TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|पुराण|गरूडपुराणम्|प्रेतकाण्डः (धर्मकाण्डः)|

प्रेतकाण्डः - अध्यायः १२

विष्णू पुराणाचा एक भाग असलेल्या गरूड पुराणात मृत्यूनंतरच्या स्थितीबद्दलची चर्चा आहे, शिवाय श्रद्धाळू हिंदू धर्मीयांमध्ये मृत्यूनंतर जी विविध क्रिया कर्मे केली जातात, त्याला गरूडपुराणाची पार्श्वभूमी आहे.


अध्यायः १२
श्रीकृष्ण उवाच ।
एवं ते कथितस्तार्क्ष्य जीवितस्य विनर्णयः ।
मानुषाणां हितार्थाय प्रेतत्वविनिवृत्तये ॥१॥

चतुरशीतिलक्षाणि चतुर्भेदाश्च जन्तवः ।
अण्डजाः स्वेदजाश्चैव उद्भिज्जाश्च जारायुजाः ॥२॥

एकविंशतिलक्षाणि अण्डजाः परिकीर्तिताः ।
स्वेदजाश्च तथा प्रोक्ता उद्भिज्जाश्च क्रमेण तु ॥३॥

जरायुजास्तथा प्रोक्ता मनुष्याद्यास्तथा परे ।
सर्वेषामेव जन्तूनां मानुषत्वं हि दुर्लभम् ॥४॥

पञ्चेन्द्रियनिधानत्वं महापुण्यैरवाप्यते ।
ब्राह्मणाः क्षत्त्रिया वैश्याः शूद्रास्तत्परजातयः ॥५॥

रजकश्चर्मकारश्च नटो बुरुड एव च ।
कैवर्तमेदभिल्लाश्च सप्तैते ह्यन्त्यजाः स्मृताः ॥६॥

म्लेच्छतुम्बविभेदेन जातिभेदास्त्वनेकशः ।
जन्तूनामेव सर्वेषां जातिभेदाः सहस्रशः ॥७॥

जन्तूनामेव सर्वेषां भेदाश्चैव सहस्रशः ।
आहारो मैथुनं निद्रा भयं क्रोधस्तथैव च ॥८॥

सर्वेषा मेव जन्तूनां विवेको दुर्लभः परः ।
एकपादादिरूपेण देहभेदास्त्वनेकशः ॥९॥

कृष्णसारो मृगो यत्र धर्मदशः स उच्यते ।
ब्रह्माद्या देवताः सर्वास्तत्र तिष्ठन्ति सर्वशः ॥१०॥

भूतानां प्राणिनः श्रेष्ठाः प्राणिनां मतिजीविनः ।
मतिमत्सु नराः श्रेष्ठा नरेषु ब्राह्मणाः स्मृताः ॥११॥

मानुष्यं यः समासाद्य स्वर्गमेक्षैकसाधकम् ।
तयोर्न साधयेदेकं तेनात्मा वञ्चितो ध्रुवम् ॥१२॥

इच्छति शती सहस्रं सहस्री लक्षमीहते कर्तुम् ।
लक्षाधिपती राज्यं राजापि सकलां धरां लब्धुम् ॥१३॥

चक्रधरोऽपि सुरत्वं सुरभावे सकलसुरपतिर्भवितुम् ।
सुरपतिरूर्ध्वगतित्वं तथापि ननिवर्तते तृष्णा ॥१४॥

तृष्णया चाभिभूतस्तु नरकं प्रतिपद्यते ।
तृष्णामुक्तास्तु ये केचित्स्वर्गवासं लभन्ति ते ॥१५॥

आत्माधीनः पुमांल्लोके सुखी भवति निश्चितम् ।
शब्दः स्पर्शश्च रूपं च रसो गन्धश्च तद्गुणाः ॥१६॥

तथा च विषयाधीनो दुः खी भवति निश्चितम् ॥१७॥

कुरङ्गमताङ्गपतङ्गभृङ्गमीना हताः पञ्चभिरेव पञ्च ।
एकः प्रमादी स कथं न हन्यते यः सेवते पञ्चभिरेव पञ्च ॥१८॥

पितृमातृमयो बाल्ये यौवने दयितामयः ।
पुत्रपौत्रमयश्चान्ते मूढो नात्ममयः क्वचित् ॥१९॥

लोहदारुमयैः पाशैः पुमान्बद्धो विमुच्यते ।
पुत्रदारमयैः पाशैर्नैव बद्धो विमुच्यते ॥२०॥

एकः करोति पापानि फलं भुङ्क्ते महाजनः ।
भोक्तारो विप्रयुज्यन्ते कर्ता दोषेण लिप्यते ॥२१॥

कोऽपि मृत्युं न जयति बालो वृद्धो युवापि वा ।
सुखदुः खादिको वापि पुनरायाति याति च ॥२२॥

सर्वेषां पश्यतामेव मृतः सर्वं परित्यजेत् ।
एकः प्रजायते जन्तुरेक एव प्रलीयते ॥२३॥

एकोऽपि भुङ्क्ते सुकृतमेक एव च दुष्कृतम् ।
मृतं शरीरमुत्सृज्य काष्ठलोष्टसमङ्क्षितौ ॥२४॥

बान्धवा विमुखा यान्ति धर्मस्तमनुगच्छति ।
गृहेष्वर्था निवर्तन्ते श्मशानान्मित्रबान्धवाः ॥२५॥

शरीरं वह्निरादत्ते सुकृतं दुष्कृतं व्रजेत् ।
शरीरं वह्निना दग्धं पुण्यं पापं सह स्थितम् ॥२६॥

शुभं वा यदि वा पापं भुङ्क्ते सर्वत्र मानवः ।
यदनस्तमिते सूर्ये न दत्तं धनमर्थिनाम् ॥२७॥

न जाने तस्य तद्वित्तं प्रातः कस्य भविष्यति ।
रारटीति धनं तस्य को मे भर्ता भविष्यति ॥२८॥

न दत्तं द्विजमुख्येभ्यः परोपकृतये तथा ।
पूर्वजन्मकृतात्पुण्याद्यल्लब्धं बहु चाल्पकम् ॥२९॥

तदीदृशं परिज्ञाय धर्मार्थे दीयते धनम् ।
धनेन धार्यते धर्मः श्रद्धापूतेन चेतसा ॥३०॥

श्रद्धाविरहितो धर्मो नेहामुत्र च तत्फलम् ।
धर्माच्च जायते ह्यर्थो धर्मात्कामोऽपि जायते ॥३१॥

धर्म एवापवर्गाय तस्माद्धर्मं समाचरेत् ।
श्रद्धया साध्यते धर्मो बहुभिर्नार्थराशिभिः ॥३२॥

अकिञ्चना हि मुनयः श्रद्धावन्तो दिवं गताः ।
अश्रद्धया हुतं दत्तं तपस्तप्तं कृतं च यत् ।
असदित्युच्यते पक्षिन्प्रेत्य चेह न तत्फलम् ॥३३॥

इति श्रीगारुडे महापुराणे उत्तरखण्डे द्वितीयांशे धर्मकादृप्रेतकल्पे श्रीकृष्णगरुडसंवादे मृतस्य धर्ममात्रानुयायित्वनिरूपणं नाम द्वादशोऽध्यायः

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:53:14.0670000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

दिव्यदेही

  • a  Having a glorified body. 
RANDOM WORD

Did you know?

Navchandi Paath explain why it should be done?
Category : Hindu - Puja Vidhi
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site