।
ग्रीवां यावद्धरिर्नाभेः शरीरे मनुजस्य च ॥३२॥

मस्तके तिष्ठतीशानो व्यक्ताव्यक्तो महेश्वरः ।
एकमूर्तेस्त्रयो भागा ब्रह्मा विष्णुहेश्वराः ॥३३॥

अहं प्राणः शरीरस्थो भूतग्रामचतुष्टये ।
धर्माधर्मे मतिं दद्यात्सुखदुःखे कृताकृते ॥३४॥

जन्तोर्वुद्धिं समास्थाय पूर्वमर्माधिवासिताम् ।
अहमेव तथा जीवान्प्रेरयामि च कर्मसु ।
स्वर्गं च नरकं मोक्षं प्रयान्ति प्राणिनो ध्रुवम् ॥३५॥

स्वर्गस्थं नरकस्थं वा श्राद्धे वाप्यायनं भवेत् ।
तस्माच्छ्राद्धानि कुर्वीत त्रिविधानि विचक्षणः ॥३६॥

मत्स्यं कर्मं च वाराहं नारसिंहञ्च वामनम् ।
रामं रामं च कृष्णं च बुद्धं चैव सकल्किनम् ।
एतानि दश नामानि स्मर्तव्यानि सदा बुधैः ॥३७॥

स्वर्गं जीवाः सुखं यान्ति च्युताः स्वर्गाच्च मानवाः ।
लब्ध्वा सुखं च वित्तं च दयादाक्षिण्यसंयुताः ।
पुत्रपौत्रैर्धनैराढ्या जीवेयुः शरदां शतम् ॥३८॥

आतुरे च ददेद्दानं विष्णुपूजाञ्च कारयेत् ।
अष्टाक्षरं तथा मन्त्रं जपेद्वा द्वादशाक्षरम् ॥३९॥

पूजयेच्छुक्लपुष्पैश्च नैवेद्यैर्घृतपाचितैः ।
तथा गन्धैश्च धूपैश्च श्रुतिस्मृतिमनूदितैः ॥४०॥

विष्णुर्माता पिता विष्णुर्विष्णुः स्वजनबान्धवाः ।
यत्र विष्णुं न पश्यामि तेन वासेन किं मम ॥४१॥

जले विष्णुः स्थले विष्णुर्विष्णुः पर्वतमस्तके ।
ज्वालामालाकुले विष्णुः सर्वं विष्णुमयं जगत् ॥४२॥

वयमापो वयं पृथ्वी वयं दर्भा वयं तिलाः ।
वयं गावो वयं राजा वयं वायुर्वयं प्रजाः ॥४३॥

वयं हेम वयं धान्यं वयं मधु वयं घृतम् ।
वयं विप्रा वयं देवा वयं शम्भुश्च भूर्भुवः ॥४४॥

अहं दाता अहं ग्राही अहं यज्वा अहं क्रतुः ।
अहं हर्ता अहं धर्मो अहं पृथ्वी ह्यहं जलम् ॥४५॥

धर्माधर्मे मतिं दद्यां कर्मभिस्तु शुभाशुभैः ।
यत्कर्म क्रियते क्वापि पूर्वजन्मार्जितं खग ॥४६॥

धर्मे मतिमहं दद्यामधर्मेऽप्यहमेव च ।
यातनां कुरुते सोऽपि धर्मे मुक्तिं ददाम्यहम् ॥४७॥

मनुजानां हिता तार्क्ष्य अन्ते वैतरणी स्मृता ।
तयावमत्य पापौघं विष्णुलोकं स गच्छति ॥४८॥

बालत्वे यच्च कौमारे यच्च परिणतौ च यत् ।
सर्वावम्थाकृतं पापं यच्च जन्मान्तरेष्वपि ॥४९॥

यन्निशायां तथा प्रातर्यन्मध्याह्नापराह्नयोः ।
सन्ध्ययोर्यत्कृतं कर्म कर्मणा मनसा गिरा ॥५०॥

दत्त्वा वरां सकृदपि कपिलां सर्वकामिकाम् ।
उद्धरेदन्तकाले स आत्मानं पापसञ्चयात् ॥५१॥

गावो ममाग्रतः सन्तु पृष्ठतः पार्श्वतस्तथा ।
गावो मे हृदये सन्तु गवां मध्ये वसाम्यहम् ॥५२॥

या लक्ष्मीः सर्वभूतानां या च देवे व्यवस्थिता ।
धेनुरूपेण सा देवी मम पापं व्यपोहतु ॥५३॥

इति श्रीगारुडे महापुराणे उत्तरखण्डे द्वितीयांशे धर्मकाण्डे प्रेतकल्पे श्रीकृष्णगरुडसंवादे नानादाननिरूपणं नाम त्रिंसोऽध्यायः

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:53:15.0670000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

object of legislation

  • विधिविधानाचे उद्दिष्ट 
RANDOM WORD

Did you know?

आषाढी एकादशीला "देवशयनी एकादशी" का म्हणतात?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site